०२ कटिसूत्रम्

कटिसूत्रम्

कटिसूत्रं तु - यतिब्रह्मचारिणोः कौपीनधारणार्थम् एकमेव, गृहस्थवनिनोः कौपीनधारणार्थमेकं कर्माङ्गमेकम् एतत् बहिर्वस्त्रोपरिधार्यम् । अस्मिन् कच्छो न धार्यः । अनेन वस्त्रबन्धनम् अस्य वस्त्रेणाच्छादनं च न कुर्यात् । विवर्तितस्य कटिसूत्रस्य रौद्रत्वाद्वैष्णवैर्न धार्यम् । विवर्तितैः युग्मायुग्मरूपैः पञ्चभिः सूत्रैः व्यतिस्यूतं वैष्णवं कटिसूत्रम् । आशौचाद्युपघाते सति कर्माङ्गसूत्रं देहादुन्मुच्य सम्यक् प्रक्षाल्य पुनर्धार्यम् । तन्तुछेदादिविपर्यासे सति तत्त्यक्त्वा अन्यद्धार्यम् । आन्तरकटिसूत्रन्तु अन्यसूत्रधारणानन्तरमेव त्याज्यम् । क्षणमात्रमपि तत्सूत्राभावे नग्नत्वापत्तेः।