ततो योगं1 कुर्यात्
तस्य अङ्गान्य् अष्ट
तत्-प्रकारः -
-
१ यमः - (मनसः, एकत्रैव, अवस्थापकं योगाङ्गम्) एतद्-अङ्गानि पञ्च
- १ ब्रह्म-चर्यं(योषित्सु भोग्यता-बुद्धि-युक्तेक्षणादि-रहितत्वम्)
- २ अहिंसा (अ-प्राणि-पीडा)
- ३ सत्यं (भयादेर् अ-हेतु-भूतं वाक्यम्)
- ४ अ-स्तेयम् (अ-चौर्यम्)
- ५ अ-परिग्रहः (निषिद्ध-द्रव्याणाम् अन्-आदानम्)
-
२ नियमः - (योगाभ्यासिनः पुरुषस्य नियामकं योगाङ्गम्) एतद्-अङ्गानि पञ्च
- १. सन्तोषः (विषय-त्यागः)
- २. शौचम् (अ-भक्ष्य-परिहारानिन्दित-संसर्ग-स्व-धर्म-व्यवस्थानानि)
- ३. तपः (उपवासादि) ४.स्वाध्यायः (वेद-वेदान्त-तद्-अङ्गावलोकनादिः)
- ५.प्रणिधानं (पर-ब्रह्मणि चित्तासक्तिः)
३ आसनम्-
भगवत्-सन्निधौ, अन्यत्र वा,
विविक्ते, गो-मयेनोपलिप्ते शुचौ देशे
दर्भानास्तीर्य दार्व्-आसनं निधाय
तद्-उपर्य् अजिनं,
तद्-उपरि वस्त्रं निधाय
प्राङ्-मुख उपविश्य
स्वस्तिक-गो-मुख-बद्ध–पद्म-वीर-सिंह-भद्र-मुक्त-मयूराद्य्-आसनेषु
स्वाभिमतेन केनचिद् आसनेन स्थित्वा
गुरून् भगवन्तं च प्रणम्य
भूत-शुद्धिं कृत्वा
काय-शिरो-ग्रीवा-सक्थि-वक्ष-स्थलानि समानि कृत्वा
दृशौ नासाग्र-न्यस्ते विनिमीलित-लक्षणे कृत्वा
तालु-तल-स्थां जिह्वां दशनावलेर् अन्तरे ओष्ठ-पुटाव् ईषल्-लग्नौ च कृत्वा
ऊरु-मध्य-प्रदेशयोर् बाहु-कूर्परौ धृत्वा
दक्षिणोत्तरौ पाणी-कृत्वा
योग-पट्टेनाखिलं विग्रहं सन्धार्य
अपान-देशं निरुध्योर्ध्वं तं एव विकास्यैवम् अवस्थानम्।
४ प्राणायामः2
स च, रेचक-पूरक-कुम्भकावस्था-त्रय-समाश्रितः,
तत्र रेचको नाम, कनिष्ठानामिकाभ्यां वाम-नासिकां रुद्ध्वा
नेत्रे सम्यङ् निमील्य
दक्षिण-नासया(उच्छ्वासेन मुख-नासाभ्यां बहिर् निर्गच्छत्) प्राण-वायु-बहिर् विसर्जनं;
पूरको नाम, अङ्गुष्ठेन दक्षिण-नासिकां सम्यग् रुद्ध्वा वाम-नासयान्तरे बाह्य-वायु-पूरणं
कुम्भको नाम, अङ्गुलीभिस् ताभिर् एव नासिका-द्वयं रुद्ध्वा - ओष्ठाभ्यां, अन्यं रुद्ध्वा
प्राण-वायु-बाह्य-वाय्वोर् युगपद्-बन्धनम्।
एते त्रयो ऽपि *मात्रा-भेदाद्3 उत्तम-मध्यमाधमा भवन्ति।
तत्रोत्तमः षट्-त्रिंशन्-मात्रकः।
मध्यमः चतुर्-विंशति-मात्रकः।
अधमः द्वादश-मात्रकः।
अत्रैव कुम्भकावस्थायां, मूल-मन्त्रस्य पञ्चविंशत्य् अभ्यस्तस्य मनसोच्चारणम्।
[[146]]
५ प्रत्याहारः - शब्दादि-विषयेषु सञ्चारिभिः, चक्षुरादिभिस् सह, तेभ्यो विषयेभ्यः मनस् समाकर्षणम्।
६ धारणा -
प्रसन्न-वदने पुण्डरीक-दलामलायतेक्षणे,
सुकुमार-कपोले,
सुविस्तीर्ण-ललाट-फलकोज्ज्वले,
सम-कर्णान्त-विन्यस्त-चारु-कुण्डल-भूषणे,
उल्लासातिशय-मनो-ज्ञ-भ्रूलते,
प्रवालातिशाय्य्-अधर-बिम्बे,
शङ्खाभिराम-कण्ठे,
शङ्ख-चक्र-गदाऽब्ज-केयूर-कटकादि-विभूषितात्युज्ज्वल-चतुर्-बाहौ
अतिकोमल-दिव्य-रेखालङ्कृता-ताम्र-कर-तले,
दिव्याङ्गुलीयक-विराजितातिकोमल-दिव्य-नखावली-विराजितातिरक्ताङ्गुलीभिर् अलङ्कृते,
सुविस्तीर्ण–श्री-वत्स–कौस्तुभ-मुक्ताहार–वन-माला–लक्ष्मी-परिष्कृत–वक्षसि,
वलि-त्रि-भङ्गिना निमग्न-नाभिना
दिव्य-मुक्ता-दामोदर-बन्धन-काञ्चि-गुणादिनोदरेण विराजमाने,
कदली-प्रकाण्ड-रुचिर-समस्थितोरु-युग्मे,
मणि-दर्पणायमान-जङ्घा-युग्मे,
तत्-क्षणोन्मीलित-पुण्डरीक-सदृश-शङ्ख-चक्रादि-रेखा-लाञ्छित-चरण-युगले,
अतिमनो-हर-किरीट-मकुट-चूडावतंसे,
विमल-पिताम्बरे,
युगपद्-उदित-सूर्य-सहस्र-तेजसि,
शुद्ध-सत्व-मये,
श्रियः पत्यौ नारायणे पर-ब्रह्मणि,
आत्म-मानसस्याचञ्चलत्वेन स्थापनम्।
७ ध्यानं -
धारणासिद्धास्त्र-भूषणादि-विशिष्ट-दिव्य-मङ्गल-विग्रह-विषयिणि
विजातीय-प्रत्ययानन्तरिता स्मृति-सन्ततिः।
८ समाधिः -
पूर्वोक्तास्त्र-भूषणादि-विशिष्ट-दिव्य-मङ्गल-विग्रहवत एव भगवतः,
नाम-रूपापक्षय-विनाशादि-राहित्येन स्व-रूप-ध्यानम्।
एवं कर्तुम् अ-शक्तः
अर्चिरादि-मार्गेण श्री-वैकुण्ठ-गति-प्रकारं चिन्तयेत्।
[[147]]