०५ पत्नी-संवेशः

सन्तानार्थतया, भगवत्-कैङ्कर्य-बुद्ध्या
सुवस्त्र-वेष-धरया, दयितया, अ-रोगया, शुद्ध-चित्तया, धर्म-पत्न्या सह, अ-निषिद्ध-दिनेषु संविशेत्।
षष्ठ्य्-अष्टम्य्-एकादशी-द्वादशी-चतुर्दश्य्-अमावास्या-पूर्णिमा-तिथिषु, सङ्क्रान्ति-व्यतीपात-श्राद्धोपवास-दिनेषु, बुध-वारे,अश्विन्य्-आश्लेषा-मखा-मूला-स्वाती-ज्येष्ठा-पूर्व-त्रय-जन्म-नक्षत्रेषु, निमन्त्रण-दिने, मन्व्-आदिषु, युगादिषु, स्त्री-रजो-दर्शन-प्रभृति-दिन-चतुष्टये च स्त्री-सङ्गमं वर्जयेत्।
अ-जात-पुत्रां पत्नीं ऋतु-काले1, अ-निषिद्धायां रात्रौ अ-प्रार्थितोप्य् उपेयात्।
अन्य-रात्रौ तु प्रार्थित एवोपेयात्।
एकस्यान् निश्य् एकदैव-स्त्रियं गच्छेत् न द्विस् त्रिर् वा।

[[155]]

अष्ट-मासाद् ऊर्ध्वं गर्भिणीन् न गच्छेत्।
व्यवायावधि स्त्रीया सह संविशेत्।
ततः पृथग् एव शयीत।
ऋतु-काले सङ्गमे, यज्ञ-सूत्रम् उपवीतम् एव।
अनृतौ तु, पृष्ठ-भागतो निवीतम् एव कृत्वा स्त्रीयं गच्छेत्।
ऋताव् उपेयाद् यद्य् उभयोस् स्नानम्,
अ-नृतौ तु मूत्रोक्त-द्वि-गुण-शौचम् आचरेत्।
पृथग्-वस्त्रं चोभाव् अपि धारयेताम्।
मिथुनी-भूय शौचं प्रति न विलम्बेत।

[[156]]


  1. रजो-दर्शन-प्रभृति-षोडशाहोरात्रात्मकः कालो गर्भ-ग्रहण-समर्थो भवति[[??]] ↩︎