०२ वैकुण्ठ-गति-चिन्तन-प्रकारः

अशेष-चिद्-अचिद्-वस्तु-शेषी-भूतः, परम-कारुणिकः, श्रियः पतिः,
अन्-आदि-कालम् आरभ्य संसार-सागर-निमग्नान् चेतनान् उद्दिधीर्षुः,
अज्ञात-यादृच्छिक-अनुषङ्गिक-प्रासङ्गिक–सामान्य-बुद्धि-मूल– सुकृत-विशेष-व्याजेन
तान् जायमानता-दशायाम् एव, विशेषतः कटाक्ष्य
अ-द्वेषाभिमुख्य-सात्त्विक-सम्भाषणादीन्य् उत्पाद्य,
सदाचार्यानुग्रह-लब्ध-ज्ञानान् कृत्वा,
तन्-मुखेन स्वस्मिन् भर-समर्पणं कारयित्वा,

शरीर-पात-सङ्कल्पित-समये प्राप्ते
सुहृत्सु सुकृतं, द्विषत्सु दुष्कृतं चारोप्य,
देहावसान-समये काष्ठ-पाषाण-सन्निभान्
केवलं स्वीयया दययैव प्रबोध्य,
अप्रच्युत-पूर्व-संस्कार-मनो-रथान् कृत्वा,
ब्रह्म-रुद्रेन्द्रादीनाम् इव यम-किङ्कर-नैरपेक्ष्येण
स्वयम् एवोत्क्रमण-निमित्ती-भूय
प्रशस्ताप्रशस्त-नियम-राहित्येन
तत्-कालोपस्थितं यं कञ्चन शरीर-विश्लेष-निमित्तम् उत्पाद्य,

[[148]]
वाक्-पाणि-पाद-पायूपस्थाख्य-कर्मेन्द्रियाणि,
घ्राण-रसना-चक्षुस्-त्वक्-छोत्राख्य-ज्ञानेन्द्रियाणि च मनसि संयोज्य,
तादृशं मनः प्राण-वायुना संयोज्य;
इन्द्रिय-मनस्-सयुक्तं प्राण-वायुं जीवात्मना संयोज्य,

एकादशेन्द्रिय-प्राण-संयुक्तं जीवं
त्रि-स्थूण-क्षोभ-दशायां1 स्थूल-देह-मथनोद्भूतैस् सूक्ष्म-पञ्च-भूतैस् संयोज्य,
एवं, इन्द्रिय-प्राण-भूत-सूक्ष्म-संयुक्तं जीवं, निसर्ग-सौहार्दे, हार्दे, स्वस्मिन् विश्रमय्य
एवं, स्थूल-शरीरात्, विद्वद्–अ-विद्वत् साधारणं, उत्क्रान्ति-क्रमं गमयित्वा

अन्-अन्तरं स्वर्ग-नरकादि-लोकान्तर-मार्ग-द्वार-भूतेषु शत-सङ्ख्याक-नाडी-विशेषेषु यथा न गच्छेत्
तथा तेभ्यो निवर्त्य,
अर्चिरादि-मार्ग-द्वार-भूतायां शताधिकायां
सुषुम्नेति, ब्रह्म-नाडीति, मूर्धन्य-नाडीति च आख्यातायां हृदय-मध्य-नाड्यां
पाणेन्द्रिय-संयुक्त-सूक्ष्म-शरीरेण सह प्रवेश्य
पद्म-कोश-स्तन+++(??)+++–कदली-पुष्प–दृष्टान्त-दर्शितस्य +अवलम्बमान-हृत्-पुण्डरीकस्य मध्ये
सूक्ष्म-सुषिरात् उपर्य् आरोह्य,

एकादश-द्वार2-सहित-ब्रह्म-पुराख्य-स्थूल-शरीरे
ब्रह्म-रन्ध्राख्य-प्रधान-द्वारम् उद्घाट्य,
तन्-मार्गेण मुमुक्षुं प्रस्थाप्य,

नाडीभिस् सह शृङ्खला-बन्ध-न्यायेन स्यूतान् सूक्ष्म-सूर्य-किरणान् अवलम्बय्य,
मुग्ध-वचनाभ्यसन-प्रवृत्त–बालकोपलालक-सार्वभौम-न्यायेन मुमुक्षुं स-स्नेहं करेणादाय,
पुनस् संसार–हेतु-भूत–कर्म-वासना-रूप–निश्रेणिकान् निवर्त्य
देव-यान-मार्गं प्रापय्य
तन्-मार्गे, “अर्चिर्” इति 3, “अहर्” इति, “शुक्ल-पक्ष” इति, “उत्तरायणम्” इति, “संवत्सर” इति, “वायुर्” इति, “आदित्य” इति, “चन्द्र” इति, “वैद्युत” इति,
“अ-मानव-संज्ञकस्यास्य सह-कारिणो वरुणेन्द्र-प्रजापतयः” इति च नाम्ना प्रसिद्धैः,
प्रत्युद्गमन-पूर्वकं स-बहु-मानं स्व-स्व-सीमा-पर्यन्तं मार्ग-प्रवर्तनार्थम् अनुव्रजद्भिः,

[[149]]

अतिवाहिकैस् सह स्वयं प्रधानस् सन्,
क्रमेण गमयित्वा
तत्-तत्-सीमान्तेषु भगवच्-छास्त्रोक्त-तत्-तद्-भोगान् अनुभाव्यक्एवम् अर्चिर् आदि-मार्गेण प्रकृति-मण्डलाद् ऊर्ध्व-देशावस्थितं, चिराद् दिदृक्षितम् अवैष्णवानाम् अप्राप्यं श्री-वैकुण्ठाख्यं दिव्य-लोकं गमयित्वा, तत्-सीम्नि प्रवहन्त्याः, अ-प्राकृत-सलिलायाः, विरजा-नद्याः, अर्वाक्-तीरे, भक्ति-प्रपत्ति-वशी-कृतस्य स्व-स्व-सङ्कल्पेन स्थापितं, गति-मात्रार्थम् अनुवर्तमानं सूक्ष्म-शरीरं विसर्ज्य - शरीरं विनैव सङ्कल्प-मात्राद् एव विरजायाः, उत्तर-तीरं प्रापय्य - अ-प्राकृत-शरीरं प्रदाय - ऐरम्-मदीयाख्य-सरः पर्यन्तं गमयित्वा - अन्-अन्तरं सोम-सवन-संज्ञकाश्वत्थ-समीपं प्रापय्य - तत्र, शतं माला-हस्ताः शतम् अञ्जन-हस्ताः, शतं चूर्ण-हस्ताः, शतं वासो-हस्ताः, शतं पण-हस्ताः, एवं रीत्या पञ्च-शत-सङ्ख्याप्सरोभिः शतं शतं सङ्घी-भूय-समागच्छन्तीभिः प्रत्युद्गमय्य - ब्रह्मालङ्कारैर् अलङ्कार्य - ततः, तिल्य-नामक-वृक्ष-समीपं गमयित्वा, तत्र, श्री-वैकुण्ठ-नाथस्य दिव्य-गन्धं प्रवेश्य - सा लज्जाख्य-स्थान-समीपं गमयित्वा, तत्र श्री-वैकुण्ठ-नाथस्य दिव्य-रसं प्रवेश्य - अ-पराजिताख्यायतन-समीपं गमयित्वा, तत्र श्री-वैकुण्ठ-नाथस्य दिव्य-तेजः प्रवेश्य - ततो नित्य-सूरिभिः प्रत्युद्गमय्य - महा-गो-पुर-द्वार-समीपं गमयित्वा - तत्रत्य, इन्द्र-प्रजापत्य्-आख्य-द्वार-पालाभ्यां, दिव्य-द्वारक-वाटातिक्रमण-पूर्वकं श्री-वैकुण्ठ-नगरं प्रवेशयेत्, अ-प्राकृतैः राजोपचारैर् अर्चयित्वा, राज-वीथी-गमन-समये, तत्रत्यास् सूरयः स्व-स्व-गृहेषु मुक्तम् आनीय यथोचितं पादौ प्रक्षालयेयुः।

[[150]]

देशान्तर-गत-पुत्र-सन्दर्शन-जनितानन्दवत्यो मातर इव श्री-भूमि-नीला-देव्यो ऽपि, एतद्-दर्शन-जनित-प्रीत्य्-अतिशयात्, शरत्-काल-परिपूर्ण-चन्द्र-मण्डल-सदृश-दिव्यासन-शालिन्यः, स्वीय-परिचारिका-सहिताः, स्व-परम-धन-भूत-भगवत्-पादुका-युगल, दिव्य-चूर्ण-पूर्ण-कुम्भ-मङ्गल-दीपादि-सत्-करणोपकरणैस् सह प्रत्युद्गच्छेयुः। सर्वेश्वरो भगवान् श्रियः पतिर् अपि, एतं मुक्तं प्रत्युद्गम्य हिरण्मय-दिव्य-विमान-समीपं गमयेत्। तत्र ब्रह्म-यशांसि एनं प्रनिशेयुः। ततो मुक्तः, निरवधिक-परमानन्द-नित्य-मुक्त-स-सेवितं सर्वेश्वराधिष्ठितम्, आनन्दमय-मण्टपम् आसाद्य तत्रत्यैः, कुमुदादि-दिव्य-पार्षदैः चणादि-द्वार-पालकैश् च स-स्नेह-बहु-मानम् आलोकितः, विष्वक्सेन-नियुक्तेन आस्थान-निर्वाहकेनाहूतः पदे पदे प्रणमन् उत्तिष्ठन् प्रणमंश् च मण्डप-मुख-भागम् आरुह्य, तत्र सुमेरु-सदृशं विग्रहं त्रयीम् अयं दिव्य-दम्पति-मणि-दर्पणायमानं भगवद्-अभिमुखम् अवतिष्ठमानं गरुत्मन्तं पादयोः प्रणम्य, मण्टप-मध्ये भगवद्-गुणेष्व् ऐकैकश्यात् स्वैस् स्वैर् अनुसन्धीयमानम् एवम् एव गुणं सर्वाधिकं प्रतिपादयतां वाद-विवादम् अपि विरचयतां भगवद्-गुण-गण-वर्णनैक-प्रणयिनां नित्य-सूरीणां पङ्क्ति-बद्धां गोष्ठीं मध्येन प्रविश्य, चिराभिलषितस्य भगवद्-अन्तरङ्ग-जन-संवाद-स-मनो-रथस्य सम्पत्त्या कृतार्थः, ततो दिव्य-परिजन-परिच्छदाभरणायुध-देवताः स्व-साधारण-लक्षण-विशिष्ट-विग्रहैः यथा-स्थानं भगवन्तं परिचरन्तीस् संसेव्य, समभिवृद्ध-सर्व-विध-कैङ्कर्य-मनो-रथः, शेष-पर्यङ्क-समीपं गत्वा, तत्र सुमुखेन भगवता विरचितायाः कृषेस् स-फलतया पूर्ण-मनो-रथान् सन्तुष्टास्तरङ्गान् स्वाचार्यान् कृत-ज्ञता-प्रकाशन-पूर्वकं प्रणम्य, दिव्य-पर्यङ्क-समीपम् उपसृत्य, तत्र दिव्य-सिंहासने अष्ट-दल-दिव्य-पद्मस्याष्टसु दलेषु प्राग्-आदि-क्रमेण विमलादीर् अष्टौ, कर्णिका-पूर्व-भागे अनुग्रहां च संसेव्य -

[[151]]

तत्-तत्-पद्म-मध्ये कर्णिकोपरि दिव्य-योग-पर्यङ्के सहस्र-फणा-मणि-शोभितम् अन्-अन्तं नाग-राजं सेव्य - अन्-अन्त-भोगिनि, शेष-शेषाशनादि-सर्वं परिजनं भगवतस् तद्-अवस्थोचित-परिचर्यायाम् आज्ञापयन्त्या, शील-रूप-गुण-विलासादिभिर् आत्मानुरूपया श्रिया सहासीनं, पुण्डरीक-दलामलाय तेक्षणं, दिव्यायुध-दिव्य-भूषणैर् भूषितम् आकुङ्चित-दक्षिण-पादं, प्रसारित-वाम-पादं, दक्षिण-जानु-न्यस्त-प्रसारित-दक्षिण-भुजं, नाग-भोगे विन्यस्त-वाम-भुजं, भूम्या नीलया च संसेवितं, निरतिशय-भोग्यं, वासु-देवाख्यं श्री-वैकुण्ठ-नाथ-संसेव्य ततो दिव्य-भूषण-दिव्यायुध-भूषितान् तदीयान् अवयवान् प्रत्येकशो ऽनुभूय - ततः, श्री-शठकोपाख्य-पादुका-निवेश-स्थान-भूत-पाद-पीठ-पर्यन्तं गत्वा - अत्यन्त-साध्व्-अविनयावनतो भूत्वा पुनः पुनः प्रणम्य - माम् ऐकान्तिकान्त्यन्तिक-परिचर्याकरणाय स्वीकरुष्वेति याचमानः, ततो भगवता स्वयम् एवात्म-सञ्जीव-सेनावलोकनेनावलोक्य, समस्त-क्लेशाप-हीन-निरतिशय-सुखावहेनात्मीय-श्रीमत्-पादारविन्द-युगलेन शिरस्य् अलङ्कृतः, भागवत-कैङ्कर्य-भगवत्-कैङ्कर्य-साम्राज्य-योग्यतां प्रापितः, अमृत-सागरान्तर्-निमग्न-सर्वावयव इवानन्द-निर्भरस् तत्-पादारविन्द-युगलम् एवावलम्ब्य तत्-पर्यङ्कम् आरुह्य - अङ्कागत-कुमार-न्यायेन भगवता ऽनुमोदितो भगवतस् सहज-सौहार्देनापहत-पाप्मत्वादि-रूप-गुणाष्टकाविर्भावं प्राप्तस् समुक्तः, भगवता स्वस्य दिव्य-चरित्राणि, एतन्-मुखाच् छ्रोतव्यानीत्य् अभिसन्दधता “को ऽसि” इति पृष्टः, नित्य-संसार्य्-अवस्थातो नित्य-सूर्यवस्थां प्रापयितुर् भगवतो ऽप्रतीकार-महोपकारं स्मृत्वा वक्ष्यमाण-प्रकारेणोत्तराणि विज्ञापयेत् :-

[[152]]

अन्-आदि-कालं संसारार्णवे सम्यङ् मग्नस् त्वद्-दान-भूतो ऽहम्,इदानीं भवतो दिव्यात्म-स्व-रूपानुभव-रूपार्णवे मग्नो ऽस्मि।
मदीय-स्व-रूपं सर्व-जगद्-आत्म-भूत-भवत्-स्व-रूपाधीनं, मदीय-प्रवृत्ति-निवृत्ती भवत् सङ्कल्पाधीने, मदीयो भोगः भवद्-भोगाधीन इति चाज्ञासिषम्।
मकार-विवरण-प्रतिपादित-निरुपाधिक-भवद्-दास्ये नित्यं स्थित्वा स्व-रूप-प्राप्तेषु त्वत्-कैङ्कर्येषु नित्य-सूरिवद् अ-प्रतिहत-स्वातन्त्र्यं प्राप्तवान् अस्मि।
सर्वाणि जगन्ति,अहञ् च, त्वत्-कैङ्कर्योप-करणानीतीदानीम् अवागच्छम्,।
सर्वात्मनाम् ऐश्वर्य-कैवल्यानुभव-रसाः मदीय-त्वद्-अनुभव-रस-लेशेनापि यथा न सदृशास् तथा नाम महनीयम् अपर्याप्तं भवद्-अनुभवम् उपलभ्य भोक्ता भोग्यं चाहम् इदानीम् आसं,
“यतो वाचो निवर्तन्त" इत्य् उक्त-रीत्या श्रुतिभिर् अपि वर्णयितुम् अशक्यान् भवतो गुणान् समग्रम् अनुसन्धातुम् उपश्लोकयितुं च समर्थः कृतो ऽस्मि।
इतः परं त्वम् एव मया पुनर् आवृत्ति-रहितम् अ-विश्रान्तं कैङ्कर्यं कारय

इति, एवं विज्ञापयति मुक्ते तच् छ्रुत्वा, श्रियः पतिः अ-विमुक्तस् तस्य पान-रस-मुग्ध-शिशु-प्रथम-जल्पितं श्रुत्वेव परमानन्द-निर्भरायाः “जगत्-समस्तं यद्-अपाङ्ग-संश्रयं” “यस्यावीक्ष्य मुखं” “यद्-भ्रू-विभ्रम-भेदतः” इत्य् उक्त-वैभव-शालिन्याः, अ-खिल-जगन्-मातुश् श्रीयो-मुखं साभिप्रायं वीक्ष्य, एकाभिप्रायया तया सह मुक्तं कटाक्षयित्वा, तया सह, तं, अन्-अवधिक-कृपया ऽनुगृह्णाति। एवं, परम-शेषिणोर् भगवतोर् दिव्य-दम्पत्योः कृपां प्राप्तस् समुक्तः, पर-भक्ति–पर-ज्ञान–परम-भक्ति-युक्तः, परिपूर्णोत्तरावधि-रहित-विशदतमानन्य-प्रयोजनानवधिक-प्रिय-भगवद्-अनुभव-जनित, निरतिशय-प्रीति-परीवाह-भूत-कैङ्कर्यैक-मनो-रथः, ऐकान्तिकात्यन्तिक-नित्य-किङ्करः, सर्व-देश-सर्व-काल-सर्वावस्थासु सर्व-विध-कैङ्कर्याणि सर्व-विध-शरीरैर् अनुभूय, अन्-अवधिकातिशयानन्द-महार्णव-निमग्नो भवति।

[[153]]

इत्य् उक्त-मुक्त-निरतिशय-दशां यथा-शक्ति, यथा-मनो-रथम् अनुसन्दधान एव सुखम् आसीनो निद्रा-समागम-पर्यन्तं भगवद्-ध्यान-रसास्वादेन स्वात्मानं कृतार्थयन् आसीत।

ततो निद्रा-प्रसक्तौ, पृथिवीम् आरभ्य प्रकृति-पर्यन्तानि तत्त्वानि भगवद्-आराधनारम्भोक्त-रीत्या स्व-स्व-कारेण संहृत्य - प्रकृतिं तमस्य् उपसंहृत्य, तमो जीव उपसंहृत्य, जीवं परमात्मन्य् उपसंहृत्य - विविध-व्यापार-निरतस्य भगवत्-कैङ्कर्योपकरण-भूतस्येन्द्रिय-वर्गस्य विश्रान्त्य्-अर्थं स्वयम् उपनतान् निद्रां अनिवारयन्।


  1. त्रि-स्थूणम् = मुदुगिल् वंशम् एन्ऱुम् पेर् उडैय
    प्रधानम् आन एलुम्बु मून्ऱै।
    क्षोभदशायां = कडैगिऱदशैयिल्। ↩︎

  2. नव-रन्ध्राणि, नाभिः, शिर-स्थित-ब्रह्म-रन्ध्रं च ↩︎

  3. विदुषां, अतिवाहे (गच्छतां, मार्ग-प्रवर्तने) परम-पुरुषेण नियुक्ता अतिवाहिकाः देवता-विशेषा एते ऽर्चिरादयः ↩︎