१४ समित्

मन्द-वार–गृहीतानां समिधां वत्सरं शुद्धिः ।

समिधः पावनाः पूज्याः
पर्वयुक्ताः पुरः पराः ।
युष्मान् हरामि होमार्थम्
अस्मान् रक्षन्तु सर्वदा ॥

इति मन्त्रेण समिधो ग्राह्याः ।

पलाश-समिध आर्द्रा एव ग्राह्याः ।
स-त्वक्काः कृमि-कीटाद्य्-अ-दष्टाः ग्राह्याः ।
अश्वत्थ-समिधश् शुष्काः स्वयं-पतिता ग्राह्याः -
पालाशाश्वत्थ-समिधां वत्सरं शुद्धिः ।

तासाम् उच्छिष्टाद्य्-उपघाते, कर्मान्तरोपयुक्तत्वे च त्याज्याः॥

अलाभे खादिरोदुम्बरापामार्ग-समिधो ग्राह्याः,
तासां तत्-तत्-कालं शुद्धिः।

दशाङ्गुलि-दीर्घास् समिधः,
अरत्नि-दीर्घाः परिधयः।