-अथ पवित्रलक्षणम्
पवित्रं तु - चतुर्भिर्दर्भैद्वाभ्यां वा कृत्वा धार्यं पितृकर्मणि तु त्रिभिः, प्रेतकर्मणि एकेन, दर्भाग्रे वामपाणिना पुरतो धृत्वा - दर्भद्वयमूलं दक्षिणतर्जन्यामङ्गुष्ठेनासकृदनुवर्त्य मध्येन द्विगुणीकृत्य मूलमग्रं च संयोज्य वलयार्थं द्व्यङ्गुलं विहाय तदुपरि वामकरज्ञानमुद्रया संयुक्तं भागमवलम्ब्य तदूर्ध्वभागेन दक्षिणपाणिना सकृत् प्रदक्षिणमावेष्ट्य ज्ञानमुद्रास्थाने प्रणवेन ग्रन्थिं कुर्यात्, अयं पवित्रग्रन्थिः, एवं च वलयं द्व्यङ्गुलं - ग्रन्थिरेकाङ्गुलम् - अग्रं चतुरङ्गुलं भवति, अनामिकामूलमध्यपर्वणोर्मध्ये पवित्रं धार्यम्, आचमनकाले तु वामकरे पवित्रं न धार्यं, तथा ब्रह्मग्रन्थिना आचमनं न कार्यं, तद्भिन्नपवित्रहस्तेन कर्मान्तर्गताचमने कृतेऽपि पवित्रस्य नोच्छिष्टदोषः - तत् कर्मावसाने ग्रन्थिं विस्रस्य प्रक्षिपेत्,
[[287]]
कर्मानन्तर्गतनैमित्तिकाद्याचमनं सपवित्रकरो न कुर्यात्, कृते पुनराचमनं तत्पवित्रत्यागश्च, ब्रह्मयज्ञजपहोमाः ब्रह्मग्रन्थिपवित्रेण कार्याः, इतराणि कर्माणि सपवित्रेण सकुशेन वा कार्याणि, ग्रन्थिहीनकुशाभ्यां कर्मकरणे भोजनकाले ताभ्यां वलयपवित्रं कृत्वा तदनामिकया धृत्वा भोक्तव्यम् । भोजनान्ते तद्विसृज्य भुक्तिमण्डले क्षिपेत्, न भुक्तिपात्रे । अन्येन धृतं पवित्रमन्यो न धारयेत्, एवं भूमौ पतितं दक्षिणकर्णव्यतिरिक्तदेहनिक्षिप्तञ्च त्यजेत्, ग्रन्थिं विस्रस्यैव कूर्चपवित्रे त्याज्ये, तयोः सग्रन्थित्यागे एकदिनमुपवासः, कूर्चोपि षोडशभिः नवभिः सप्तभिः दर्भैः कार्यः । ब्रह्मकूर्चस्तु ? द्वात्रिंशत् दर्भैः विंशत्यङ्गुलदीर्घेषु मूलादारभ्य द्वादशाङ्गुलदण्डाकारं विहाय तदूर्ध्वं ब्रह्मग्रन्थिम्[[न्थिम्??]] उक्तद्व्यङ्गुलं कृत्वा पवित्रवदग्रं चतुरङ्गुलं कुर्यात्, स्वर्णपवित्रमपि षोडशाङ्गुलदीर्घाभ्यां स्वर्णशलाकाभ्यां दर्भपवित्रवत्कर्तव्यम् । अग्रभागन्तु ग्रन्थिस्थाने आवेष्ट्य द्वेधा वलयं सन्दध्याद्वा स्वर्णपवित्रमप्यनामिकायामेव धार्यं, तर्जन्या रौप्यधारणं कनिष्ठिकया खड्गवलयधारणञ्चाचाराभावादुपेक्षितम् । सुवर्णादिपवित्रं जीवपितृकेन [[जीवत्पितृकेन??]] न धार्यमिति वदन्ति । दर्भपवित्रात् स्वर्णपवित्रस्योत्कृष्टत्वं तत्र तत्रोच्यते । तावता धृतस्वर्णपवित्रस्य दर्भपवित्रधारणं नावश्यकमिति नार्थः । किन्तु ? उभयोर्द्धारणे विशेषः । क्वचन [[??]] समये दर्भालाभे स्वर्णपवित्रमेवालमित्येव वा तदर्थः, सर्वत्र कुशहस्तस्यैव, प्राशस्त्यस्य प्रतिपादनात् । कुशकनकादिरूपं किमपि पवित्रं धृत्वा स्वस्य अन्यस्य वा पादप्रक्षालनं न कार्यम् । ब्राह्मणगुदस्य स्त्रीकुचमण्डलस्य शङ्खस्य पवित्रकूर्चयोस्ताम्बूलवल्लीदलस्य च भूमिस्पर्शे महान् दोषः - तथा सपवित्रेण करेण भगवत्तीर्थप्राशनादिकं गन्धगोमयादिग्रहणं अशुद्धवस्तुस्पर्शञ्च त्यजेत् ।
[[288]]
तत्सम्बन्धे सति तत्पवित्रं त्याज्यम् । दर्भाः अङ्गुष्ठमानेन षोडशाङ्गुलदीर्घाः विंशत्यङ्गुलिदीर्घा वा ग्राह्याः । अन्तर्गर्भिताः छिन्नाग्राः दग्धाः अशुद्धस्थलीयाश्च दर्भास्त्याज्याः, दर्भालाभे काशा ग्राह्याः । काशानान्तु तत्तत्कालं शुद्धिरित्यलं विस्तरात्, शुद्धिप्रसङ्गात् सर्वेषां शुद्धिरुच्यते ।