०१ पात्रम्

अथ पात्रादिशुद्धिरुच्यते॥

स्वर्ण-रत्नमय-पात्राणाम् अलेपानां केवल-वारिणा शुद्धिः -
स-लेपानां शर्कराम्भसा गोमूत्रेण भस्मना च,
+++(रजत=)+++रौप्यमयानान् तु सुधाम्भसा,
कांस्यस्य होम-भस्मना मृदा आम्लेन वारीत्यादीनां मृदा +++(=चूर्णेन??)+++।
ताम्रस्य आम्लेन,
त्रप्व्-अयस्-सीसानां गोमयाम्भसा ।

एतेषां साधारण-शुद्धिस् त्रि-वारं,
शूद्रोपघातादि-निमित्ते निमित्त-गौरव-लाघवानुगुणं चतुर्-विंशति–द्वादश-वारं,
मृद्-आम्ल-भस्मोदकैः शुद्धिः।
सूतकाशौचाद्य्-उपघाते दासितः शुद्धिः,
कांस्यस्य न दाह इति केचित् ।

लोहान्तर-संसृष्ट-पात्रस्य प्रधान-लोह-शुद्ध्यैव शुद्धिः,
दारुमयानां स्रुक्-स्रुवादि-पात्राणाम् उष्णाम्भसा
तेषां स-लेपत्वे गोमूत्रेण,
शङ्खस्य वारिणा।

शिलामय-पात्रस्य घर्षणात् शुद्धिः,
मृण्मय-पात्रस्य वारिणा।
एतयोः शूद्राद्य्-उपघाते त्याग एव ।

पुंसा कांस्य-पात्रेण
स्त्रिया ताम्र-पात्रेण गण्डूष-पादप्रक्षालने कृते
तयोष् षण्-मासं भूमौ निक्षेपतश् शुद्धिः ।

… कृत्रिम-लोहस्य न केनापि शुद्धिः।

विशिष्ट-पात्राणि

… चालनाद्य्–अ-शक्यानान्तु पात्राणां
सकृत्-क्षालनात् प्रोक्षणात् शुद्धिः ।

मुसलोलूखलादीनां क्षालनतश् शुद्धिः,
शूर्प-पिटक-चालिन्य्-आदीनां प्रोक्षणतश् शुद्धिः।

पात्र-स्पर्शः


पाद-क्षालन-पात्रस्य पानीय-पात्रस्य पाक-पात्रस्य भगवत्-पूजा-पात्रस्य
चान्योन्य-संसर्गन् न कारयेत् ।
पाद-क्षालन-पात्रेण अन्येन वा अशुद्धेन वस्तुना तेषां संसर्गे
षोडश-वारं तेषां शुद्धिः कर्तव्या।
पानीय-पात्रेण तयोस् संसर्गे षड्-वारं शुद्धिः।
पाकपात्रेण भगवत्पात्रस्य संसर्गे तस्य सकृच्छुद्धिः ।

प्रक्रिया

केशवादि-नामभिः व्यूह-नामभिः अन्यैर् वा
भगवन्-नामभिर् गणनं कृत्वा
शुद्धिः कर्तव्या ।+++(5)+++

पात्र-तारतम्यानुगुण्येन पात्राणां शुद्ध्य्-अर्थम्
आम्लादि-द्रव्यं वस्रेण धृत्वा शुद्धदेशे
निक्षिप्य तेन शुद्धिं कुर्यात् ।

आम्लादेर् अ-शुद्ध-पात्र-संस्पर्शन् न कारयेत् ।
तथा कृते तेनाम्लादिना शुद्धिर्न स्यात्।
शुद्धिकाले तु
स्व-पर-निर्वाहकतया न बाधः।

प्रतिशुद्धि कर-क्षालनं कुर्यात्,
अन्यथा शुद्धिर् न स्यात् ।