सुप्रक्षालित-पाणि-पादस् स्वाचान्तश् शुचौ देशे, प्राङ्म-मुखः, आसीनः त्रिः प्राणानायम्य -
कृतञ् च करिष्यामि भगवन् नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन योगेन भगवत्-कर्मणा भगवन्तं वासुदेवं अर्चयिष्यामि
इति सङ्कल्प्य -
भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि भगवतो वासुदेवस्य
इति बल-मन्त्रम् अनुसन्धाय -
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं योगाख्यं, कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारयति
इति सात्त्विक-त्यागं कृत्वा -