०० इन्द्रियाणि

तत्रेन्द्रिय-शुद्धिर् उच्यते ।

भगवद्-भागवताचार्य-निन्दन–तामस-शास्त्र-श्रवण-वर्जन-पूर्वकं
भगवद्-भागवताचार्य-माहात्म्य–सच्-छास्त्र-श्रवणं श्रोत्र-शुद्धिः ।

पर-स्त्री–पतिताद्य्-अङ्ग-स्पर्श-वर्जन-पूर्वकं
महा-तीर्थ-स्नानं महद्-दिव्याङ्ग-सम्बन्ध-जन्यानन्द-शालिता त्वक्-शुद्धिः ।

पर-स्त्री-पाषण्डाद्य्-अवेक्षण-वर्जं
भगवद्-भागवताचार्य-दर्शनं दृक्-शुद्धिः ।

जात्य्-आश्रय-निमित्त-दुष्ट-वस्त्व्-अशनवर्जं
भगवत्-तीर्थ-प्रसादास्वादनं जिह्वा-शुद्धिः।

मद्य-मांस-पुरीषादि-गन्धाघ्राण-वर्जं
भगत्-पुष्प-तुलस्य्-आदि-गन्धाघ्राणं घ्राण-शुद्धिः ।

परापवाद-पैशुन्य्-आदि-वाद-+अ-सच्-छास्त्र-पठनादि-वर्जं
भगवन्-नाम-सङ्कीर्तन–सच्-छास्त्र-पठनादिकं वाक् शुद्धिः ।

पर-दाराङ्ग-स्पर्श–वृथा–तृण-च्छेद–बाल-ताडनादि-वर्जं
भगवन्-मन्दिर-संमार्जन-संशोधनालङ्करण-तुलस्य्-आहरणादिकं हस्त-शुद्धिः ।

भगवद्-भागवताचार्याभिमुख-प्रसारणादि-वर्जं
पुण्य-तीर्थ–पुण्य-क्षेत्र-यात्रादिकं पाद-शुद्धिः ।

सत्-सन्निधाव् अधोवायु-विसर्जन-वर्जं
सर्वदा वस्त्रेणाच्छादनं पायु-शुद्धिः ।+++(5)+++

अन्य-योषिद्-विषये अ-काले चोल्बण-वर्जं
स्व-स्त्री-विषये उल्बणम् उपस्थ-शुद्धिः ।+++(5)+++

पर-स्वाप-हारादि-चिन्तन-वर्जं
भगवद्-ध्यान-निरतत्वं मनश्-शुद्धिः ।

[[289]]

शुष्क-तर्क–केवल-काव्यालापादि-विषयी-करण-वर्जं
तत्त्व-हितोपाय-विषयी-करणं बुद्धि-शुद्धिः ।

मलापकर्षण-स्नान–मल-मूत्रादि-शौच–मृत्तिका-स्नान–
नासिका-कर्ण-नेत्र-मल-विसर्जनादिभिः नैर्मल्यं काय-शुद्धिः ।

धार्मिक-राजाधिष्ठानं म्लेच्छ-पाषण्ड-पतित-सिंह-व्याघ्रादि-दुष्ट-मृग-वर्जनं
जीव-नदी–देव-खात+++(-सरः)+++–सारङ्गाश्रयणं तृण-काष्ठ-जल-भागवत-समृद्ध्य्-आदिमत्त्वं देशशुद्धिः ।

सङ्क्रमणोपरागादि-वर्जं पुण्य-तिथि-नक्षत्रादि-योगः काल-शुद्धिः ।

मद-मोहाद्य्-अनुत्पादकं ज्ञान-वृद्धि-करं सात्त्विकत्वम् एव द्रव्य-शुद्धिः ।


वस्त्रेण कण्ठ-वेष्टनं बाहु-बन्धं
पश्चात्-पाणि-युगल-बन्धादिकं
तृण-च्छेद–जल-ताडनाङ्गताडनाङ्ग-चेष्टादिकं च परित्यजेत् ।

[[331]]

शूद्र-चण्डाल-सम्भाषण–तत्-सह-वासादिकं परित्यजेत् ।
शूद्रम् अपि भगवद्-भक्तं यथा-योग्यम् उपचरेत् ।