अथ कालविभागः
प्रातस्सङ्गव-मध्याह्नापराह्न-सायाह्नभेदेन अहर्मानघटिकास्तुल्यतया पञ्चधा विभजेत्, अह्नस्त्रिंशत् घटिकात्वे सूर्योदयप्रभृति षट् घटिकाः प्रातः कालः, ततो द्वादशघटिकापर्यन्तं सङ्गवकालः, ततोऽष्टादशघटिकापर्यन्तं मध्याह्नकालः, ततः चतुर्विंशतिघटिकापर्यन्तं अपराह्नः, ततः अस्तमयपर्यन्तं सायाह्नः, दिवार्धीभूतपञ्चदश-घटिकावसानक्षणः आवर्तनमुच्यते, अहर्मानस्य पञ्चदशधाविभागे सति अष्टमभागे अन्त्यघटिका कुतपकालः । एवं च आवर्तनाव्यवहितोत्तरघटिका कुतपकाल इत्यर्थः, घटिकाद्वयात्मकः कालो मुहूर्तः, अह्नो वा रात्रेर्वा चतुर्थाविभागे सत्येकैको भागः याम इत्युच्यते, रात्रेराद्यन्तयामार्धकालः दिवाशेष इत्युच्यते, अरुणोदयानन्तरम् आसूर्योदयं अस्तमयानन्तरं आतमःप्रादुर्भावं च सन्ध्याकाल इत्युच्यते, रात्रावष्टमभागभूतपञ्चदशषोडशघटिकात्मक एको मुहूर्तो महानिशेत्युच्यते, सूर्योदयात्पूर्वं मुहूर्तद्वयात्मकः कालः अरुणोदय उच्यते, मुहूर्तत्रयात्मकस्तु ब्राह्ममुहूर्त इत्युच्यते, एवं रौहिणादिकालविभागोऽपि तत्र तत्र ज्ञेयः । इति कालविभागः ।
[[284]]