अथ अन्न-शुद्धिः —
अन्न-व्यञ्जनादेर् यामातीतत्वे पर्युषितत्व-दोषः,
अन्नस्य शुद्ध-जल-निक्षेपे एक-रात्रं शुद्धिः ।
तथा स्नेहादि-सम्भार-संस्कृतस्य चान्नस्य एक-रात्रं शुद्धिः ।
गो-धूम-विकारादि-भक्ष्याणाम् अनेक-दिनातीतत्वेपि न दोषः ।
शुक्तादि+++(=आम्ल)+++-रसान्तरोत्पादे तु मधु-घृतादिभिस् संस्कृत्य भोज्यानि ।
अत्यन्त-शुक्तोत्पत्तौ तु त्याज्यानि।
भगवन्-निवेदित-शेषान्न-व्यञ्जनानि
न पुनर् भगवते निवेदयेत् ।
मधु-दधि-घृत-वटकोपदंशानान्तु न तद्दोषः ।+++(5)+++
शूद्र-रजस्वलादि-भुक्त-शिष्टन् न भुञ्ज्यात्
अ-बन्धु-स्पृष्टम् अन्न-व्यञ्जन-भक्ष्य-सूप[[??]]चूर्णादिकन् नाद्यात्।
शिवादि-निवेदितं शिव-निर्माल्य-पुष्पादिकञ् च त्यजेत् ।