…
कार्पास-वस्त्राणाम् एक-रात्रं शुद्धिः ।
ततः परं क्षालनाच् छुद्धिः।
त्वाच-क्षौम-रोममयानां तु
पुरातनानाम् अपि शूद्रादि-स्पर्शे ऽपि प्रोक्षणाच् छुद्धिः ।
एतेषु पुरीषोच्छिष्टादिसम्बन्धे तावन्मात्रदेशक्षालनाच्छुद्धिः ।
[[291]]
अहतस्य नूतन-वाससो यावद्-उपभोगं शुद्धिः।
राग-रञ्जितं नीलादि-वस्त्रं च न धार्यम् ।
पट्ट-वस्त्रे नील-तन्तु-सम्बन्धे ऽपि न दोषः,
धौतस्य शुष्कस्य शुद्धस्य कार्पासवस्त्रस्यैव सर्व-कर्मानुष्ठानार्हत्वम्।
केचन क्षौमादिकं धृत्वा सन्ध्या-वन्दनादिकम् अनुतिष्ठन्ति ।
क्षौमादिकं धृत्वा भगवद्-आराधनाद्य्-अनुष्ठानं गौणमेव ।
स्त्री वा पुमान् वा अन्यवस्त्रन् न धारयेत् ।
तेन कृतं कर्म निष्फलम् ।
शय्यादि
तूलिकोपधान-शय्यादिकानां यवनिकायाश् च सूतकाद्य्-उपघातेपि - प्रोक्षणतश् शुद्धिः।
तेषां पतित-चण्डाल-खर-शवाद्य्-उपघातादि-निमित्ते सति
निमित्त-तारतम्यानुगुणं यथा-मनस्-समाधानं क्षालनं त्यागो वा कार्यः ।