१३ अनध्यायदिनानि

अनध्यायदिनानि

अथानध्यायदिनान्युच्यन्ते । अष्टमी-चतुर्दशी-पर्वद्वयप्रतिपत्-शयनद्वादशी-विष्वयनमन्वादियुगादयः आषाढशुद्धद्वादशी-शयनद्वादशी-कटकमकरसङ्क्रमणम् अयनं मेषतुलासङ्क्रमणं विषुसंज्ञम् । मन्वादयस्तु ज्येष्ठाषाढ-भाद्रपद-कार्तिक-फाल्गुन-चैत्रपूर्णिमाः चैत्रमासतृतीया-आषाढशुद्धदशमी-श्रावण-कृष्णाष्टमी-आश्वयुक्-शुक्लनवमी-पुष्यशुक्लैकादशी-फाल्गुनामावास्या-माघशुक्लसप्तमी-कार्तिकशुक्लद्वादशी इति चतुर्दशमन्वादयः । युगादयस्तु वैशाखशुक्लतृतीया-कार्तिकशुक्लनवमी-भाद्रपद-कृष्णत्रयोदशी-माघामावास्येति चत्वारो युगादयः । यस्मिन्दिने उदयात्परं त्रिमुहूर्तम् अस्तमयात्पूर्वं त्रिमुहूर्तं वा अनध्यायतिथिसम्बन्धः तद्दिनमप्यनध्यायदिनम् । चतुर्दशीदिने अस्तमयात्पूर्वं पर्वागमश्चेत् तत्पूर्वत्रयोदशीदिनमनध्यायदिनम् । पूर्वोक्त[[??]]लयोरनध्यायदिनयोर्मध्यदिनमप्यनध्यायदिनम् । अनध्यायदिनत्वसन्देहेप्यध्ययनं वर्ज्यम् । एवं सन्ध्ययोः प्रदोषकालेषु रात्रिमध्यमयामद्वये च नाध्ययनं कुर्यात् ।