रामानुज-दयापात्रोत्सवः

२०२५

॥ श्रीलक्ष्मीहयवदनपरब्रह्मणे नमः ॥
॥ श्री-यदु-गिरि-नायिका-समेत-श्रीतिरु‌-नारायण-पुर-ब्रह्मणे नमः ॥
॥ श्रीशठकोप-रामानुज-कुरकेश-देशिकेभ्यो नमः ॥
॥ श्रीमद्-अभिनव-वागीश-ब्रह्मतन्त्र-स्वतन्त्र-परकाल-महादेशिकाय नमः ॥

श्री-रामानुज-दयापात्रोत्सवः

नव-नव-बहु-भोगां नाथ नारायण त्वं
विरचय, दुरितौघैस् ताम् अनाघ्रात-गन्धाम् ।
सहज-सुलभ-दास्यैः सद्भिर् अभ्यर्थनीयां
यति-परिबृढ-हृद्यां यदवाद्रेस् समृद्धिम्

भगवद्-रामानुजार्य-दिव्याज्ञया शठकोप-गाथा-सहस्र-व्याख्यान-भूतस्य श्री-भगवद्-विषयस्य (तिरुवाय्मोऴि)
पाठन-क्रम-कालक्षेपः श्री-कुरकेश-देशिकैर् आरब्धः,
ततश् च गुरु-परंपरायाम् अनुस्यूत-रीत्या अन्वधीयत
पश्चात् श्रीमन्-निगमान्त-महादेशिकैः
ग्रन्थस्यास्य काल-क्षेपस् तु वैभवातिशयं गतः;
तद्-द्वारा बहुषु दिव्य-देशेषु च महतीं कीर्तिम् अवाप,
यच् च विशेषतो यतिराज-दिव्य-विजय-स्थाने श्री-तिरु‌नारायणपुरे
आचार्य-दास-जनैर् अनुभूयते

कालक्षेपावसरय् एकदा सिंह-मास-हस्त-नक्षत्र-दिने
श्री-बृहद्-ब्रह्म-तन्त्र–स्व-तन्त्र-यतीन्द्राः
‘रामानुज-दयापात्रम्’ इति देशिक-वैभव-प्रकाशात्मकं
तद्-ध्यान-श्लोक-मुक्तकं देशिकानां चरण-किसलययोः समर्पितवन्तः

अस्य वैभवस्य संस्मरणार्थम्
अद्यापि प्रतिवर्षं सिंह-मास-हस्त-नक्षत्र-दिने
‘तिरुव्-आयिरप्-पडि - श्रीरामानुजदयापात्रोत्सवः’ (Aavani Hastam) इति
श्री-परकाल-मठ-स्थानाभिषिक्त-यतीन्द्र-महादेशिकानां दिव्य-सान्निध्ये प्रचलिष्यति
दिवसे ऽस्मिन् भगवद्-रामानुजैस् सह श्री-सम्पत्-कुमारः, श्री-निगमान्त-महादेशिकानां सन्निधिम् आगत्य
सेवा-कालादि-वैभवोत्सवाः बोभुवति

उत्सवो ऽयं परम्परया श्री-बृहद्-ब्रह्मतन्त्र-स्वतन्त्र-परकाल-मठ-द्वारा प्रतिसंवत्सरं प्रचलिष्यति,
2025 वर्षे ऽस्मिन् 24-08-2025 तः 26-08-2025 पर्यन्तं संभवति
अतः सर्वे भागवताः उत्सवे ऽस्मिन् भागं प्रोह्य
दिव्य-दम्पत्योः भगवद्-रामानुजार्याणां
तथा निगमान्त-महादेशिकानां च
कृपा-पात्राः भवेयुर् इति सभक्तिश्रद्धं प्रार्थ्यन्ते

इति श्री-परकाल-स्वामि-दिव्याज्ञया
श्री. उ. वे। वीरराघवाचार्यः
(श्री-कार्य-कर्तारः)