१२ पुष्प-पत्त्र-शुद्धिः

अथ समित्-पुष्पादि-शुद्धिः॥

पुष्पम्

पुष्पाणां क्षालनात् शुद्धिः,
आहृतस्य पुष्पस्यैकरात्रं शुद्धिः।
पुष्प-तुलस्य्-आदिकं बालाशुचि-स्त्री-हृतं, मध्याह्नात् परम् आहृतं, हस्त-वस्त्र-एरण्ड-पत्राहृतं च त्याज्यम् ।

तुलसी

तुलसीं भार्गव-कुजार्क-वारेषु, पर्व-काले, सङ्क्रमणोपरागयोः, षष्ठ्य्-अष्टमी-द्वादशी-चतुर्दशीषु व्यतीपाते च नाहरेत् ।+++(5)+++

शुद्धि-दिने पूर्वाह्णे *“तुलस्य् अमृत-जन्मासी"ति मन्त्रेण
शुचिना गृहीतायास् तुलस्याः
यावत्-सत्तं शुद्धिः।

होमार्थ-पलाशपत्राणि


होमार्थ-पलाशपत्राणां समिद्वद् एव ग्रहण-शुद्ध्य्-आदिकं,
पलाशपत्रालाभे चूतपत्रेण पनसपत्रेण होमः कार्यः, एवमन्येषामपि शुद्धिर्द्रष्टव्या - एवं मन्वाद्यनेकस्मृत्यनुरोधेन शुद्धिरुक्ता ।