अथ नित्यकर्मविभागः॥
अभिगमनोपादानेज्यास्वाध्याययोगभेदेन पूर्वाचार्यैः पञ्चधा नित्यकर्माणि विभक्तानि । तत्रारुणोदये मलमूत्रोत्सर्जनप्रभृतिभागवताभिवादनपर्यन्तं अभिगमनम्। एतस्य प्रातःकालो मुख्यः । ततः परं गौणः । ततः परं भगवदाराधनोपयुक्तद्रव्यार्जनमुपादानम् । एतस्य सङ्गवकालो मुख्यः । ततो गौणः । ततः परं माध्याह्निकस्नानप्रभृति-भोजनोत्तरमाध्याह्निकताम्बूलचर्वणान्तम् इज्याख्यं कर्म । एतस्य मध्याह्नकालो मुख्यः । ततः परङ्गौणः । तत इतिहासपुराणादिपठनरात्रिभोजनावसानपर्यन्तं स्वाध्यायाख्यं कर्म । तस्य अपराह्न-सायाह्न-रात्रि-प्रथमयामपर्यन्तं मुख्यकालः । ततः परङ्गौणः । ततः परं क्रियमाणं भगवद्दिव्यमङ्गलविग्रहध्यान-निर्वेदन-सात्विकधृत्यवलम्बनपर्यन्तं कर्म योग इत्युच्यते । एवं नित्यकर्मविभागः । धर्मशास्त्रेषु कालकर्मणोः प्रकारान्तरेणापि विभागे सति अस्मदाचार्याभिमतविभागस्त्वयमेव, एवं कालकर्मविभाग उक्तः ।