०७ ग्रन्थोपसंहारः

एवं वर्तमानस्य सर्वः कालो ऽप्य् अवन्द्यो भवति।
सर्वे व्यापाराः, भगवत्-कैङ्कर्य-रूपा भवन्ति।
सर्वो ऽपि +आनुषङ्गिको भोगः,
क्रीडा-शुक-क्षीरास्वाद-न्यायेन
स्वामि-भोग-शेष-भूतो भवति।
एवं भगवत्-कैङ्कर्य-रतेः, परमैकान्तिनः,
अन्-आदि-माया-निशावसाने,
अन्-अन्त-मोक्ष-वासर-प्रारम्भे च प्रत्यूषवद् अवस्थितो ऽयम् आयुश्-शेष-कालः,
इति सर्वं निरवद्यम्।

पञ्च-काल-प्रकाशस् सम्पूर्णः। श्रीमते निगमान्त-महा-देशिकाय नमः।