इत्थं सर्वेषां वस्तूनां शुद्धिम् उक्त्वा
मल-मूत्रोत्सर्जन-प्रभृति-क्रियमाण-नित्य-कर्मसु वक्तव्य-विशेष उच्यते ।
सोपानत्-पदो मलमूत्रोत्सर्गं न कुर्यात् ।
स्व-मल-दर्शने सूर्यं ब्राह्मणं वा पश्येत् ।
आर्द्र-वाससा मल-मूत्रोत्सर्गे कृते
स्नानं कुर्यात्।
मल-मूत्रोत्सर्जनानन्तरं श्वादि-स्पृष्टश् चेत्
स-चेलं स्नात्वा गायत्री-सहस्रं जपेत्।
मल-मूत्रोत्सर्ग-काले गृहीत-जलस्य शौचानर्हता ।
निरुदक-देशे चोराधिष्ठित-काननादि-प्रदेशे च
मल-मूत्रोत्सर्गस्य कर्तव्यत्वे
कम्बल-भस्त्रिकादि-धृतं धौत-वस्त्रादि-स्नानोपकरणं
शिरसि सम्यग् वस्त्रेण बध्वा
मल-मूत्रोत्सर्गः कार्यः।
आ-प्रक्षालनं तन् न स्पृशेत्।
उपवीतिना मल-मूत्रोत्सर्गे कृते
तत् ब्रह्म-सूत्रं त्यक्त्वा
नूतनं धरेत्।
निवीतेन कृते दश प्राणायामान् -
अर्ध-निवीते तु विंशति-प्राणायामान् कुर्यात् ।
[[295]]
सद्यश्-शौचाय सलिलालाभे
सलिले विण्-मूत्र-करणे च
अन्यत्र जले शौचं कृत्वा
स-चेलं स्नात्वा, गां स्पृशेत्।
विद्यमानेपि जले सद्यश् शौचाकरणे
स-चेलं स्नात्वैक-कालम् उपवसेत्।
शौचम् अ-कृत्वा मार्ग-गमने
स्नात्वा व्याहृति-त्रयं लौकिकाग्नौ जुहुयात्।
कृत-विण्-मूत्रस्य अ-कृत-शौचस्य जल-तरणे
स-चेलं स्नात्वा घृत-प्राशनाच् छुद्धिः।
विण्-मूत्रोत्सर्ग-प्रभृति आगण्डूषं मौनी भवेत्।
मध्ये कामतो मौन-त्यागे गायत्र्य्-अष्ट-शतं जपेत्, दैवाच् चेद् अर्धम् ।
धृतान्नस्य विण्-मूत्रोत्सर्गे तद्-अन्नन् त्याज्यम्।
निर्जन-चोराद्य्-उपद्रववति देशे तु
धृतान्नो विण्-मूत्रोत्सर्गं कृत्वा
तद्-अन्नं भूमौ निक्षिप्य
शौचं कृत्वा तद् अन्नम् अङ्के निधायाचम्य
तस्मिन् किञ्चिद् अंशं वर्जयित्वा
सूर्याय प्रदर्श्य भुञ्ज्यात्।
अनुपपत्ति-वशात् प्रक्षालन-काले अन्न-धरणे ऽपि पूर्ववद् एव ।