०९ जल-शुद्धिः

अथ जल-शुद्धिः॥

गङ्गादि-पुण्य-तीर्थ-व्यतिरिक्त-जलस्य दिनान्तरे अ-शुद्धिः।
निरुदक-प्रदेशे तु निक्षिप्त-कुशस्य संरक्षितस्य जलस्य दिन-द्वयं -शुद्धिः।

शूद्रादि-वापी-कूपादि-जलं न ग्राह्यम्।
जलान्तराभावे तत्र किञ्चिन् मृदम् उद्धृत्य बहिः क्षिप्त्वा ग्राह्यम्।

वापी-कूप-तटाकानाम् अशुद्धिश् चेत्
घट-शत-जलोद्धारे शुद्धिः।
अशुध्य्-आधिक्ये पुण्याह-जलेन पञ्चगव्येन च शुद्धिः ।

[[292]]

क्षुद्र[[??]]शूद्रादिस्पर्शं वर्जयेत्।
एकस्मिन् क्षुद्र-कूपे शूद्रैस् सह जलन् नाहरेत्।
अलाभे स्थल-भेदेन रज्जु-भेदेन वा आहरेत्।

वाहन-शकटादि-धृतं जलन् न पेयं,
तथा पीत-शेषं पाद-क्षालन-शेषञ्च न पिबेत् ।
स्व-पीत-शेषन्तु किञ्चिन् निस्राव्य पिबेत्।+++(5)+++

रथ्या-कर्दम-तोयस्य वातातप-शुद्धत्वात्
तत्-स्पर्शे ऽपि न दोषः ।

… स्त्री वा पुमान् वा स्वीय-व्यतिरिक्त-पात्रेण जलन् न पिबेत्,
अज्ञानात् पाने
घृतेन भगवत्-तीर्थेन पञ्च-गव्येन वा शुध्येत् ।