०३ धान्यम्

दाह-देश-स्थित-धान्यानां त्याग एव,
तत्र भू-निक्षिप्तानां न दोषः ।

कोद्रव-याव-नालक-प्रभृति-क्षुद्र-धान्यानि भगवद्-अनिवेद्यानि ।
धान्यानां चण्डालादि-स्पृष्टानाम् अपि प्रोक्षणतश् शुद्धिः ।
तेषां खर-सूकराद्य्-उच्छिष्टोपघाते
अल्पस्य त्यागः,
महताम् उच्छिष्टादि-सम्बन्धि-स्थलीय-किञ्चिदंशस्य त्यागः।

तण्डुलानां द्वि-दल-सूपानां च प्रोक्षणतश् शुद्धिः ।

व्रीहि-यवानां वत्सरम् ।
आढकादीनां षण्-मासम् ।
तण्डुलस्य मासं शुद्धिः ।

तेषां चण्डालादि-स्पर्शो वर्जनीयः,
तेषां पूर्वोक्तोच्छिष्टाद्य्-उपघाते पूर्वोक्तैव युक्तिः ।

तण्डुलाद्य्-आश्रय-पात्राणां मृण्मयानां पुरातनानाम् अपि
कर्म-काल-व्यतिरिक्त-काल-स्पर्शे न दोषः ।
नूतनानान् तु तेषां कदापि न दोषः ।

तैलादीनां क्षीरादीनां च
शूद्र-पात्र-स्पर्शे ऽपि न दोषः ।

तेषु कृमि-कीट-केशादि-सम्बन्धे -
तैलादेः किञ्चित् पाकेन शुद्धिः ,
क्षीरादेर् अग्नि-शिखा-सम्बन्धात् शुद्धिः ।

तेषाम् उच्छिष्ट-सम्बन्धे
तैलादेर् अल्पस्य त्यागः,
महतः किञ्चिद्-अंश-त्यागः,
क्षीरादेः सर्वस्यापि त्यागः ।

एतेषु मूषिकादि-जन्तु-पतने
सद्यो-दर्शने जन्तुम् अपोह्य पूर्वोक्त-रीत्या शुद्धिः ।
तत्र जन्तु-नाशे सर्वस्यापि त्यागः।