अथ पुरुष-शुद्धिः उपनीतस्य कृत-पञ्च-संस्कारस्यातीत-द्वादश-वयसः परिशुद्ध-चरित्रस्य पुंसस् सर्वकर्मार्हता । अथ स्त्री-शुद्धिः॥ चक्रादि-लाञ्छितायाः ऊढायाः प्राप्त-रजसः शुद्ध-चरित्राया स्त्रियस् सर्वकर्मार्हता ।