पुरुषकार-मीमांसा

आप्तवाचो-विरोधे स्यात्
दृष्टि-भेदाद् इयं गतिः ।
अनिश्चिताप्त-वाक्यानां
निश्चिते स्याद् अनादरः ॥१६४॥

प्राधान्याङ्गत्व-परयोः
गद्य-गीतान्त-भष्ययोः । द्वयोर् अन्यतरत् बाध्यं
विरोधो हि स्फुटः ततः ॥१६५॥

“आर्तोपच्छन्दनं गद्यं
केचिद् आहुर् विपश्चितः । गीतान्त-भाष्यम् अन्ये तु
वदन्ति पर-रञ्जनम्” ॥१६६॥

तात्पर्यार्थाविरोधेन
नात्रैकेनान्यबाधनम् । प्रमाण-दार्ढ्याद् अत्रैवं
गद्य-भाष्योक्त-संग्रहः ॥१६७॥

“आर्तोपच्छन्दनं गद्यं
भाष्यं तु पररञ्जनम् । इत्य्-आविल-धियो ह्येवं
प्रसीदेयुः प्रमाणतः” ॥१६८॥

सुदुष्करेण शोचेद् यो
येन येनेष्ट-हेतुना । स स तस्याहम् एवेति
चरमश्लोक-संग्रहः” ॥१६९॥

आप्तस्य ग्रन्थयोर् एवं
विरोधस्फुरणे यथा । तात्पर्य-कॢप्त्या निर्वाहो
भिन्न-कर्तृकयोस् तथा ॥१७०॥