०६ योगान्त्यम्

ब्राह्म-मुहूर्त-कर्तव्यम्

बाह्मे मुहूर्ते सप्राप्ते निद्रां परित्यज्य, सप्त-कृत्वो हरिर् हरिर् इति शब्दं सङ्कीर्तयन्,
तम् एव चिन्तयंश् चोत्थाय॥

ग्राह-ग्रस्ते गजेन्द्रे रुदति स-रभसन् तार्क्ष्यम् आरुह्य धावन्
व्याघूर्णन् माल्य-भूषा-वसन-परिकरो मेघ-गम्भीर-घोषः।
आबिभ्राणो रथाङ्गं शरम् असिम् अ-भयं शङ्ख-चापौ स-खेटौ
हस्तैः कौमोदकीम् अप्य् अवतु हरिर् असाव् अंहसां संहतेर् नः॥
नक्राक्रान्ते करीन्द्रे मुकुलित-नयने मूल-मूलेति खिन्ने
नाहं नाहं न चाहं न च भवति पुनस् तादृशो मादृशेषु।
इत्य् एवं त्यक्त-हस्ते सपदि सुर-गणे भाव-शून्ये समस्ते
मूलं यत् प्रादुर् आसीत् स दिशतु भगवान् मङ्गलं सन्ततन् नः॥

प्रातस् स्मरामि भवभीति-महार्ति-शान्त्यै
नारायणङ् गरुड-वाहनम् अञ्जनाभम्।
ग्राहाभिभूत-मद-वारण-मुक्ति-हेतुश्
चक्रायुधस् तरुण-वारि-ज-पत्र-नेत्रम्॥१॥
प्रातर् नमामि मनसा वचसा च मूर्ध्ना
पादारविन्द-युगलं परमस्य पुंसः।
नारायणस्य नरकार्णव-तारणस्य
पारायण-प्रवण-विप्र-परायणस्य॥२॥
प्रातर् भजामि भजताम् अ-भयङ्करं तं
प्राक्-सर्व-जन्म-कृत-पाप-भयापनुत्यै। यो ग्राह-वक्त्र-पतिताङ्घ्रि-गजेन्द्र-घोर-
शोक-प्रणाशन-करोधृत-शङ्ख-चक्रः॥३॥
श्लोक-त्रयम् इदम् पुण्यं प्रातर् उत्थाय यः पठेत्।
लोक-त्रय-गुरुस् तस्मै दद्याद् आत्म-पदं हरिः॥

इति हरि-शब्दार्थतया प्रसिद्धं समस्त-पाप-हरं भगवन्तम् अनुसन्धाय।

[[1]]

विधि-विहित-सपर्यां वीत-दोषानुषङ्गां
उपचित-धन-धान्याम् उत्सवैः स्त्यान-हर्षाम् ।
स्वयम् उपचिनु नित्यं रङ्ग-धामन् स्व-रक्षां
शमित-विमत-पक्षां शाश्वतीं रङ्ग-लक्ष्मीम् ॥
प्रशमित-कलि-दोषां प्राज्य-भोगानुबन्धां
समुदित-गुण-जातां सम्यग्-आचार-युक्ताम् ।
श्रित-जन-बहु-मान्यां श्रेयसीं वेङ्कटाद्रौ
श्रियम् उपचिनु नित्यं श्रीनिवास त्वम् एव ॥
वरद विरचय त्वं वारिताशेष-दोषां
पुनर्-उपचित-पुण्यां भूषितां पुण्य-कोट्या ।
सितम् उदित-मनोभिस्, तावकैर् नित्य-सेव्यां
हत-रिपु-जन-योगां हस्ति-धाम्नस् समृद्धिम् ॥
नव-नव-बहु-भोगां नाथ नारायण त्वं
विरचय दुरितौघैस् ताम् अन्-आघ्रात-गन्धाम् ।
सहज–सु-लभ–दास्यैस् सद्भिर् अभ्यर्थनीयां
यति-परिवृढ-हृद्यां यादवाद्रेस् समृद्धिम् ॥
श्री-रङ्ग–द्वि-रद–वृषाद्रि-पूर्वकेषु
स्थानेषु स्थिर-विभवाभवत् सपर्या।
आकल्पं वरद-विधूत-वैरि-पक्षा
भूयस्या भवद् अनुकम्पयैव भूयात्॥

इति मङ्गलाशासन-पञ्चकम् अनुसन्धाय।

उद्यद्-भानु-सहस्र-भास्वर-पर-व्योमास्पदं निर्मल-
ज्ञानानन्द-घन-स्वरूपम् अ-मल-ज्ञानादिभिष् षड्-गुणैः॥
जुष्टं सूरि-जनाधिपं धृत-रथाङ्गाब्जादि-भूषोज्वलं
श्री-भूसेव्यम् अन्-अन्त-भोगि-निलयं श्री-वासु-देवं भजे॥ आमोदे भुवने प्रमोद उत सम्मोदे च सङ्कर्षणम्
प्रद्युम्नञ् च तथा ऽनिरुद्धम् अपि तान् संहार-सृष्टि-स्थितीः।
कुर्वाणान् मति-मुख्य-षड्-गुण-वरैर् युक्तां स्त्री-युग्मात्मकैर्
व्यूहाधिष्ठित-वासुदेवम् अपि तं क्षीराब्धि-नाथं भजे॥
वेदान्वेषण-मुन्दराद्रि-भरण-क्ष्मोद्धारण-प्रश्रित-
प्रह्लादावन-भूमि-भिक्षण-जगद्-विक्रान्तयो यत् क्रियाः।
दुष्ट-क्षत्र-निबर्हणन् दश-मुखाद्युन्मूलनं कर्षणं
कालिन्द्या अतिपाप-कंस-निधनं यत् क्रीडितं तं नुमः॥
यो देवादि-चतुर्विधेषु जनिषु ब्रह्माण्ड-कोशान्तरे
सम्भक्तेषु चराचरेषु च विशन्न् आस्ते सदान्तर् बहिः।
विष्णुस् तन्-निखिलेष्व् अणु-तरं भूयस् सुभूयस् तरं
स्वाङ्गुष्ठ-प्रमितञ् च योगि-हृदयेष्व् आसीनम् ईशम् भजे॥
श्री-रङ्ग-स्थल-वेङ्कटाद्रि-करि-गिर्य-आदौ तथाष्टोत्तर-
स्थाने ग्राम-निकेतनेषु च सदा सान्निध्यम् आसेदुषे।
अर्चा-रूपिणम् अर्चकाभिमतितस् स्वी-कुर्वते विग्रहं
पूजाञ् चाखिल-वाञ्छितान् वितरते श्रीशाय तस्मै नमः॥ प्रातर् विष्णोः परत्वादि-पञ्चक-स्तुतिम् उत्तमाम्।
पठन् प्राप्नोति भगवद्-भक्तिं वरद-निर्मिताम्॥

इमां परत्वादि-पञ्चक-स्तुतिञ् चानुसन्धाय।

[[2]]

[[3]]

भगवान् एव स्व-नियाम्य स्व-रूप-स्थिति-प्रवृत्ति-स्व-शेषतैकरसेन मया स्व-कीयैश् चोपकरणैः स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं योगाख्यङ् कर्म स्वस्तै स्व-प्रीतये स्वयम् एव कारितवान्

इति सात्त्विक-त्यागङ् कृत्वा -

अनेन योगाख्येन भगवत्-कर्मणा भगवान् प्रियतां वासुदेवः

इति योगं समापयेत्॥

[[4]]