१४ प्रदोषनिर्णयः

अथ प्रदोषनिर्णयः

यस्मिन्दिने सूर्यास्तमयानन्तरं नवनाडिका पूर्वकाले चतुर्थी आयास्यति, यस्मिन्दिने सूर्यास्तमयात्परं चतुर्थी द्विनाडिका वर्तते, यस्मिन् सूर्यास्तमयात्परं पञ्चदशघटिकाभिः पूर्वं सप्तम्यायास्यति यस्मिन्दिने अस्तमयानन्तरं सप्तम्येकघटिका वर्तते, तेषु दिनेषु सायं प्रदोषः महाप्रदोषकाल उच्यते यस्मिन्दिने अस्तमयसमये त्रयोदशी वर्तते तद्दिने महाप्रदोषः । दिनद्वयेपि तथा चेत् परदिने । परदिने अस्तमयात्परं अर्धघटिकासत्व एव परदिने प्रदोषः ।

[[310]]

नो चेत् पूर्वदिने दिनद्वयेप्यस्तमयकाले त्रयोदश्यभावे पूर्वेद्युरस्तमयादूर्ध्वं षट्घटिकापूर्वकाले त्रयोदशी चेत् पूर्वदिने । तदूर्ध्वमागता चेत् परदिने । प्रदोषदिने अस्तमयात् पूर्वं मुहूर्तद्वयमारभ्य रात्रौ यामद्वयपर्यन्तं नाध्येतव्यम् । महाप्रदोषे तु नाध्ययनमात्रनिषेधः, किन्तु किमपि न पठनीयम् । तावत्कालं सर्वाश्रमिणां मौनमेव । अशक्तौ रात्रावेकयाममर्धयाममास्तमयं वा मौनमनुष्ठेयम् । गायत्र्यादिजपो मानसिकः । अनध्यायदिनेषु चतुर्थीप्रदोषे च सन्ध्यावन्दने चतुःपञ्चाशद्वारमेव गायत्रीजपः, नाधिकम् । सप्तमीप्रदोषे सप्तत्रिंशत् । पर्वद्वये प्रतिपदि च षट्त्रिंशद्वारम् । महाप्रदोषे अष्टौ[[ष्टा??]]विंशतिवारम् ।

महाप्रदोषे अभ्यङ्ग-भोजन-शयन-स्त्रीसङ्गादिकं नृसिंह-मूर्ति-व्यतिरिक्त-भगवद्-दिव्य-मूर्ति-सेवाञ् च वर्जयेत् । स्वशाखामनधीत्यान्यशाखाध्ययनन्न कर्तव्यम् ।