०९ समाप्तिः

ततः, दिवेव, मन्त्र-जपं, रात्रि-योग्य-वेदाध्ययनं
“रात्रौ चोर-प्रसङ्गेन” इत्य् उक्त-रीत्या श्रीमद्-भागवतादि-सात्विक-पुराण-पठनं च कुर्यात्।

भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं, स्वाध्यायाख्यं, कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान्

इति सात्त्विक-त्यागं कृत्वा -

कृतञ् च करिष्यामि भगवन् नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन स्वाध्यायेन भगवत्-कर्मणा भगवान् प्रीयतां वासुदेव

इति स्वाध्यायं भगवति समर्पयेत्।

[[144]]