तर्जन्या न दन्त-धावनं कार्यम् । सोपानत्-पदस् तैलाभ्यक्तः कृतक्षौरः अनुपवीतश् च न दन्तधावनं कुर्यात् । करणे अहरुपवासः । अशक्तौ गायत्र्यष्टशतं जपेत् । [[296]] गण्डूषन् तु - सर्वत्रासीन एव वाम-भागे कुर्यात्, जले पाणौ स्नाने च न गण्डूषान् कुर्यात् ।