०५ आचमनम्

अथ आचमनम्

श्व-खर-शूद्रादीन् पश्यन्, जल्पन्, तिष्ठन्,
प्रतीची-दक्षिणाभिमुखो नाचामेत्,
तथा ऽऽचमने कृते पुनर् आचामेत् ।
जानुदघ्नजले तु तिष्ठन्नाचामेत् । शिखाकच्छगलने यज्ञोपवीतविपर्यासे शोणितस्त्रीगवां स्पर्शे क्षुधष्ठींवन[[ष्ठीवन??]]जम्भणेष्वाचमनं दक्षिणश्रवणस्पर्शरूपं वा कार्यम् । पूजाहोमादिषु आदौ द्विः अन्ते सकृत् । स्नानभोजनादिषु आदौ सकृत् । अन्ते द्विराचमनं कार्यम् ।

आह्निके तु स्नानस्यादावपि द्विराचमनमुक्तम् । यथोचितमत्र ग्राह्यम् ।

फल-मूल-तिलेक्षुपुष्पतुलसीव्यतिरिक्तभक्षणेप्यन्ते आचमनं जलाभावाद्यसमये दक्षिणश्रवणस्पर्शरूपं वा कार्यम् ।

यत्र यत्र पादप्रक्षालनं तत्र तत्राचमनं, यत्र यत्राचमनं प्राप्तं तत्र तत्र पादप्रक्षालनञ्च ।