साधुसमागमविषयः
जपस्वाध्यायादिसमये साधुसमागमे सति
तान् प्रणम्य
स्वागतादिना उपचरित्वा+++(र्य)+++
तदनुज्ञया जपादिशेषं कुर्यात् ।
[[330]]
गुरून् विना
किम् अपि निम्नोन्नत-देशगतन् न प्रणमेत् ।
गुरुन् तून्नत-देशगतं स्वयं निम्न-स्थः प्रणमेत् ।
साधु-समागमने स्वयम् आसीनो न वर्तेत ।
उत्थाय तद्-आसनाय देशं परिष्कृत्य
तद्-उपवेशनं प्रार्थ्य
तद्-उपवेशनानन्तरं स्वयम् आसीत ।
स्वाध्याय-काले साधुभिस् सह सल्ँलपेत् ।
तेष्व् अपार्थ-कथनम्, अतिवादं, परिहासं, केवल-तर्काटोपञ् च वर्जयेत् ।
आचार्यप्राचार्य-सन्निपाते प्राचार्यं प्रथमम् उपचरित्वा
तत आचार्यम् उपचरेत् ।
आचार्य-भागवत-सन्निपाते पूर्वम् आचार्यस्य, ततो भागवतस्य ।
भागवतैस् सह सम्भाषमाणो
न हठात् कार्यान्तराय गच्छेत् ।+++(5)+++
भगवद्-उत्सवे अनुयात्रां कुर्वन्
मध्ये सन्ध्याकालाद्य्-अतिक्रम-भयेन तद्-अर्थन् न गच्छेत् ।
नित्य-कर्म-विरोधेनान्यत्रोत्सव-सेवार्थन् न गच्छेत् ।
भागवतैस् सम्भाषणस्य कर्मानुष्ठान-कालातिक्रमेपि न दोषः ।
ब्रह्म-विद्-अपचारं सर्वथा परिहरेत् ।
मोहाज् जाते - सद्य एव क्षामणादिना तं परिहरेत् ।