०१ परिभाषा

पञ्चकालपरायणैः वैष्णवोत्तमैः ब्राह्मान्मुहूर्तादारभ्य कर्तव्यकर्मविशेषाणां क्रम आह्निके उक्तः, तत्र तत्र वक्तव्यविशेषो बहुस्मृतिबन्धनानुसारेणात्रोच्यते । अत्र तावत् प्रथमं परिभाषोच्यते । यत्र कर्मणि हस्तो नोक्तस्तत्र दक्षिणो ग्राह्यः, यत्र दिगनुक्ता तत्र प्राच्युदीची वा । आसनानुक्तावासीनः कुर्यात् जपादौ सङ्ख्यानुक्तौ सहस्रपरमा दशावरा ग्राह्या - होमद्रव्यानुक्तौ घृतं, तच्च गव्यं तदलाभे माहिषं - तस्याप्यलाभे आज्यं तदलाभे तैलं ग्राह्यम् - उक्तकालात्पूर्वं करणे स्वकाले पुनःकरणं मुख्यकालातिक्रमे प्रायश्चित्तम् । मुख्यकालातिक्रमे गौणकालोपि तादृशः, मुख्यद्रव्यापेक्षया मुख्यकालं न लङ्घयेत् । गौणेनापि द्रव्येण मुख्यकाल एव कुर्यात् । कालानुक्तौ पूर्वाहः । दिनानुक्तौ शुद्धदिनम् । पक्षानुक्तौ शुक्लपक्षः । मासानुक्तौ पितृमास[[सः??]] चतुष्टयव्यतिरिक्तः । ऋत्वनुक्तौ वसन्तादिः ।

[[283]]

अयनानुक्तावुत्तरायणम् । प्रधानाकरणे साङ्गं पुनः कर्तव्यम् । अङ्गाकरणे पुनः नाङ्ग्यङ्गान्यपि, कर्ममध्ये विस्मृताङ्गज्ञाने कृष्णानुस्मरणम् । कर्मण्यारब्धे मध्ये मोहेनान्यथाकरणे स्खलनं यत्र तदारभ्य पुनः कुर्यात्, मन्त्राज्ञाने तिस्रो व्याहृतयः प्रणवो वा, देवताज्ञाने प्रजापतिः, सर्वत्र कर्मणि सशिखाबन्धोपवीतकटिसूत्रः सोर्ध्वपुण्ड्रः सपवित्रपाणिः, सर्वत्र गुरुपरम्परानुसन्धानपूर्वकमेव कर्म सङ्कल्पयेत्; आदौ कृतं च मन्त्रं बलमन्त्रञ्चानुसन्दध्यात्, सर्वकर्मणामादावन्ते च स्वशेषभूतेनेति पद्येन वा भगवानेवेति गद्येन वा सात्विकत्यागं कुर्यात् ।

परिभाषा समाप्ता