०४ शयन-विधिः

निद्रां च करिष्यमाण-कैङ्कर्योपकरण-इन्द्रिय-वर्ग-विश्रान्ति-निमित्ततया कैङ्कर्यत्वेनानुसन्धाय -

संशुद्ध-शुष्क-पादः
शास्त्रोक्त-प्रकारेण समुचिते स्थाने, शास्त्रीये शयनीये,
शुद्धत्वानग्नत्वादि-नियम-युक्तः,
प्रासाद-खट्वा-पर्यङ्क-न्यायेन1 नाडी–पुरी-तद्–ब्रह्मसु, स्वात्मनश् शयनम् अनुसन्धाय -

[[154]]

लक्ष्मी-परिष्वङ्ग-व्यञ्जकेन माधव-शब्देन

क्षीर-सागर-तरङ्ग-सीकरासार-तारकित-चारु-मूर्तये।
भोगि-भोग-शयनीय-शायिने माधवाय मधु-विद्विषे नमः

इति श्लोकेन च भगवन्तं कीर्तयन्, परमात्मनि स्वस्य परिष्वङ्ग-विशेषं च परामृश्य स्वराध्यस्य भगवतश् चरणारविन्दयोर् विन्यस्त-शिरस्कः, तम् एव माधवं हृदये ध्यायन् कीर्तयंश् च सुखं शयीत -

शून्य-गृहे, वृक्ष-मूले, चतुष्-पथे, देवालये, शर्करा-लोष्ट-पांसुषु, दीक्षां विना दर्भेषु, मृग-चर्मणि वा, धान्य-गो-देव-विप्र-गुरूणाम् अवस्थान-स्थानाद् उन्नत-स्थले च न शयीत।
स्व-गृहे प्राक्-छिराः, पथि प्रत्यक्-छिराः, श्वशुरस्यान्यस्य वा गृहे दक्षिणा शिराः शयीत।
कदापि नोदक्-छिरास् स्वपेत्।
न नग्नः, नार्द्र-वासाः, स्वपेत्।
अ-विशालायां, निम्नोन्नतायां, मलिनायां, सूक्ष्म-जन्तु-प्रचुरायां वा शय्यायां, न स्वपेत्।
रात्रौ याम-चतुष्टये मध्य-याम-द्वय एव निद्राम् अनुभवेत्।

… यदा यदा निद्रा-विच्छेदः, तदा तदा भगवन्तं ध्यायेत्।
पुनर् आनिद्रागमात् तानि नामानि कीर्तयेच् च।
निद्रा-समये दुः-स्वप्न-दर्शने, पादौ हस्तौ प्रक्षाल्य, द्विर्र् आचम्य, भगवन्तं प्रणम्य, तन्-नामानि सङ्कीर्तयेत्।


  1. नाडी, प्रासाद-स्थानीयं - पुरीतत्, खट्वा-स्थानीयं - ब्रह्मा तु, पर्यङ्क-स्थानीयं अतो ब्रह्मैव साक्षात् सुषुप्ति-स्थानम्। ↩︎