१३ दर्भाः

नभसि नभस्ये माघे वा मासि पर्व-काले
चतुर्दश्यां वा पूर्वाह्णे
शुचिना प्राङ्-मुखेनोदङ्-मुखेन वा शुद्धायुधेन

विरिञ्चेन सहोत्पन्न-
परमेष्ठि-निसर्ग-ज ।
नुद सर्वाणि पापानि
दर्भ स्वस्ति-करो भव

इति मन्त्रेण दर्भ-ग्रहणं कर्तव्यम् ।
तस्य संवत्सरं शुद्धिः ।

इतर-काले गृहीतस्य तत्-तत्-काल-मात्रं शुद्धिः ।

[[294]]

उच्छिष्टाद्य्-उपहतानां कर्मान्तरोपयुक्तानाञ् च त्याग एव ।