[[TODO: परिष्कार्यम्]]
विश्वास-टिप्पनी
पूर्वपक्षो ऽत्र सुलभः - TW ।
॥ श्रीः ॥
॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीमते निगमान्त-महादेशिकाय नमः ॥ ॥ श्रीरङ्गनायिका-समेत श्रीरङ्गनाथ-परब्रह्मणे नमः ॥
॥ सदनुष्ठान-दर्पण-विशोधनम् ॥
लेखकः
श्रीमद्-वेदमार्ग-प्रतिष्ठापनाचार्य उभय-वेदान्ताचार्यः
भगवद्-रामानुज-सिद्धान्त-निर्धारण-सार्वभौमः
न्याय-वेदान्त-केसरि- तर्करत्न- देशिक-दर्शन-रत्नाकर-
मधुरान्तक-तिरुमलय्-ईश्चम्बाडि- वीरराघवाचार्य-स्वामी
श्रीरङ्गम्
पिङ्गल-वर्षम् मार्गशीर्ष-मासः
श्री-वाणी-विलास-मुद्रणालयः, श्रीरङ्गम् ।
॥ श्रीमते रामानुजाय नमः ॥
॥ सदनुष्ठान-दर्पण-विशोधनम् ॥
पद्माकान्त-पद-प्रपन्न-परिषत्-कूटस्थ-सूरीश्वर-
श्रीपाद-प्रणतात्म-भाव-भगवद्-रामानुजैकाश्रयम् ।
श्रीमद्-वेदवतंस-देशिक-मणिं तत्-पाद-चूडान्वितान्
धन्यान् श्रीनिधि-योगि-पुङ्गव-मुखान् सेवेऽहम् अन्यान् गुरून् ॥मधुरान्तक-वासिष्ठ-वीरराघव-सूरिणा ।
शोध्यते शुद्ध-सत्त्वार्य-सद्-अनुष्ठान-दर्पणम् ॥
अवतरणिका
श्रीमद्-वालव्याघ्रपुराभिजन-श्रीशुद्धसत्व-वरदाचार्य-स्वामिभिर् अनुगृहीततया प्रकाशितं
सदनुष्ठान-दर्पणं नाम निबन्धनं
प्रपन्न-परमैकान्तिनां नित्य-नैमित्तिक-कर्मानुष्ठानावश्यकतां प्रकारञ्च
बहु-प्रमाणोदाहरण-पूर्वकं स्वाभिमतार्थ-व्यवस्थापकं
प्रमाण-शरणानां स-बहुमानावलोकन-पात्रं भवति ॥
विशिष्य चैते शठकोप-रामानुज-वेदान्तदेशिकानां त्रयाणां
ब्रह्माण्डपुराण-श्रीपाद्मपुराण-विष्णुरहस्यादिषु,
पाषण्ड-च्छेदायावतीर्णतां प्रसिद्धिं स-प्रमाणं प्रदर्शयन्तः
स्वस्य तेषु परम-भक्तिम् अप्य् आविष्कुर्वन्तः
साम्प्रदायिकानां समेषाम् अप्य् एतेषु त्रिषु विशेष-भक्तेर् अविशेषं कर्तव्यतां
कान्तासम्मितोपदेशेन व्यञ्जयन्तीति
वक्तृ-वैलक्षण्य-परिकर्मितम् इदं दर्पणम् ।+++(4)+++
अथापि निश्श्वासोपहत-दर्पणस्येव
मलिनिमा अत्र तत्र तत्र दृश्यते ।
अतस् तत्-परिशोधनम् अवश्य-कर्तव्यं भवति ।
दर्पण-मालिन्ये हि
प्रतिफलनान्य् अपि मलिनानीव भासेरन् ॥
मालिन्यं च वैश्वदेव-कैवल्यादिषु विषयेषु
दर्पणस्यास्य स्फुटम् उपलभामहे ।
तद् इदम् अनुपदम् एव व्यक्तीभविष्यति ।
विशोधयिष्यते च ।
पुण्ड्र-प्रमाण-परिशोधनम्
वेङ्कटनाथार्यावतारता
प्रप्रथमम् ऊर्ध्वपुण्ड्र-धारण-विषयकं प्रतिफलनं षष्ठं विशोध्यते ।
सपादोर्ध्वपुण्ड्र-धारण-विषये श्रीमन्-निगमान्त-गुरोर् उपदेशानुष्ठाने प्रमाणयन्तः प्रबन्धार
एते तयोर् आदरणीयत्वे प्रमाणानीमानि प्रदर्शयन्तो बहूपकुर्वन्ति ।
यथा —
ब्रह्माण्डपुराणे अहीन्द्रपुर-माहात्म्ये—तृतीयाध्याये
“अश्वत्थमूले मुनिस् तपस्यतीति”
अर्थानुवादोऽयम् ।
“कलौ युगे महान् एको
ऋषि-घण्टांशको हरेः ।
तपः कुर्वन् गिरौ तस्मिन्
सिद्धिं प्राप्तो भविष्यति ।
तरोर् अश्वत्थ-संज्ञस्य
निकटे तत्र पर्वते”इति बह्म-नारद-संवादे पुराण-पाठः ।
श्री-पाद्म-पुराणय् उत्तर-खण्डय् उमा-महेश्वर-संवादय्
एकचत्वारिंशेऽध्याये —“तस्मिन् कलौ युगे देवि
रक्षणार्थं जनस्य वै ।
लक्ष्मीपतिर् जगन्नाथः
कृपया सर्वजन्तुषु ॥
स्वांशेनैव त्रिधा भूत्वा
कलिदोषं निवारयेत् ॥
एको रामानुजो ज्ञेयश्
शेषांशस् सर्वशास्त्रवित् ।
शठकोप इति ख्यातो
द्वितीयः काल-पाप-हृत् ॥
वेङ्कटेशांशको ह्य् एकस्
तृतीयः कमलानने ।
एवं बहुविधाचार्याः
पाषण्ड-च्छेदिनस् स्मृताः” ॥इति ।
विष्णु-रहस्ये भक्तस्वरूप-कथन-प्रकरणे—“घण्टात्मानं समुज्जातं
निगमान्तगुरुं बुधाः”इत्यादि-प्रमाण-रीत्या
घण्टावतार-भूत-श्रीमन्-निगमान्त-गुर्व्-आदि– दिव्य-मङ्गल-विग्रहादौ स-श्रीचूर्ण-सपादोर्ध्व-पुण्ड्रम्
अद्यापि समुज्ज्वलति
इति ।
अत्रादिपदेन श्रीवेङ्कटाचल-माहात्म्यादिकं विवक्षितम्.
“कृष्णाख्य-विप्र-वेदान्तदेशिकत्व-प्रदाय+++(=??)+++ नमः” इत्य् अष्टोत्तरशतनामसु प्रसिद्धम् इदम् ॥
तद् एवं
सच्-चरित्र-रक्षा-ग्रन्थमुखेन स्वानुष्ठानेन च
उर्ध्वपुण्ड्रं सपादं स-श्रीचूर्णञ्च
श्रीवैष्णवैर् धार्यम्
इति निर्धारयतां देशिकानां
तद्-अनुयायिनां च शुद्धसत्व-स्वामिनां
पुण्ड्र-धारणविधि-विषये क्रियते शोध्यांश-शोधनेन ॥
केशव-पुण्ड्र-प्रमाण-परिशोधनम्
अत्र केशवपुण्ड्रविषये स्वामिनः—
‘नासादौ द्व्यङ्गुलं पादम्’ इति प्रमाणम् उपन्यस्तम् ।
अत्र —‘आदि’-पदं मूलवाचकम् —
‘नासिकामूलम् आरभ्य’ इत्य् उक्तेः ।
नासिका-मूलञ्च—पाद्मसंहितायां‘नासिकायास् त्व् अधो भागो
नासामूलं प्रचक्षते’इति निर्णीतम् (पु-१३२) ।
योगयाज्ञवल्क्यस्मृतौ पाद्मसंहितायां च—
भ्रूमध्याद् अधस्ताच् चक्षुर्मध्यं,
तस्माद् अधस्तान् नासिकामूलम्इति प्रदर्शितम् ।
कृष्ण-तारकाद्वय-मध्यव्यापि तिर्यक् सूत्रं
नासायां यत्र पतति
तद् एव स्थानं चक्षुर्-मध्यं नाम ।
तस्माद् अधस्तान् नासिकामूलम् ;
नोपरिष्टात्इति शिल्पिभिर् निर्णीतत्वेन
ललाटे शिष्टाः प्रपन्नाः
नासामूलादि-द्व्यङ्गुल-परिमितं
ईषद्-विकसित-पद्माकार-पादम्
ऊर्ध्वरेखा-पादं विलिख्य
नासा-नालस्य तनुत्वेन द्व्यङ्गुल-परिमितान्तरालं विहाय
पद्माकार-पादोर्ध्व-प्रान्तोभय-पार्श्वयोः
एकाङ्गुल-परिमितोर्ध्वाग्र-हरिपाद-समानाकार-शाखा-द्वयं परिकल्प्य तन्-मध्ये श्रीचूर्ण-रेखां परिकल्प्य ऊर्ध्वपुण्ड्रं धारयन्ति ।
सपादमूर्ध्वपुण्ड्रं तु द्विषट्-स्थानेषु विन्यसेत्
इति बृहन्-नारदीयादिवचनैः कुक्ष्यादि-त्रिकान्तेषु एकादशस्थानेषु तथैव प्राप्तम्" इत्यादि प्रतिपादयन्ति । (पृ-१४१-१४२) ॥
अत्र विमृश्यते — भ्रूमध्याद् अधस्ताच् चक्षुर्मध्यम् । चक्षुर्मध्याद् अधस्तान् नासिका । नासिकाया अधस्तान् नासामूलम् नोपरिष्ठात् । नासादि-शब्दप्रतिपाद्येऽस्मिन् द्व्यङ्गुलं पादम् इति स्थितम् । सति चैवं भ्रू-मध्यापेक्षया पर्वत्रय-व्यवधान-तुङ्गां शेषत्व-काष्ठां वहति नासिकामूले परिसमाप्तस्य द्व्यङ्गुल-प्रमाणस्य “नोपरिष्ठाद्” इति निषिद्धे स्वाश्रयानाश्रये नासिकायां सम्बन्धः कथम् ? कथन्तरां तद्-उपरिष्ठात् स्थितं चक्षुर्मध्यम् अधिष्ठातुं शक्तिः ? कथन्तमाम् तद्-उपरि-भ्रूमध्याद् अधस्तात् सम्बद्धुं योग्यतापि । पद्माकार-पादोर्ध्व-प्रान्तोभय-पार्श्वस्य हरि-पादद्वय-पीठरूपं नासिका-मूलस्थं द्व्यङ्गुल-रेखा-द्वयम् इति कथम् उपपद्यताम् ? । भ्रू-मध्य-पर्यन्तं नासिका-मूलं यदि स्यात् तदा सम्भाव्येतापि पीठत्व-कल्पना । ‘नोपरिष्ठाद्’ इति दण्डाघातेन निवारितं नासिका-मूलं स्वाश्रय-द्व्यङ्गुल-पादं स्वानाश्रय-हरि-पादयोः पीठीकरणायालं वेति स्वयम् एव विवेचयन्तु विपश्चितः ॥
यत्तु “‘कुण्डलीकृत-सर्पस्थ-हरिपादाकृतिं न्यसेद्’ इति कुण्डलीकृत-सर्पस्थेति हरिपाद-विशेषणम् । कुण्डलीकृत-सर्पो हि सर्प-शिरसि-स्थित-भगवत्पादस्यासन-स्थानीयः । अनेन हरिपाद-दृष्टान्तितस्य पुण्ड्रस्य पादे दृष्टान्तो भवतीति दर्पणोक्तम् ॥
अत्रेदं विमृश्यते । “सर्पः पृदाकुर् भुजगः … कुण्डली गूढपाद्” इत्यादि-कोशात् सर्पस्यैव कुण्डलि-स्वभावत्वेन कुण्डली-कृत-सर्प इति च्वि-प्रत्ययान्त-विशेषणं किमर्थम् । ‘कुण्डलिस्थ’ इत्य् एतावता विवक्षित-सिद्धौ ‘कुण्डलीकृत-सर्प’ इति विशेषणं व्यर्थम् — स्मृतिसिद्धे न चोद्यम् इति चेद् विवक्षित-सप्रयोजनार्थान्तर-सम्भवे निष्प्रयोजनार्थ-वर्णनस्यासङ्गतेः । अकुण्डलीकृतेऽपि सर्पे शिरसि स-पीठ-हरिपाद-दर्शनेन कुण्डलीकृतेति विशेषणस्य वैयर्थ्यात् । आदिशेषस्य हरिपादोऽत्र दृष्टान्त इति चेत् सव्यं पादं प्रसार्य दक्षिणं कुञ्चयित्वा च तत्रावस्थानात् तथात्वस्याविवक्षितत्वात् ॥
कोऽर्थस् तर्हि विवक्षित इहेति चेत् कुण्डलीकृतं सर्पस्थं हरिपादद्वयं-यत् तदाकृतिर् इत्य् अर्थः । सर्प-शिरसि फणायां यौ हरिपादौ रेखा-रूपौ दृश्येते तद् हरिपादद्वयं अधः पादद्वयारम्भ-भूत-कुण्डल-रेखा-विशिष्टम् एव । कुण्डल-रेखावत्कृतं कुण्डलीकृतं सर्पस्थ-हरिपादद्वयं यत् तदाकृतिर् इति भावः । अत्र
இருளிரியச்சுடர்மணிகளிமைக்கும் நெற்றி இனத்துத்தியணி பணமாயிரங்களார்ந்த அரவரசப் பெரும்சோதி அநந்தன் — इत्यत्र
श्रीकृष्णपादैः हरि-पाद-द्वयाकृतित्वं शेष-फणास्थ-रेखा-द्वयस्योक्तम् ।
(இனத்துத்தியணிபணமாயிரங்களார்ந்த) இனமானதுத்துதி யாவது-இரண்டாய்ச்சேர்ந்த திருவடிநிலை என்று சொல்லுகிறவற்றை யுடைத்தான பணங்களாயிரத்தையும் பூர்ணமாகவுடையவனாய் அநந்த னென்னும்”`।
“அணிமணியின் துத்திசேர்நாகத்தின் மேல்
துயில்வான்-பணங்களிலே அழகியமணிகளை
யுடைத்தாய் திருவடிநிலைகள் போலேயிருக்கிற
திருமண்சேர்ந்த திருவநந்தாழ்வான் மேலே”
(இ-2-96-அரும்பதம்) इति ।
देशिकैर् अपि पादुकासहस्रे सन्निवेश-पद्धतौ —
तव रङ्ग-नरेन्द्र-पाद-रक्षे प्रकृतिस् सन्नपि भक्ति-पारतन्त्र्यात् । भवतीं वहतीव पन्नगेन्द्रः प्रथित-स्वस्तिक-लक्षणैश् शिरोभिः ॥
परस्य पुंसः पद-सन्निवेशान् प्रयुञ्जते भावित-पञ्चरात्राः ।
अघ-प्रतीपान् अपदिश्य पुण्ड्रान् अङ्गेषु रङ्गेश्वर-पादुके त्वाम् ॥ (७८३-७८४)
इति ।।
वधूनां मौलाभरणानि मङ्गल-हेमसूत्राणि च शेष-फण-पुण्ड्राकार-मुद्रितान्येव धारयन्ति सन्त इति चोपरि समनुगृहीतम् । तथैव व्याख्यातञ्च गुरोः (नम्पिळ्ळै) प्रधानान्तरङ्ग-शिष्याणां भारद्वाज-माधव-गुरूणां वंश्यैश् श्रीनिवास-सूरिभिः । अतः कुण्डलीकृतं सर्पस्थं यद् हरिपादद्वयं तदाकृतीति स्वरसार्थः । तद्-अवतार-भूतैर् भगवद्-रामानुज-मुनिभिस् तथात्वेनाभिमतैर् वरवर-मुनिभिश् च ईदृशं शेष-शिरस्स्थ-रेखा-द्वयाकार-पुण्ड्रम् एव हि धृतं भवेत् । अत एतादृश-पुण्ड्र-धारणम् एवाचार्य-परम्परा-प्राप्तम् ॥
यत्तु “नासादौ द्व्यङ्गुलं पादम्” इति स्मृति-सिद्धम् । अत्र सप्तमी-प्रतिपन्नम् आधेयत्वं पर्याप्ति-रूपम् । स्ववाचक-सप्तमी-प्रकृत्यर्थ-भूतं यन् नासामूलं, तन्-निरूपित-पर्याप्ति-सम्बन्धावच्छिन्न-वृत्तित्व-मात्र-रूपम् । अतो नासिका-मूलं विहायापि द्व्यङ्गुल-परिमाणं रेखा-द्वयं स्वाश्रय-नासिका-मूलोपरि-स्थितां नासिकां, तद्-उपरिस्थितं चक्षुर्मध्यं तद्-उपरितनं भ्रुवोर् अधस्ताद् भागञ्चातिक्रम्य तद्-उपरिस्थितयोर् हरिपादयोः कथं पीठीभवतु ? ॥
किञ्च ललाटे चतुरङ्गुलं पादमूर्ध्वाग्रम् । एकाङ्गुल-प्रमाणं पार्श्वम् । मध्ये त्र्यङ्गुलं द्व्यङ्गुलं वा छिद्रे विस्तीर्णम् । इत्यादिव्यवस्थाऽपि भज्येत । नासादाव् इत्य् अत्रैव सप्तम्याः ‘ललाटे’ ‘मध्ये’ इत्य् एवं श्रुतत्वात् । चतुरङ्गुल-रेखायास् स्वाश्रय-ललाटानतिक्रमणवतः, मध्ये छिद्रत्वस्य च स्वानधिकरणानधिकरणकत्ववत्, नासिका-मूलस्थ द्व्यङ्गुल-रेखाया अपि स्वाश्रयैकान्त्यस्य वाच्यत्वात् ॥
अपि च भ्रुवोर् अधोधो-भागाद् अप्य् अधस्-स्थितं नासिका-मूलं द्व्यङ्गुल-परिमाण-रेखाश्रयश् चेत् ‘नासाग्रे’ इति वचनान्तरानुरोधेनाग्रभागस्यापि द्व्यङ्गुल-रेखावत्त्वावश्यकत्वान् मूलोपरि नासिकाया अपि तुल्य-शीलत्वात् षडङ्गुलादिकं नासायास् स्वीकार्यं स्यात् ॥
नासिकात्वस्य स्व-नालवत्-पार्श्वद्वय-पर्याप्तत्ववन् मूलत्वस्यापि स्वाश्रय-पार्श्व-द्वयादि-पर्याप्ततया द्व्यङ्गुल-रेखाया अपि ऊर्ध्वाधरी-भूताया नासा-नाल-मात्र-वृत्तितायास् स्वेच्छया कल्पनाऽसम्भवात् नासामूले पार्श्व-द्वयान्तर्भावेन मृल्-लेपस् स्यात् । नासिका-मूलस्थत्वं द्व्यङ्गुल-रेखा-द्वयस्यानुपपन्नम् इति प्राग् अदर्शि । नासिकाया अष्टाङ्गुलत्वादि-प्रसङ्गात् । नासामूलस्य — भ्रुवोर् अधो यच् चक्षुर्मध्यं तद्-अधौ या नासिका तद्-अधस्थत्वेन दर्पण-कण्ठोक्तस्य स्वनिष्ठ-रेखा-द्वयस्य स्व-व्यवहित-पूर्व-वृत्ति-ललाटस्थ-रेखा-द्वयाधारत्वम् असम्भावितम् इति च प्रतिपादितम् । अतो नासिका-मूले पुण्ड्र-पीठम् इति वादिभिर् निराधारं हरिपादद्वयम् एव धार्यम् इत्यापतितम् ॥
तथा हि भ्रुवोर् अधस्तात् संबध्य हि हरि-पाद-धारणं कार्यम् नासा-मूलस्य तत्-सम्बन्ध-गन्धस्याप्य् अभावात् तद्-गत-रेखाया हरिपादद्वयाकार-रेखा-पीठत्वं नैव सम्भवति । तदेवं पीठ-च्युतं हरि-पाद-द्वयम् ॥
ननु स्वाश्रयाधोधः-परम्परा-घटिताधारता-सम्बन्धेन हरि-पाद-द्वयाकार-रेखयोर् नासा-मूल-रेखानिष्ठत्वेन पीठत्वम् आधारतापरपर्यायम् उपपद्यताम् इति चेन् न । परम्पराया वृत्त्यनियामकत्वेन तद्-अनुपपत्तेः । अन्यथा ‘भूतलं घटवद्’ इतिवद् ‘घटो भूतलवान्’ इति प्रयोगापत्तेः । एतेन तद्-आधारत्वं नाम — आधेयता-सम्बन्धेन तत्-सम्बन्धित्वम् एव — न तु तद्-आधरत्वं मुख्यम् । अतः प्रकृते हरि-पाद-द्वयेन परम्परा-सम्बन्ध एव पीठत्वम् इति चोद्यम् अपि परिहृतम् ॥
नासा-मूलोपरि भ्रुवोर् अधस्ताद् विद्यमानं भागत्रयं प्रत्येकं द्व्यङ्गुलं स-पुण्ड्रं चेत् चतुरङ्गुलोर्ध्व-पुण्ड्रस्य भ्रुवोर् अधस्ताद् एव परि-समाप्ततया ललाटस्य पुण्ड्र-शून्यत्वापत्तिः ।‘अर्धं दानव-वैरिणा गिरि-जयाप्य् अर्धं शिवस्याऽहृतम्’ इति न्यायात् । नासा-मूले द्व्यङ्गुलं तद्-उपरि भ्रुवोर् अधस्ताद् द्व्यङ्गुलम् इति सिद्धेः, चतुरङ्गुल-पुण्ड्र-विधानं ललाटे न स्यात् । पूर्वोपदर्शित-भाग-त्रयम् एकैकाङ्गुलञ्चेत् त्र्यङ्गुलस्य भ्रुवोर् अधस् समाप्ततया ललाटे एकाङ्गुल-मात्रकं स्याद् ऊर्ध्व-पुण्ड्रम् ॥
अपि च स्थानानि द्वादशेत्य् अपि निवापपदं भवेत् । यत्तु व्यासस्मृत्य्-उत्तरखण्डे —
अम्भोज-मुकुलाकारं पादं द्व्यङ्गुल-सम्मितम् । नासिकादि-भ्रुवोर्-मध्यपर्यन्तं परिकल्पयेद् ।।
(पृ. १४२) इति ।
तद्-अपि दर्पण-पक्षे दुरुपपादम् मुकुलवत् सूक्ष्माग्रस्य पादद्वय-मध्यगत-त्र्यङ्गुल-शून्य-भागान्तराल-विश्रान्तस्य स्व-व्यवहित-दक्षिणोत्तर-पादद्वय-पीठत्वाऽसम्भवात् । शाखा-चन्द्र-न्यायेनोपलक्षणं स्याद् इति चेन् न । पद्म-मुकुलाकारस्य पाद-द्वय-समाधि-प्रदेश-वर्तित्वाभावाद् उपलक्षणविधयापि पीठत्वं नोपपद्यते ॥
अथ यदि ‘मतं मुकुलाकारम्’ इति विकसिताकार-परं स च विकासः पाद-द्वयव्यापि-पीठतां परिकल्पयितुम् अलम् इति, तद्-अपि न मुकुल-शब्दस्य विकसितार्थकताया असम्भवात् । किं कुर्मः पाद्मसंहितायां दशमेऽध्याये —
‘मध्ये कर्णिकया युक्तं किञ्चित् फुल्लाम्बुजाकृति’
इत्य् उक्तम् तद्-अनुरोधेन मुकुलाकारत्वं फुल्लाम्बुजाकारत्वञ्च स्वीकर्तव्यं नासिका-मूल-पुण्ड्रस्येति चेत् । मिथो विरोधात् । मुकुलत्वं ह्य्-अग्रदलानां मिथस्-संयोगस् सुदृढः । फुल्लत्वञ्च तेषां विभागः । एकावच्छेदेनैकदा एको नहि तौ सम्भवतः । एवम् आदि-परस्सहस्र-दोष-दुष्टं दर्पणाभिमत-नासामूलस्य द्व्यङ्गलोर्ध्वाधो-रेखावत्त्वम् इति ॥
प्रामाणिकार्थ-वर्णनम्
नन्व्-अष्टादश-लवित्राणीव प्रमाणानि प्रदर्शितानि ; तेषां का गतिर् इति चेद्, सुगतिर् एव । पश्यन्तूदाहृत-प्रमाण-पुञ्जस्यैकरस्यं महान्तः । प्रथम-निर्वाह एवम् — ‘नासिका-मूलम् आरभ्य’ इत्य् अत्र ‘मूल’ शब्दस् समीप-देश-परः ‘मूलम् अन्तिक-पुञ्जयोर्’ इति कोशात् । स च समीपदेशोऽर्ध्वभागः । ‘नासादौ द्व्यङ्गुलं पादम्’ इत्य् अत्रापि नासाया आदौ ऊर्ध्वभागेत्य् अर्थः । वचन-द्वयस्थयोर् आदि-शब्द-मूल-शब्दयोर् एकार्थता एवं सिध्यति । नारदीये द्वादश-पुण्ड्रस्थानानि प्रस्तुत्य — '
नासिका-मूलम् आरभ्य ललाटे प्रथमं न्यसेत् । द्वितीयम् उदरे नाभेर् ऊर्ध्वं हृदि ततः परम् । वक्षोऽन्ते तत्परं पश्चात् कुक्षाौ
इत्यादि । अत्र वक्षोऽन्ते — वक्षसो उपरि इत्य् अर्थस् स च कण्ठदेशः । (पृ १३७.) तद्वद् इहाप्य् उपरिदेश एवार्थः । स च भ्रूमध्याधोदेशः । तत्र द्व्यङ्गुलं विस्तृतम् इति विवक्षितम् इह । एवं सत्य् अधोभागस्य पीठत्वं सूपपन्नम् । ऊर्ध्वाधो-भाग-रूपत्वे न कथञ्चिद् अपि पीठत्व-सिद्धिर् इत्य् उपादर्शि ॥
पक्षान्तरन्तु ‘नासादाौ’ इति ‘नासिका-मूलम् आरभ्य’ इति च मर्यादा-परम् । नाभिविधि-परम् । तेन सहेत्य् अभिविधिः । तेन विनेति मर्यादा । नासिका-मूलं विहायेत्य् अर्थः । आङ् मर्यादायाम् । ‘नासादाौ’ इति सप्तमी उपरिभाग-परा — तद् उक्तं
ज्योतिर्-अधिकरण-श्रुतप्रकाशिकायाम् — ‘उपदेश-भेदाद्’ इति सूत्र-भाष्य-व्याख्यायां ‘त्रिपादस्यामृतं दिवि’ इति दिवोऽधिकरणत्वेन निर्देशाद् ‘दिवः पर’ इत्य् अवधित्वेन निर्देशाद् उपदेशस्य भिन्न-रूपत्वाद् इति चेद्, ‘वृक्षाग्रे श्येनः वृक्षाग्रात् परतश् श्येनः’ इतिवद् उभयस्मिन्न् अप्य् उपदेशे नार्थ-भेदः; इत्य् अर्थकं भाष्यम् उपादाय ‘सप्तमी अन्तर्-बहिर्-अधरोर्ध्व-भाग-स्थिति-साधारणी; पञ्चमी तूपरिस्थित्य्-असाधारणी; अतो उभाभ्यां स्थान-विशेषाद् उपरि स्थितिर् एव विवक्षिता’ इति । अत्रापि नासाया अग्रं तस्मिन् इति विग्रहः । नासापेक्षया अग्रे — ऊर्ध्वभागे इत्य् अर्थाद् भ्रू-मध्यासन्नाधोभागे इत्य् एवं विवक्षितम् । अस्मिन् पक्षेऽपि पूर्वोदाहृत-याज्ञवल्क्य-स्मृत्याद्यविरोधः । ‘आरभ्य नासिका-मूलम्’ इत्यस्य नासिका-मूलं विहाय तत्-पूर्व-भाग-विवक्षणाच् छेष-फणास्थ-सपीठ-पादद्वयाकृति-सिद्धिः ॥
நெற்றியுள் நின்றென்னையாளும் நிறைமலர் பாதங்கள் சூடி इति शठकोप-मुनेर् गाथायां நெற்றியுள் इति — ललाटेतर-देशावृत्ती इत्य् अर्थः । நெற்றி इति सप्तमी-निर्देशे पूर्वोदाहृत-श्रुतप्रकाशिका-रीत्याधो-भागस्यापि प्रतीतिस् स्यात् நெற்றியில் इति ललाट-मात्र-घटकत्व-सिद्ध्यर्थम् इति तद्-ऐकार्थ्यं अपि ॥
“सपादोर्ध्वपुण्ड्र-धारणे प्रमाणम्” — इत्य् उपक्रम्य स्वामिनो लिखन्ति — बृहत्सेन-संहितायां दिलीप-नारद-संवादे,
ज्योतिष्टोमादि-यज्ञानां कर्तारस् तीर्थ-मञ्जकाः ।
सर्वकर्म-धृतास् ते हि सर्वेषाम् अपि पावनाः ॥
नासाग्र-पाद-संयुक्त-पुण्ड्र-युक्तास् तथैव हि ।
सदा ते योग्य-वर्याश् च मम भक्तास् तथैव हि ॥
इति॥
अत्र क्रमेण ‘यज्वा तु हासास्पदम्’, ‘न गाहन्ते गङ्गां न मज्जन्त्य् अम्भोधौ’ ‘सर्व-कर्म-त्यागिनः’ इति नासिका-मूल-पुण्ड्र-धारिण इति च ये प्रसिद्धास् तेषां व्यावृत्तिः प्रतीयते । (पृ १४७) एवं तैर् अनन्तरम् एवोदाहृते — वैखानसे —
नासाग्र-भागे कृत-पीठ-पुण्ड्रिणं पवित्र-पाणिं खलु गर्भ-वैष्णवम्
इत्यादि दृश्यते ।
अत्र पवित्र-पाणिम् इत्य् अनेन पवित्र-धारणं न कार्यम् इति मन्वानानां व्यावृत्तिः (पृ १०८)। ‘पूर्वाचार्य-परम्परा-विप्रतीपेषु नवनवेष्व् आचारेषु निष्ठिता नवीना यद्यद् आचरन्ति यच् च यच् च कथयन्ति तेष्व् अभिनिवेशो मा भूद् इति परमतात्पर्यम् अस्यास् सूक्तेः।’(पृ ५) उदाहृत-प्रमाणयोर् नासाग्र-भागे इति स्पष्टं न तु नासिकामूले इति च । विशदीकृतञ्चैतत् कारण-संहितायां तत्रैव तद्-उदाहृतायाम् — (पृ १४८) ब्रह्माणं प्रति भगवद्-वचनम् —
सपाद-पुण्ड्राङ्कित-फालदेशास् सुतप्त-चक्राङ्कित-बाहुमूलाः । अष्टाक्षर-द्वादश-मन्त्र-जप्या मद्-भक्त-वर्याः खलु भूत-देहाः ।। (पृ १४८)
अष्टाक्षर-द्वादशाक्षरादीनां जपो न कर्तव्य इति स्थितानाम् इह व्यावृत्तिः । अत्र फाल-देशस्य सपाद-पुण्ड्राङ्कितत्वोक्त्या पूर्वोदाहृत-वचनयोर् अन्यत्र च नासाग्र-शब्दो नासायाः पूर्व-देश-परः । तत्रैव पुण्ड्रं धार्यम् इति सिध्यति ॥
एवम् एव तद्-उदाहृतायां संहितायाम् —
अष्टाक्षरा-जपी चैव ह्य् अपवित्रो मद्-अर्चकः । पादहीनोर्ध्वपुण्ड्रश् च रौरवं नरकं व्रजेत् ।।
इति मन्त्र-जपाभावे पवित्र-धारणाभावे च रौरव-नरकाप्तिर् इत्य् उक्तम् ॥
खगेश्वर-संहितायां स्वामिभिर् उदाहृतायां - (पृ १३२)
द्वादशाक्षर-तत्त्वज्ञास् सदाष्टाक्षर-सेवकाः । प्रपत्तिद्वय-संयुक्तास् तद्-अर्थे त्यक्त-जीविताः । तद्-गोष्ठी-निरता ये तु तद्-भक्ताः पङ्क्ति-पावनाः । परमैकान्तिनस् ते हि नारायण-समा मताः ॥
पाद्मसंहितायाम् —
नासिकायास् त्व् अधो भागो नासिका-मूलम् इष्यते । नासिका-मूलम् आरभ्य ललाटान्तं प्रकल्पयेत् ।। (पृ १३२)
इति ।
वैखानस-संहितायाम् —
स्त्रीणाञ्चापि तथा चैव श्रीचूर्ण-श्वेत-मृत्तिकाम् । कूर्च-मध्ये तथा लिख्य चन्द्रम् ऊर्ध्ववद् आचरेत् ॥ (पृ १३३)
इति ।
कात्यायनः —
नासिका-देश-मूले तु पीठं कृत्वा स-वर्तुलम् । तस्योपरि न्यसेत् पुण्ड्रं केशान्तं धारयेत् सुधीः ।। (१५९ पृ)
इति ।
अत्र नासिका-देश-मूले स-वर्तुल-पीठं कृत्वा तद्-उपरि पुण्ड्रे धारयेद् इत्य् उक्तम् । अनेन नासिका-मूलं नाम स्वाव्यवहित-पूर्व-पुण्ड्र-धारण-स्थलम् एवेति सु-स्पष्टम् । (पृ १५९) तत्र ‘स-वर्तुलम्’ ‘कुण्डलीकृत-पादद्वयाकृती’इत्य् उक्त-रीत्यार्धचन्द्रवत् पुण्ड्र-द्वयव्यापि सर्प-फणास्थ-पीठ-तुल्यं पीठं धार्यम् । न नासायाम् इति सिद्धम् । एवं क्वचिन् नासाग्रे पीठ-धारणम् । अन्यत्र नासामूले । अपरत्र नासादौ धारणम् इति प्रमितम् । तत्र सर्वत्र नासाया अग्रे प्राग्भागे नासाया मूले तत्-प्राग्भागे नासादौ नासा-पूर्वदेशे इति एक एव देशो नासाग्र-नासामूल-नासादि-शब्द-विवक्षित इति स्वीकर्तव्यम् । स च देशो नासा-वर्जितो भ्रू-मध्याधोभाग एव । तत्र स-वर्तुल-पीठं धृत्वा पुण्ड्र-धारणं कर्तव्यम् । नासिका-घटकेष्व् आदि-मध्यान्त-भागेषु क्वचिद् अपि पीठ-कल्पनं न कार्यम् इति च सु-प्रतिष्ठितम् । नासिकायां पीठ-कल्पनं पीठहीनतां पुण्ड्रस्य समर्थयतीति च प्राग् एव प्रतिष्ठापितम् ॥
नासाग्र-पाद-संयुक्त-पुण्ड्रयुक्ताः । इत्य् उदाहृत-बृहत्सेन-संहिता-वचने — नासा—नासेन्द्रियम्, अग्रे यस्य तन् नासाग्रं — नासा - नालम् इत्य् अर्थ इति दर्पण-कृतः, तत्पुरुषापेक्षया जघन्यो बहुव्रीहिः,समास-घटकीभूत-पदद्वय-लक्षणा-प्रसङ्गात् । नासेन्द्रियाधिष्ठानस्य नासाग्र-भागस्यैव नासेन्द्रियाग्रकत्वात् विग्रह एव फलम्, न पुण्ड्र-पीठयोस् समासः । नासा-नाल-पर्याप्तस्य द्व्यङ्गुलकत्वस्य स्वाश्रयं पीठीकर्तुम् अक्षमत्वात् । नासादौ द्व्यङ्गुलं पादम् इत्य् अनेनैकार्थ्यासम्भवात् । पीठेन सह केशवोर्ध्वपुण्ड्रस्य चतुरङ्गुलकत्वासम्भवाच् च ॥
नासाया अग्रः — पूर्वभागः, नासाया मूलम् — अन्तिक-भागः, ‘मूलम् अन्तिक-कुञ्जयोर्’ इति कोशात् । नासाया आदिः — पूर्वो भागः, इति स्वरसतस् त्रयाणाम् अपि शब्दानां तत्पुरुषाश्रयणे ‘नासाग्र’ नासामूल-नासादि-शब्दानाम् एकार्थत्वम् । त्रिभिर् अपि शब्दैर् भ्रू-मध्याधोदेशो नासा-वर्जं विवक्षितः । तत्र द्व्यङ्गुल-विस्तृतं पीठं पुण्ड्रेण सह संबद्धं चतुरङ्गुलं भवति पीठस्य विस्तारो द्व्यङ्गुलम् । चतुरङ्गुल-ऊर्ध्वाग्रं पीठेन सहैव पुण्ड्रम् ॥
किञ्च हरेः पादाकृति-पुण्ड्रे पादाङ्गुली-कृश-मध्यत्वादयः कुतो रेखायां प्रकाश्यन्ते ? ऋुजुत्वहानिस्याद् इति चेत् पीठस्य पद्ममुकुल-विकसित-पद्माकारत्वयोर् एकदा विरुद्धयोर् रेखी-करणेऽपि ऋजुत्वहानिस्तुल्य-न्यायात् ॥
मुकुलितस्याधस्-सूक्ष्मत्वाभावात् उपरि-विस्तृतत्वाभावाच् च रेखायां नासागतायां वैपरीत्य-कल्पनं न प्रामाणिकम् । हरिपादयोर् अपि ललाटस्थयोर् विषम-रेखा-कल्पनापत्तिश् च । कुक्ष्यादिकैकादश-स्थान-पुण्ड्रयोरश्रुत-वैषम्य-कल्पनं चेत्य् एवम् आदयो दोषाः काल्पनिक-केशवपुण्ड्र-धारिणां दुष्परिहरेत्य् अलम् ॥
इदम् अप्य् अपरम् अवधेयम् — ऊर्ध्वपुण्ड्रम् एकैकम् एकैक-पाद-रूपम् ? पादद्वय-रूपं वेति । पुण्ड्रस्य एकत्वे पादम् अप्य् एकम् तस्य द्वित्वे इदम् अपि तथेति समाधिः । तथा हि द्वादशावयवाः द्वादश पुण्ड्राणि द्वादश पादाः । यदि द्वादशावयवेषु प्रत्येकं द्वौ द्वाव् इति चतुर्विंशति-हरिपादास् स्वीक्रियन्ते तर्हि चतुर्विंशतिर् ऊर्ध्वपुण्ड्राणि इत्य् एष्टव्यमेव । कथम् इति चेद् ? दर्पणानुसारिणैव । दर्पणकृद्भिः
‘स्मार्तैकदेशि-धृतैक-पादाकार-चन्दनोर्ध्वपुण्ड्रवत् कल्पितोर्ध्वपुण्ड्र-मध्ये श्रीचूर्ण-धारणार्थं भेद-करण-रूप-दोष-प्रसक्तेः’
(पृ-१३९) इत्य् एवम् एक-पादेऽपि ऊर्ध्वपुण्ड्र-व्यपदेश आम्रेडितः । प्रतिपादं पादत्वम् इव पुण्ड्रत्वम् अपि पर्याप्तम् इति सिद्धम् । तथाच चायम् एकः पादोयञ्च एकः पाद इत्य् अपेक्षा-बुद्ध्या हरिपादयोर् यथा द्वित्वम् इष्यते तथेदम् एकं पुण्ड्रम् इदम् अप्य् एकं पुण्ड्रम् इत्य् अपेक्षा-बुद्ध्या पुण्ड्र-द्वित्वम् अप्य् अङ्गीकरणीयम् एव । तन् न चेत् पुण्ड्रे , पादेऽपि तथैव । तर्हि एकस्मिन् पादे श्रीचूर्णार्थं भेद-करण-प्रसङ्ग इति यद् उक्तं तत् पुण्ड्रेऽपि तुल्यम् । पादत्व-पर्याप्त्य्-अधिकरणे पुण्ड्रे पुण्ड्रत्वस्यापि पर्याप्तेः । अत एव त्रिपुण्ड्रम् इति व्यपदेशोऽपि स्मार्तानां शैवानाञ्च ॥
तर्हि केशवोर्ध्वपुण्ड्रम् एकम् इत्य् एवं द्वादश-पुण्ड्र-व्यवहारो द्वादश-पाद-व्यवहारेऽपि तुल्यः । तद् वा तादृग् वेति न कश्चिद् विशेष इति न्यायात् ॥
पुण्ड्रयोर् वाम-दक्षिणयोर् भिन्नत्वेऽपि पीठात्मकोभय-संयोगस्यैकत्वाद् एकं पुण्ड्रम् इति व्यपदेशः । न तु स्वरूपतोऽपि त्व् औपाधिकः । तथा पादयोर् अपि एकत्व-व्यपदेशोऽपरिहार्यो यथा चुलकित-तीर्थाचमनानां भेदेऽपि त्रयाणां मिलितानाम् एकम् आचमनम् इति व्यपदेशो यथा वा एकः प्राणायाम इति त्रिः पठितानां । यथा वा राशितापन्नानां व्रीहीणां बहूनाम् ‘एको व्रीहिः’ इत्य् एवम् इहापि ॥
अतो द्वादशोर्ध्वपुण्ड्राणीति प्रमाण-बलाद् द्वादश पादा एव । न तु चतुर्विंशतिः । श्रीचूर्णार्थं हरिपाद-रूपस्यैकस्य पुण्ड्रस्य छेदनं यथा नेष्यते तथा पादेऽपि । चिद्-अचिद्-ईश्वराणां मिथो भिन्नानां विशिष्टाद्वैतम् एव हि । न तस्यात्र सर्पमारः ।
विष्णु-नन्दन-टिप्पनी
सर्पमारन्याय इति लोके प्रसिद्धो न्यायः। अस्यार्थोऽस्ति यत् सर्पोऽपि म्रियेत तथा च दण्डोऽपि न भज्येत इति। यथा गोपुरस्य प्राकारस्य च पार्श्वयोर् मध्ये च छिद्र/द्वाराद्य् - अवयवभेदे सत्यपि “एकमेव गोपुरम्” इति व्यपदिश्यते, तथैव ऊर्ध्वपुण्ड्रे पार्श्वरेखाद्वयं मध्ये श्रीचूर्णस्य रेखा च सत्स्वपि “एकमेव पुण्ड्रम् / पादद्वयात्मकम् एकमेव साधनम्” इति सिद्ध्यति। अत्र कस्याप्य् अवयवस्याऽपलापः (नाशः) न क्रियते, अतो “न तस्यात्र सर्पमारः” इत्य् उच्यते।
यथालयस्योपरि पार्श्वयोर् मध्ये च गोपुर-प्राकार-द्वारादि-रूपावयव-भेदेन भिन्नत्वेऽपि सङ्घातैक्य-विवक्षा तद्वत् पादैक्यम् ॥ यद् अलेखि (पृ १४२) ‘सच्चरित्र-रक्षायां श्रीचूर्णं-पीठञ्च नोक्तम्’ इति तद् आपाततः ।
ऊर्ध्वपुण्ड्रस्य मध्ये तु विशालेऽतिमनोहरे । लक्ष्म्या साकं समासीनो रमेऽहं तत्र नित्यशः । निरन्तरालं यः कुर्याद् ऊर्ध्वपुण्ड्रं द्विजाधमः । स हि तत्र स्थितं विष्णुं श्रियञ्चैव व्यपोहति ।।
इति ब्रह्माण्ड-पुराणस्योदाहरणात् ॥
ब्रह्मरात्रे —
निरन्तरालं यः कुर्याद् ऊर्ध्वपुण्ड्रं विमोहितः । स हि तत्र स्थितं विष्णुं श्रियञ्चैव व्यपोहति ।।
इति चोक्तम् ।।
सर्वम् इदं श्रीचूर्ण-धारणावश्यकत्व-परम् एव हि । एवं ‘नासिका-मूलम् आरभ्य ललाटे प्रथमं न्यसेत्।’ इति स-पीठस्यैवोर्ध्वपुण्ड्रस्य धारणीयत्वं स्थापितम् । पीठस्यैव हि नासिकामूलत आरम्भः । नासिका-मूलञ्च नासायाः पूर्वो भ्रुवोर् अधस्ताद् भाग इत्य् उक्तं प्राग् एव । अतः पीठ-श्रीचूर्णे सच्चरित्र-रक्षायां नोक्ते इति प्रामादिकं स्वामि-लेखनम् ॥
यत्तु व्यासस्मृत्य्-उत्तरखण्डे —
अम्भोज-मुकुलाकारं पादं द्व्यङ्गुल-सम्मितम् । नासिकादि-भ्रुवोर्-मध्यपर्यन्तं परिकल्पयेद् ।।
इति ललाटो-र्ध्वपुण्ड्रस्य द्व्यङ्गुल-परिमित-पाद-वैशिष्ट्य-प्रतिपादनेन भगवच्छास्त्रे ‘नासादौ द्व्यङ्गुलं पादम्’ इत्य् उक्तत्वेन पद्माकार-पादाधः-प्रदेशम् आरभ्य स-श्रीचूर्ण-शाखाद्वयाग्रपर्यन्तं परिमाण-गणनानावश्यकत्वेन शिष्टा ऊर्ध्वपुण्ड्रं तथैव धारयन्ति । ‘सपादमूर्ध्वपुण्ड्रं तु द्विषट्-स्थानेषु विन्यसेत्’ इति बृहन्नारदीयादि-वचनम् । इति च (पृ १४३)
अत्र नासिकादि इत्य् अत्र षष्ठी-तत्पुरुषश् चेत् नासाया आदौ भ्रुवौ तयोर् मध्येत्य् अर्थः । नासिकां विहाय तत्-पूर्व-वर्ति-देशपर्यन्तं पादं परिकल्पयेद् इति लभ्यते । ‘सिद्धे सत्य् आरम्भो नियमाय कल्पते’ इति न्यायः । नासिकायाः पूर्व-वर्तिन्योर् भ्रुवोर् एव मध्ये पादम् इति फलति । यदि तु नासिकाद् इति बहुव्रीहिः परिकल्पन-क्रिया-विशेषणम् । ‘क्रिया-विशेषणानां कर्मत्वम्’ । ‘कर्मणि द्वितीया’ इत्य् अनुशासनात् । इति विवक्षितम् ; तदा तद्-गुण-संविज्ञानोऽतद्-गुण-संविज्ञानो वात्र बहुव्रीहिर् इति विमर्शनीयम् । नाद्यः । ‘पद्माकार-पादाधः-प्रदेशम् आरभ्य शाखा-द्वयाग्रपर्यन्तं’ परिमाण-गणनावश्यकत्वेनेति स्वामिभिर् एव कण्ठोक्तत्वेन तथा गणने केशव-पुण्ड्रस्य सप्ताष्टादि-परिमाणकत्वापत्तेश् चतुरङ्गुलम् ऊर्ध्वाग्रम् इत्यस्य व्याहतेः । उक्तं हि स्वयम् एव ‘भ्रुवोर् अधस्ताच् चक्षुर्मध्यं तद्-अधस्तान् नासिका — तद्-अधस्तान् नासिकामूलम्’ इति नासिका-मूले द्व्यङ्गुलं तद्-उपरि नासिकाम् अङ्गुलान्तरं तद्-उपरि चतुरङ्गुलम् इति हि सिद्ध्यति । ‘नासाग्रे द्व्यङ्गुलं पादम्’ इति स्वोदाहृत-प्रमाण-परामर्शे तु नासाग्रादि-भ्रूमध्यपर्यन्तं चतुरङ्गुलान्यूनं पादम् । तद्-उपरि चतुरङ्गुलं ललाटे आहत्याष्टाङ्गुलादि-परिमाणं केशव-पुण्ड्रम् इति न तस्य चतुरङ्गलत्व-सिद्धिः ॥
किञ्च —‘सपादमूर्ध्वपुण्ड्रं तु द्विषट्-स्थानेषु विन्यसेद्’ इति स्वोदाहृत-बृहन्नारदीयादि-वचनस्य स्वेनैव बाधनम् । नासिकयास् सह त्रयोदशत्वात् स्थानानाम् ॥
अपि चाम्भोज-मुकुलस्याग्रे सूक्ष्मत्वाद् अधस् स्थूलत्वात् तद्-वैपरीत्येनाग्रे स्थूलतयाधस् सूक्ष्मतया पाद-लेखनं दृष्टान्त-वचन-विप्रतीतम् । हरिपादयोर् अग्रे विशालतयाधस् - सूक्ष्मतया स्थितयोः, रेखायां मूलाग्रयो ऋजुत्वावश्यकत्व-विधायक-वचन-बलात् सम-परिमाणतया पुण्ड्रे लेखनवद् अम्भोज-मुकुलाकृति-पादस्याप्य् आर्जवावश्यम्भावेनोर्ध्वाग्रयोस् सम-परिमाणवत्त्वावश्यम्भावेन मृणाल-दण्डाकारस्य ऊर्ध्वाग्र-सम-परिमाणस्य द्व्यङ्गुल-त्र्यङ्गुल-चतुरङ्गुलादि-परिमाणवत्तया नासाग्रे द्व्यङ्गुलम्, ‘नासामूले द्व्यङ्गुलं’ ‘नासादौ द्व्यङ्गुलं’ इत्य् एवं पृथक् पृथक् परिमाणवत्तया प्रमाणैः प्रतिपन्नस्य भ्रूमध्य-मात्र-विश्रान्तस्य शाखाद्वय-सम्बन्ध-गन्धस्याप्य् अभावेन पीठत्वानुपपत्तिः । पादस्यैकाङ्गुलत्व-पक्षे तु सुतराम् । अतस् तद्-गुण-संविज्ञानो बहुव्रीहिर् न सम्भवति । तथा सति द्वादश-स्थानेषु द्वादश-पुण्ड्राणीत्यस्य वैघट्यात् । नासिकया सह त्रयोदशस्थानानि तदा भवन्ति । पाद-पीठेन सह परिगणने ललाटोर्ध्वपुण्ड्रस्य चतुरङ्गुलोर्ध्वाग्रत्वानुपपत्तिश् च । द्व्यङ्गुलस्य नासिकायाम् एव परिसमाप्तत्वात् मध्ये विच्छेदावश्यम्भावात् नासामूल-पुण्ड्रस्य पीठत्वासम्भवश् च फणि-फणा-पुण्ड्रस्यैव हरि-पाद-द्वयाकृतित्वम्, स-पीठत्वम् अधो वर्तुल-भागेन, पीठेन सह चतुरङ्गलत्वम्, कुक्ष्यादि-पुण्ड्रैकरूप्यं समस्त-प्रमाण-शिष्टाचारानुगुणत्वं चेति नासिका-पुण्ड्र-पक्ष-प्रतिक्षेप्य एव ॥
कुक्ष्यादि-पुण्ड्र-शोधनम्
यद् आहुस् स्वामिनः —
‘कुक्ष्याद्य्-अङ्गेषु स्थूल-पीठ-मध्ये पद्माकार-पादं लिखित्वा तदुपरि ऊर्ध्वपुण्ड्राणि धारयन्ति’ ‘तथा कुक्ष्यादिकाङ्गेषु पादन्तु चतुरश्रकम्’ इति व्यासोत्तरस्मृत्यादि-वचनैः कुक्ष्यादिषु चतुरश्र-पीठ-कल्पनम् अपि प्राप्तम्, ‘सपादमूर्ध्वपुण्ड्रं तु द्विषट्-स्थानेषु विन्यसेद्’ इति बृहन्नारदीयादि-वचनैः कुक्ष्यादि-त्रिकान्तेषु एकादशसु स्थानेषु द्व्यङ्गुल-परिमित-पद्माकार-पाद-सहितोर्ध्वपुण्ड्र-धारणम् अपि प्राप्तम्, अतस् स्थूल-पीठ-मध्ये पद्माकार-पादं लिखित्वा धारयन्ति । श्रीरङ्ग-गोपुरादिषु स्थूल-पीठोपरि सपादोर्ध्वपुण्ड्रं प्रकाशते; कथम् इदम् उपपद्यत इति चेत् मण्टप-गोपुर-प्रासादादिषु विस्तृतत्वात् सपादोर्ध्वपुण्ड्र-पीठयोः परिमाण-प्रमाण-वचनाभावाद् उभयोर् भेद
इति (पृ १४२-१४३-१४४) -
अत्र पृच्छ्यते । चतुरश्रं द्व्यङ्गुलं पाद-पीठं कुक्ष्यादिषु । तद्-उपरि द्व्यङ्गुलं नासिकायाम् इव कमल-कुड्मलाकारम् । तद्-उपरि विकसित-पद्माकारं द्व्यङ्गुलम् । तद्-उपरि
नासिका-देश-मूले तु पीठं कृत्वा स-वर्तुलम् । तस्योपरि न्यसेत् पुण्ड्रम् ।।
इति कात्यायन-वचनात्
(पृ १५९) ‘कुण्डलीकृत-सर्प’ इति प्रमाणाच् च द्व्यङ्गुलं वर्तुल-पीठं इत्य् एवं पीठोपपीठ-क्रमेणाष्टाङ्गुल-परिमितानि पीठानि स्वोपरि हरिपादयोर् अष्टाङ्गुलयोर् दशाङ्गुलयोर् वा न पीठ-कृतीनि भवन्ति । अपि तु पीठोपपीठाकृतीन्येव । न हि कश्चित् वैष्णव ईदृश-पुण्ड्र-धारी दृष्टश् श्रुतो वा । न हि वर्तुलं चतुरश्रं मुकुलाकृति-विकसिताकृति चैकं पीठं भवितुम् अर्हति, सहज-सङ्घर्षात् । नापि तासाम् आकृतीनाम् अभेदोऽत एव । नापि तासाम् अन्योन्यस्मिन् अन्योन्यान्तर्भावोऽत एव । अत एतैः प्रमाणैः पूर्वैः कैश्चिद् अप्य् अनुदाहृतैर् मार्जारवत् स्वापत्यम् एव जिघांसन्ति । चतुरङ्गुलेषु गोविन्द-त्रिविक्रम-हृषीकेश-पद्मनाभ-दामोदर-पुण्ड्रेषु तेषां स्वरूप-सत्तापि न लभ्येत स्वाधिक-पीठ-परम्परा-पीडितत्वात् । ‘चतुरश्रं ब्राह्मणस्य … वैश्यस्य वर्तुलाकारम्’ । (पृ २१) इति मिथो भेदं स्वयम् एव स्थापयामासुस् स्वामिनस् सति चैवं प्रासाद-खट्टा-पर्यङ्क-न्यायेनोपर्युपरि-पीठानां समुच्चयो हि कार्यः । अन्यथा तद्-अभावाधिकरण-न्याय-विरोधात् । तत्र हि - तद्-अभावस् — स्वप्नाभावस् — सुषुप्तिः, नाडीषु - पुरीतत्य् आत्मनि च भवति । कुतः तच्छ्रुतेस् —
त्रयाणां स्थानत्व-श्रुतेस् सम्भवति च प्रासाद-खट्टा-पर्यङ्कवन् नाड्यादीनां कार्य-भेदः । तत्र नाडी-पुरीततौ प्रासाद-खट्टा-स्थानीयौ । ब्रह्म तु पर्यङ्क-स्थानीयम्’
इति श्रीभाष्यम् ।
तद्-अभावो ‘नाडीषु तच्छ्रुतेर् आत्मनि च’ इति सूत्रम् ॥
एतेनेदम् अपि प्रत्युक्तम् — यद् आहुस् स्वामिनः — ‘चतुरश्र-पीठं विलिख्य, तद्-उपरि सपादोर्ध्वपुण्ड्र-लेखने वचनोक्ताङ्गुल-परिमाणाधिक्यदोषः प्रसजति । अतस् तन्त्रेण कु्क्ष्याद्यङ्गेषु द्व्यङ्गुल-परिमितं चतुरश्र-पीठं परिकल्प्य तन्-मध्ये पीठाधोभागम् आरभ्य पीठाग्रपर्यन्तं परिशेषात् द्व्यङ्गुल-परिमितं ईषद्विकसित-पद्माकार-पादं परिकल्प्य तद्-उपर्य् उभय-पार्श्वयोर् ऊर्ध्वाग्रे हरिपादाकार-शाखे — मध्ये श्रीचूर्ण-रेखां च धारयन्ति" इति चतुरश्र-पीठ-पद्माकार-पीठयोः पृथक् पृथक् प्रमाण-प्रतिपन्नयोस् स्वेच्छया तन्त्रेणान्तर्भावस्य तद्-अभावाधिकरण-सूत्र-भाष्य-विरुद्धत्वात् । उपर्युपरि लेखने वचनोक्ताङ्गुल-परिमाणाधिक्य-दोषः प्रसजतीति यद् उक्तं तत् तथैव । अतस् तन्त्रेण करणम् इति चेत् दर्शिताधिकरण-विरोधः । सेयम् उभयतःपाशा रज्जुः ॥
यत्तु ‘पादन्तु चतुरश्रकम्’ इति व्यासस्मृत्य्-उत्तरखण्डे चतुर्थाध्याय-वचनबलात्, कुक्ष्यादिषु चतुरश्र-स्थूल-पीठ-मात्रं विशेषः पद्माकार-पाद-साहित्यं तुल्यं’ इति ‘अम्भोज-मुकुलाकारं पादं तु चतुरश्रकम्’ । चतुरश्र-पीठ-युक्तं चतुरश्र-पीठ-मध्यस्थम् इति यावत् । चतुरश्रकम् अस्यास्तीति चतुरश्रकम् । मत्वर्थीयो अच्-प्रत्ययः । ‘स-चतुरश्रकम्’ इति पाठश् चेद् अर्थस् स्वरसः’ (पृ १४०-१४१) इति चतुरश्रकम् इति बहुव्रीहिणा लब्धेऽर्थे मत्वर्थीर्यो निरर्थकः । अस्यास्तीति विग्रहे मुकुलाकार-पीठ-निरूपिताधेयतावच् चतुरश्र-पीठम् इति बोधः । सति चैवं मुकुलाकार-पीठोपरि चतुरश्र-पीठम् इत्य् एव सिद्ध्यति । न तु चतुरश्रक-मध्ये मुकुलाकार-पीठम् इति । चतुरश्र-पीठ-मध्ये मुकुलाकार-पीठं शिष्टा धारयन्तीति तु दृष्टापह्नवः । स-वर्तुल-पीठस्यापि मध्ये धारणम्, एवं विकसित-पद्माकार-पीठस्यापीति स्वैर-भाषणम् ॥
निगमनम्
भगवत्पाद-पीठं चतुरस्रम् उपरि मुकुलाकारं ईषद्विकसिताकारं च स-वर्तुलं च दृश्यते । सर्वम् इदं रेखायाम् अपि दर्शनीयम् इति न । नहि भगवत्पाद-द्वयं अङ्गुल्यादि-सहितं मध्ये कृशं तद्-अधोभागे किञ्चिद् वर्तुलञ्च दृश्यत इति पुण्ड्रेऽपि स सन्निवेशोऽस्माभिर् धार्यः । ऋजुत्वोच्छेद-प्रसङ्गात् । तथैव पीठेऽपि । ‘फणि-फणार्पितं ते पदाम्बुजम्’ इति श्रीगोपिका-गीतम् । ‘मत्-पदानि च ते दृष्ट्वा’ इत्य् अन्यत्र चोक्तम् । नित्यसूरि-प्रथमस्य शेषस्य शीर्षे भगवत्पादद्वयाकृति-रेखाद्वयम् इति च श्रीकृष्णपाद-प्रभृतिभिः कण्ठोक्तं व्याख्यातृभिः । तद्-अधस्ताद् वर्तुलाकारम् अर्धचन्द्राकृति-धनुराकारं रेखा-पादं । पीठ-भूतम् इदम् एव । एकाङ्गुलम् इति पुण्ड्र-पार्श्ववत् । द्व्यङ्गुलम् इति च विस्तार-परम् पुण्ड्रोर्ध्व-रेखायाश् चतुरङ्गलत्ववत् । ततश् चैकाङ्गुल-पादेन पार्श्वेन च सहितं चतुरङ्गुलोर्ध्वाग्रेण द्व्यङ्गुल-विस्तृत-पीठेन च सहितं केशव-पुण्ड्रम् एवम् एव कुक्ष्यादि-पुण्ड्रम् अपि पीठेषु केशव-पुण्ड्र-समानाकारं प्रतिनियतोर्ध्वाग्र-मध्याङ्गुल-विशेष-सहितं धार्यम् इति । केशवादि-ध्यानवद् अधः पीठे भगवत्-पीठ-भेद-ध्यानं कार्यम् । न तु सन्निवेश-भेदः प्रदर्शयितव्यः ॥
इति प्रमाण-सम्मतश् शिष्टोर्ध्वपुण्ड्र-विधिस् समाप्तः ॥
वैश्वदेवावश्यकत्व-विवेचनम्
वैश्वदेवं विना रमे
यत्तु प्रथम-प्रतिफलने—
वासुदेव-संहितायाम्—
“मद्-यागाननन्तरं देवि
वैश्वदेवं विना रमे ।
अनु-यागस् तदा ऽकार्यः
परमैकान्तिभिर् द्विजैः”इति,
वैश्वदेव-रहितं तदीयाराधनं कुर्यात् (२१-३-५)
इति चोक्तम् ,
इदं सुमहत् दर्पणस्य मालिन्यम् ।
अकार्यः
वैश्वदेवं विना ऽनुयागो ऽकार्यः ।
वैश्वदेवं कृत्वैव कार्य
इति हि संहितार्थः ।+++(5)+++
“अकार्यः” इति पदच्छेदः ।
तथाहि— अष्टाङ्गं यजनम् ।
जयाख्य-संहितायां
श्रीभगवान् उवाच—
१ अन्तःकरण-यागादि
यावद्-आत्म-निवेदनम् ।
तद् आद्यम् अङ्गं यागस्य
तच् चाभिगमनं महत् ॥२ पूजनञ् चार्घ्य-पुष्पाद्यैर्
भोगैर् यद् अखिलं मुने ।
बाह्योपचारैस् तद् विद्धि
भोग-संज्ञन्तु नारद ॥३ मध्व्-आज्याक्तेन दध्ना वै
पूजा च पशुनापि वा ।
तत् तृतीयं हि यागाङ्गं
४ तुर्यम् अन्नेन पूजनम् ॥५ निवेदितस्य यद् दानं
पूर्वोक्त-विधिना मुने ।
संप्रदानं तु तन् नाम
यागाङ्गं पञ्चमं स्मृतम् ॥६ वह्नि-सन्तर्पणं षष्ठं
७ पितृ-यागस् तु सप्तमम् ।
८ प्राणाग्नि-हवनं नाम्ना
त्व् अनुयागस् तद्-अष्टमम् ॥
इति निर्णीतम् ॥
अत्रापि तद् एवोच्यते ।
मद्-यागाननन्तरं षष्ठतया सप्तमतया चाङ्गत्वेन प्रमितं वह्नि-सन्तर्पणं पितृ-यागश् च
वैश्वदेव-पञ्च-महायज्ञ-शब्द-वाच्यं विना ऽनुयागो न कार्यः,
विना वैश्वदेवम् अष्टाङ्गासिद्धेः
इत्य् अर्थः ।
हीनयागः
अनुयागः ‘अनुः-हीने’ हीन-यागो न कार्य
इत्य् अपि सुवचम् ।+++(4)+++
वैश्वदेवं विना कार्यः हीन-याग एव इति वार्थः ॥
दैवी सम्पत्
दैवासुर-सम्पद्-विभाग-योग-नाम्नि गीता-षोडशाध्याये—
‘दानं दमश् च यज्ञश् च
स्वाध्यायः’ …
‘भवन्ति सम्पदं दैवीम्
अभिजातस्य पाण्डव’
इति गीतं भगवतैव ।
अत्र भाष्यम्—
‘यज्ञः फलाभिसन्धि-रहित– भगवद्-आराधन-रूप– महायज्ञाद्य्-अनुष्ठानम् ।
देव-सम्बन्धिनी सम्पत् दैवी—
देवा भगवद्-आज्ञानुवृत्ति-शीलाः,
तेषां संपद्—
सा च भगवद्-आज्ञानुवृत्तिर् एव’
अतः वैश्वदेव-त्यागिनां देव-प्रकृतित्वं नास्तीति सिद्धे
कुतो गृहस्थत्वम्?
कुतस्तरां वैष्णवत्वम् ?
कुतस्तमां मोक्ष-सिद्धिः ?
‘दैवी सम्पद् विमोक्षाय
निबन्धायासुरी मता’ ।
इति हि तद्-उपरि गीता ।
‘ज्ञानी तु परमैकान्ती’ति यामुनार्याः गीतार्थ-संग्रहे ॥
तस्य वैश्वदेवाभाव इति वासुदेव-संहिताया अपार्थ-वर्णनं
वासुदेवेनैव प्रत्यस्तम् ।+++(5)+++
पञ्च-महायज्ञस्य नित्यत्वं बहुशः प्रपञ्चितं
श्रीमद्-गीता-भाष्ये ॥
कर्मान्तर-निष्फलता
अ-दृश्यत्वाधिकरणे
‘श्रुति-स्मृति-चोदितेषु कर्मस्व्
एकतर-वैधुर्येऽपि
इतरेषाम् अनुष्ठितानाम् अपि निष्फलत्वम्’
इति श्रीभाष्यम् ।
अनेन
“‘यस्याग्निहोत्रम् अदर्शम् अपूर्णमासम्
अनाग्रयणम् अतिथि-वर्जितञ्च
हुतम् अवैश्वदेवम्’इत्यस्यार्थोऽभिप्रेतः”
इति श्रुतप्रकाशिका।
वैश्वदेवाकरणे प्रत्यवायस्
तत्रैवोपर्य् आथर्वणे श्रुतः ॥
तामसता
गीताष्टादशाध्याये—
‘नियतस्य तु संन्यासः
कर्मणो नोपपद्यते ।
मोहात् तस्य परित्यागस्
तामसः परिकीर्तितः ॥’
इत्य् अत्र
‘नियतस्य नित्य-नैमित्तिकस्य महा-यज्ञादेः कर्मणः संन्यासः — त्यागो नोपपद्यते ।’
‘शरीर-यात्रापि च ते
न प्रसिद्ध्येद् अकर्मणः’इति शरीर-यात्राया एवासिद्धेः ।
शरीर-यात्रा हि
यज्ञ-शिष्टाशनेन निर्वर्त्यमाना सम्यज्-ज्ञानाय प्रभवति ।
अन्यथा‘ते त्व् अघं भुञ्जते पापाः’
इत्य् अयज्ञ-शिष्टाघ-रूपाशनाप्यायनं मनसो विपरीत-ज्ञानाय भवति । …
तस्मान् महा-यज्ञादि-नित्य-नैमित्तिकं कर्म
आप्रयाणात् ब्रह्म-ज्ञानायैवोपादेयम्
इति तस्य त्यागो नोपपद्यते ।
एवं ज्ञानोत्पादिनः कर्मणो बन्धकत्वं
मोहात् परित्यागस्
तामसः परिकीर्तितः’
इत्य्-आदि भाष्यम् ॥
…
‘अमेध्यं भोजनं तामस-प्रियम्’ इति गीता ।
‘अमेध्यम्— अयज्ञार्हम्, अयज्ञ-शिष्टम् इत्य् अर्थः
एवंविधं तमोमयं भोजनं
तामस-प्रियं भवति’
इति गीता-भाष्यम् ।
नित्यता
पराशर-स्मृतौ—
“सन्ध्या स्नानं जपो होमो
देवतानाञ्च पूजनम् ।
वैश्वदेवातिथेयं च
षट्-कर्माणि दिने-दिने”
इति
‘अहर्-अहर् सन्ध्याम् उपासीते’तिवत्
वैश्वदेवस्य नित्यत्वं स्मृतम् ।
विस्मृतम् इदं दर्पण-कृद्भिः ॥
श्री-प्रश्न-संहितायाम् सप्तदशाध्याये—
स्व-गृहाराधको यस् तु
पूजयेत् पाञ्चरात्रतः । …
नित्य-श्राद्धादिकं कृत्वा
वैश्वदेव-बलिं ततः । …
वृद्धैर् अतिथिभिस् साकं
मौनी भुञ्जीत वैष्णवैः
(श्लो, ४८-४९) ।
‘पञ्च वा एते महायज्ञास्
सतति प्रतायन्ते सतति सन्तिष्ठन्ते’
इत्यादि-स्वाध्याय-ब्राह्मणम् ।
… देशिकैश् च
‘नित्यं चैतत् वैश्वदेवादिवद् भगवत्-समाराधनम्’
इति नित्यानुष्ठान-स्थापनाधिकारे
“वैश्वदेववद्” इति दृष्टान्तीकृतम् ।+++(5)+++
…
श्रीभाष्यकाराव्यवहित-शिष्य– वङ्गीश-कारिकायाञ् च
पूजानन्तरं कर्तव्यानि—
होमं पितृ-क्रियां पश्चाद्
अनुयागादिकं च यत् (५०१)
इति वैश्वदेवावश्यकत्वं श्रीभाष्यकारानुशिष्टं सङ्गृहीतम् ॥ …
… परमगुरुभिः ‘प्रपन्न-पारिजाते’
सन्ध्यार्चा-पञ्च-यज्ञादि
तन् मुमुक्षुभिर् आदृतम् ।
नैमित्तिकञ् चाग्रयणं
सीमन्तोन्नयनादिकम्
इत्य् अनुगृहीतम् । …
अनार्यता
आर्याः प्रयता वैश्वदेवे
इति स्मृतिर्
वैश्वदेव-रहितानाम् अनार्यत्वम् आह । +++(4)+++
सन्ध्यादिवत्
“सामान्य-विषयम् इदम्” इति चेत्
सामान्य-विषयत्वं सन्ध्यादिष्व् अपि नास्तीति कल्प्यताम् ॥
वैश्वदेव-स्तुतिः
मनुः—
विघसाशी भवेन् नित्यं
नित्यञ् चामृत-भोजनः ।
विघसं भुक्त-शिष्टं स्यात्
यज्ञ-शिष्टं तथाऽमृतम् ॥
इति।
अतिथ्यादि-शिष्टं विघसम् ।
वैश्वदेव-शिष्टम् अमृतम् ।
पापोक्तिः
श्रुतिः—
केवलाघो भवति केवलादी
इति अवैश्वदेवा अघभुजः ।
वरवरमुन्य्-आद्य्-उक्तिः
‘भूतम् ऐन्दोडु’ इति श्री-विष्णुचित्त-गाथायां
श्रीवैष्णवानाम् उत्कर्ष उच्यत
इत्य् अवतार्य
भगवद्-भागवत-मुखोल्लासैक-प्रयोजनं पञ्च-महायज्ञानुष्ठानं कुर्वद्भिर्
मङ्गलाशासन-परैर् महितं श्रीमद्-गोष्ठीपुरी
इति व्याचक्रुर् वरवर-मुनयः +++(Periyazhwar tirumozhi vyakhyanam?)+++।
श्रीवैष्णव-समयाचार-निष्कर्षेऽपि
वैश्वदेवावश्यकत्वञ्चोक्तम् ।+++(5)+++
… सर्वम् इदम् अपरामृश्य पातयन्ति
दर्पणाभिमानिनो ग्रन्थकृतः ॥
दर्भ-पवित्र-धारणावश्यकत्व-विवेचनम्
तृतीय-प्रतिफलने स्वामिनः
दर्भ-पवित्र-धारणे सुबहूनि प्रमाणान्य् उपन्यस्य
वैष्णवैः केषुचित् कर्मसु दर्भ-पवित्र-धारणम् अभ्युच्चयः
कैश्चिद् वैष्णवैस् सर्वकर्मसु तद्-धारणम् अप्य् अभ्युच्चय-मात्रम्
इत्याहुः ।
तावति तु सन्तुष्यन्तु सन्तः
असुर-विद्रावणादि-फलं तु सन्ध्यायाम् अपि
‘मन्देहारुणे द्वीपे
प्रक्षिपन्ति’
इति श्रुतिः ।
पवित्र-फलम् अपि तथैव,
अतस् तद्-धारणं नित्यं सन्ध्यावत् ॥
अत्र स्वामिनः—
पर-गत-स्वीकार-फली-भूत– स्व-गत–स्वीकार– तत्-कार्य–परार्थानुभवादि-स्थले
चेतनस्य प्रयोज्यत्वेनाप्रधानतया
भगवत एव प्रधान-कारणत्वात्,
पर-गत-स्वीकार-फल– स्व-गत–स्वीकारदयस् सर्वे ऽपि
तेनैवागत-सत्त्वान्तर्गतत्वात्
स्तनन्धयस्य मातृ-स्तन्यवत् गुणोत्तरत्वात्
सर्वेषाम् उपादेया एवेति
स्व-रसत एव सिध्यति
इति स्व-गत-स्वीकार– पर-गत-स्वीकार-निरूपणं कृतम्
(‘श्री-वचन-भूषण-मीमांसा-भाष्ये’)।
इति [३९. पृ.] ।
अयम् एव साक्षाद् देशिक-सम्प्रदायः -
“उपायस् स्वप्राप्तेर्” इत्यादिषु स्पष्टीकृतः ।
तद् इदं स्वगत-स्वीकार-स्वरूपम् अपरामृश्य
एतेषां परार्थानुभव एवेत्य् अविगणय्य च दूषयतां
शिरसि गाढ-प्रहार एष आधुनिकानाम् ॥+++(4)+++
तत्-क्रतु-न्यायस्यायोग-व्यवच्छेदकत्वम्
अप्रतीकालम्बन-सूत्रे श्रीभाष्यादिषु तत्-क्रतु-न्यायेनान्य-योग-व्यवच्छेद एव कृतः
इति तत्-क्रतु-न्यायः नायोग-व्यवच्छेदार्थकः
अन्ययोग-व्यवच्छेदार्थक एव
इति लिखन्ति [४३. पृ.] ।
स्रोतः (द्रष्टुं नोद्यम्)
अप्रतीकालम्बनेति सूत्र-श्री-भाष्य-श्रुत-प्रकाशिका एकात्मनः इत्य् अधिकरणार्थाधिकरण-दीपादौ
तत्र तत्र तत्-क्रतु-न्यायम् आालम्ब्य
अन्य-योग-व्यवच्छेदस्यैव कृतत्वात्
यथाक्रतु-न्याय-विचार-ग्रन्थे च अन्य-योग-व्यवच्छेदार्थकत्वस्यैव प्रतिपादितत्वात्
तत्-क्रतु-न्यायः न त्व् अ-योग-व्यवच्छेदार्थकः ।
विश्वास-टिप्पनी
अन्य-योग-व्यवच्छेदार्थकत्वस्यैव प्रतिपादनं कृतम् इत्य् अलीकम्।
तत् क्वचिद् एव, यत्र उपासित-गुण-विरुद्धाकारान्तरस्य योगो निषिध्यते - यथा सगुणब्रह्मोपासने सबुणब्रह्मानुभवेन सह निर्गुणब्रह्मानुभवः।
अत्र एव-कारेण अयोग-व्यवच्छेदार्थकत्वं निषिध्यते ।
यथोपासनं फलं नास्ति
फलान्तरम् अप्य् अनुपासितं नास्ति
इति मुक्तये जलाञ्जलिर् दत्तो भवति ।
अन्ययोग-व्यवच्छेदोऽपीति न ह्य् उच्यते ॥
कैवल्य-विषय-विवेकः
“योगिनाम् अमृतं स्थानम् । “अत्र श्री-विष्णुचित्तीयम् —
‘योगिनाम् इत्य् आश्रमिष्व् एव ये प्रतीकोपासका योगिनस् तेषाम् अमृतं विष्णु-पदाख्यं ध्रुवाद् उपरि स्थानम् । यतो गङ्गा प्रवहतीति वक्ष्यमाणम्’
इति । विष्णु-पदे स्थितास् तत्र लब्ध-ज्ञाना मुच्यन्ते न तु तत् मुक्तैर् लभ्यं स्थानम् इति चोपर्य् आहुस् स्वयमेव श्री-विष्णुचित्तार्याः । ‘संसार-परमव्योम्नोः’ इति भट्टार्य-भाष्यम् अप्य् एतत्-परम् एव । परम-व्योम विष्णु-पदाख्यं प्राकृत-स्थानम् । संसारस् तद्-अधो नित्य-सृष्टि-विषयस् तयोर् मध्ये कैवल्यम् इति भाष्याशयः । ‘विरजा-परम-व्योम्नोः’ इति पाद्म-पुराणम् अपि विरजाधस्-स्थितं ध्रुवाद् उपरि स्थानं परम-पदत्वेन व्यपदिशति । तद् इदं कैवल्य-विचार-ग्रन्थे मया विवेचितम् एव । अत्र स्वामिभिर् उपदर्शिता रहस्य-मञ्जरी न सदस्यताम् अर्हति ॥
यत्तु वैष्णवैकान्ति-परमैकान्तिनां भेदोपायतयानुष्ठानं— कैङ्कर्यतयानुष्ठानं भोगतयानुष्ठानम् इति (१२३) ‘ज्ञानी तु परमैकान्ती’ति गीतार्थ-संग्रहे श्रीयामुनार्याः । तस्य कैङ्कर्यतयानुष्ठानं वा भोगतया वा । मोक्षे कैङ्कर्य-सिद्धिर् एकान्तिनाम् एव न परमैकान्तिनां स्वार्था परार्था वा इति सिद्ध्यति । वैष्णवत्वम् एकान्तित्वञ्च न परमैकान्तिनाम् इति हि सिद्ध्यति ॥ प्रपन्नानां कैङ्कर्य-बुद्ध्यैवानुष्ठानम् इति चानुपदम् उच्यते अहो दर्पण-कृतां स्वैरिता । यत्तु विहगेन्द्र-संहितायाम् योगपादोत्तरखण्डे सप्त-सप्ततितमेऽध्याये—
मत्-स्वीकार-स्वरूपायाः प्रपत्तेर् अप्य् उपायताम् ।
इच्छन्ति केचित् दुर्दान्तास् सन्तो माम् एव मन्यते ॥ [40. पु.]
इति ।
अत्र स्वीकार-इत्य् अनुक्त्वा मत्-स्वीकार-इत्य् उक्तम् परगत-स्वीकारोऽपि प्रपत्तिर् उपाय इत्य् एवं दुर्दान्तानाम् अभिमानः। सन्तस् तु ‘उपायस् स्व-प्राप्तेर् उपनिषद्-अधीतस् स भगवान्’ ‘प्रपत्तेर्व्याजमात्रत्वम्’ ‘न्यासाद्यास् सहकारिणः’ ஸாக்ஷாத் உபாயம் इत्यादि-देशिक-सूक्ति-निष्ठा माम् एव श्री-विशिष्टं सिद्धोपायं मन्वत इति भावः ॥
उदाहृत-श्लोके मन्यते इत्य् अपपाठः -‘मन्वते’ इति साधुः । किञ्च १. उपक्रम-प्रमाणः २. प्रथाङ्गुलीनां ३. रामानुजाख्याञ्चितं तान्तादधिशुभं प्रपन्न-जनता-सावित्रिकाख्यां जगौ ४. इतर-जातीनां पवित्रं निषेधय ५. वरवर-मुनि-प्रणीत-संस्कृताराधन-कारिकायाम् ६. सन्तो माम् एव मन्यते ७. आर्षत्वच्-छन्दसाभ्यां ८. वयं वर्ते ९. वैष्णवानाम् इतरेषाञ्च १०. रामानुजाचार्यो अनुजगृहुः । ११. प्रार्थयित्वा । १२. भक्तिर् विलक्षणम् १३. इत्यन्त आचार्य-हृदय-सूक्तिर् इत्यादयश् चापभ्रंशा जाग्रति ॥
सदनुष्ठान-संग्रहः
आह्निकं नाम अह्नि भवं सच्चरित्रम् ।
तच् च संग्रहेणोक्तम् ।
‘कल्योद्बोधो ऽच्युताङ्घ्रि-स्मरणम् उषसि च, स्नानम्, अर्घ्यं जपो, ऽग्नौ
होमश् च, ब्रह्म-यज्ञो, हित-भजनम्, अथ स्नान-मध्याह्न-कृत्ये ।
विष्ण्व्-अर्चा, वैश्वदेवं, मख-विधिर्, अशनं, सत्-प्रबन्धानुसन्धा,
सन्ध्या-होमार्चनानं, श्रुति-मननम् इति प्रत्यहं सच्चरितम् ॥’
इति । (स्मृति-रत्नाकरः)
मख-विधिः
मख-विधिः पञ्च-महायज्ञः ।
व्यासः
‘श्रौतं कर्म न चेच् छक्तः
कर्तुं स्मार्तं समाचरेत् ।
तत्राप्य् अशक्तः करणे
सद्-आचारं लभेत् बुधः ।’
इति दर्पणस्यापि सम्मतम् ।
वैश्वदेवं मख-विधिर् इत्य् उभयं त्यक्तं दर्पणे ।
तर्पणम्
नित्य-ग्रन्थे भगवता भाष्य-कृता
सन्ध्योपासनाननन्तरम् आधार-शक्त्य्-आदि-पृथिव्य्-अन्तं तर्पयित्वा—
श्री-वैकुण्ठादि-पार्षदान्तं तर्पयित्वा
इत्य् अनुगृहीतम् ।
तच्-छिष्यैर् वङ्गीश्वर-गुरुभिश् च सन्ध्योपासनाननन्तरं
‘तत आधार-शक्त्यादीन्
तर्पयित्वा स्व-नामभिः ।
नमोऽन्तैः प्रणवोपेतैर्
निष्पीड्य स्नान-शाटिकाम्’
(श्लो. ७९)
इत्य् अनुगृहीतम् ।
श्रीपराशर-भट्टारकैश् च
सोर्ध्व-पुण्ड्रश् च तर्पयेत् ॥ मन्त्रैर् आधारशक्त्यादि-
पारिषदान्ततर्पये-त्-संस्थितैः ।
इति देशिकोदाहृतम् इदम् ।
तद् एतत् त्रयम् उपेक्षितम् अनीक्षितञ् च दर्पण-कृद्भिः ।
अत एव
‘होम-पितृ-क्रियां पश्चात्
अनुयागादिकं च यत्’
(श्लो ४९६)
इत्य् अपि स्वैरं निराकृतम् ।
घण्टा
‘घण्टा-नाद-सनाथौ द्वौ
धूप-दीपौ निवेदयेत्,
तन्-नाद-संयुतौ वेतौ
दुष्ट-तत्त्व-निबर्हणौ ।
भगवत्-प्रीति-जनकौ
शृण्वतां पाप-नाशकौ’ (श्लो. ३५६)
इति च +++(उदाहृत्यापि)+++ बहिष्कृतम् ।
श्रीमद्-गोविन्द-गुरुश् चावधीरितः ।
एम्बार-नित्य-ग्रन्थे
‘घण्टां निनाद्य देवानाम्
आगमार्थं च रक्षसाम् ।
उत्सारणार्थं, भक्तानां
सान्निध्याय विशेषतः ॥’
इत्य् अनुगृहीतं निगृहीतं दर्पणे ।
तच्-छिष्यैः भट्ट-पराशर-पादैः क्रिया-दीपे—
‘आवाहने धूप-दीपे घण्टां भोज्ये निनादयेत् ।’ (श्लो. ३५)
इति यद् उदितं
तद् अरण्य-रुदितं कृतम् ।
भट्ट-वंशीयैश् चाद्यापि घण्टा-नाद-सनाथम् एवाधरणं क्रियते ।+++(5)+++
दर्पणेन तस्य तर्पणं स्याद् अपि ॥
प्रणामः
स्वाचार्याद्यान् द्विजोत्तमः ।
प्रीत्या पृथक् पृथक् शिष्यः
प्रणमेद् ईश्वरावधि [13. पु.]
इत्य् अनेन
पूर्वाचार्यान् नमस्-स्तोमैर्
अर्चयेत् भक्ति-भावितैः
इति क्रिया-दीपारम्भे भट्टार्योक्तिर् अनागनुस्त्रियत?? इव दर्पण-कृद्भिः ॥
प्रदक्षिणद्वयम्
प्रदक्षिणद्वयं कृत्वा
इति नित्य-ग्रन्थः ।
“पुनःपुनः प्रणम्योत्थायोत्थाये"ति गद्यम् ।
“आर्तोपच्छन्दनं गद्यम्” इति गल-हस्तितम् इदम् एकदेशिभिः
“प्रदक्षिणम् एकम् एवे"ति श्रीवैष्णव-समयाचार-निष्कर्षः ।
प्रदक्षिणद्वयं स्वीकृत्य
प्रणामैकत्वानेकत्वयोः पक्ष-भेदः प्रादर्शि गोविन्द-राजीये ।
वङ्गीशोक्तिः
अत्र वङ्गीश-कारिकाः
‘पादुकाग्र्ये प्रदायाग्रे
प्रणम्य च पुनः पुनः’ ।
(श्लो. २२२)
“दत्वा शुभानि पुष्पाणि
प्रणम्य च पुनः पुनः ।” (श्लो. ४०५)
“देव-पार्श्वम् उपागम्य
प्रणम्य च पुनः पुनः ।” (श्लो. ४५४)
“प्रणम्य दण्डवद् भूमौ
भूयो भूयः पुरो हरेः ॥” (श्लो. ४८८)
इत्य् एवम् ।
आग्रयणम्
“नवाग्रं ये तु व्रीहीणाम्
अदत्वा चापि भुञ्जते ।
अष्टाविंशापराधं तं
कल्पयामि वसुन्धरे” ॥
इति भूमिं प्रति श्रीवराहः ॥
“मुमुक्षुभिर् आदृतम् ।
नैमित्तिकं चाग्रयणम्”
इति प्रपन्न-पारिजाते परमगुरवः ।
अष्टकादि
आगम-प्रामाण्ये, “शिष्टान् पश्याम” इति प्रस्तुत्य,
‘न चैतद् आचरणं निर्मूलम् इति युक्तम्,
सन्ध्यावन्दनाष्टकाचरणादेर् अपि निर्मूलत्व-प्रसङ्गात्’
इति अष्टकाद्य्-अनुष्ठातॄणाम् एव शिष्टत्वं स्पष्टम् उक्तम् ।+++(5)+++
महालयः
महालयस्यापि महालय एवैकदेशिषु दृश्यते ।+++(5)+++
तेष्व् एव केचिद् आचरन्तीति पश्यामः ।
महानसिक-सम्प्रदायः
यतीन्द्र-माहानसिक-सम्प्रदाये, न कस्यचिद् अप्य् उपप्लवस्यावकाशः ॥
“इति यति-राज-महानस- परिमल-परिवाह-वासितां पिबत ।
विबुध-परिषन्-निषेव्यां
वेदान्तोदयन-सम्प्रदाय-सुधाम् ॥”
श्री-वीरराघवार्येण
सद्-अनुष्ठान-दर्पणम् ।
स्थाली-पुलाक-न्यायेनाशोधीत्थं वार्तिक-क्रमात् ॥
इति श्रीमच्-छ्रीनिवास-महादेशिक— (श्रीमद्-गरुडपुर-स्वामिनः) -करुणा-कटाक्ष-लब्धोभय-वेदान्तार्थस्य, श्रीमद्-मधुरान्तक-श्रीशैलेच्चम्बाडि– श्री-वीरराघवाचार्यस्य कृतिषु सदनुष्ठान-दर्पण-विशोधनं संपूर्णम् ।
श्रीर् अस्तु ॥