०१ शिखा, उपवीतम्

अथ शिखाबन्धः।

वामपाणितले प्रदक्षिणमावृत्य अग्रमन्तरितं कृत्वा मध्यभागेन मध्ये बन्धनं कुर्यात् ।

[[285]]

उपवीतानां लक्षणमुच्यते ।

अथोपवीतक्रमः॥

चतुरङ्गुलमानेन षण्णवतिसङ्ख्यया त्रिगुणीकृतं शुद्धदिने त्रिभिः पुरुषैर्घर्षीकृत्य ततो द्वाभ्यां द्विगुणीकृत्य विवर्तितं यत् कार्पाससूत्रं तत्त्रिवलयात्मना आवेष्ट्याग्रद्वयेन एकत्र द्वितीयतृतीयवलयसंयोजनरूपावान्तरवेष्टनपूर्वकं वलयत्रयं बध्वा ब्रह्मग्रन्थि[[न्थि??]]परिष्कृतं चेद्यज्ञोपवीतमुच्यते, तद्यथाविधि प्रतिष्ठाप्य धार्यं, यतिब्रह्मचारिणोरेकम् । गृहस्थस्य द्वयं त्रयं वा । श्रौतस्मार्तरूपनित्यकर्मानुष्ठानयोग्यतासिध्यर्थं यज्ञोपवीतधारणं करिष्य इति वा यज्ञोपवीतधारणं करिष्य इति केवलं वा सङ्कल्प्य, यज्ञोपवीतधारणमन्त्रस्य - ब्रह्मा ऋषिः - त्रिष्टुप्छन्दः - त्रयी विद्या देवता यज्ञोपवीतधारणे विनियोगः - इति ऋषिछन्दोदेवताविन्यासपूर्वकं कुक्कुटासनसंस्थितः अवासीनेन वामपाणिना सूत्राधोभागम् ऊर्ध्वमुखेन दक्षिणपाणिना सूत्रोर्ध्वभागं च धृत्वा, एवं “यज्ञोपवीतं परमम्” इति मन्त्रमुच्चार्य धारयेत्, प्रत्युपवीतम् आचमनमन्त्रोच्चारणे त्वावश्यके । प्राणायामादिकं नास्ति । ग्रन्थिर्यथोन्मुखस्स्यात्तथा धार्यम् । सर्वेषां नाभिसमं धारणम् - एवं नूतनानि धृत्वा आचम्य पुरातनानि कण्ठादादाय त्यजेत् । एवं क्षौराशौचादिनिमित्ते नूतनानि धार्याणि, यज्ञोपवीतेषु यस्य कस्य वा तन्तोः छेदश्लथनादौ जातेऽपि सर्वाणि त्यक्त्वा नूतनानि धार्याणि, भुजकूर्परमणिबन्धेषूपवीते गते त्रीन् षट् द्वादश च प्राणायामान् कुर्यात् । उपवीतनाशे तल्लाभपर्यन्तं परिमण्डलितं वस्त्रं दर्भोपवीतं वा धारयेत्, एकरात्रमप्युपवीतं विना शूद्रो भवति । अस्मिन्नुपवीतविषये वक्तव्यविशेषः कण्ठभूषणादावन्यत्र द्रष्टव्यः ।

[[286]]