०७ अभिगमनम्, आराधनम्

ततः, प्रातर् अभिगमन-रीत्या सायं भगवन्तं शरणम् उपगच्छेत्, तत्रत्य “एतत्-क्षणोत्तर-कालीन” इत्य् आरभ्य “रूप-रक्षायाम्” इति पर्यन्तस्य स्थाने

प्रातर्-अभिगमन-पर्यन्त-भगवत्-कैङ्कर्योत्पादन-रूप-रक्षायाम्

इति वाक्यं प्रयुज्य, अनुसन्धेयम्।

स्नानासनं विना, इज्या-कालीन आराधनवत् आराधनं कुर्यात्।
तद्-अ-शक्तौ,
अलङ्कारासन-अर्घ्य-पाद्याचमन-गन्ध-माल्य-पुष्प-धूप-दीप-मात्रा-दान-
भोज्यासन-पाद्याचमन-अर्हणाम्बु-समर्बण-हविर्-निवेदन-
पुनर्-मन्त्रासनान्तं कुर्यात्।

पर्यङ्कासन-पाद्याचमनीयानि समर्प्य
क्षीराज्य-शर्करोपेत-नैवेद्यं समर्प्य
नमस् कृत्य, नाग-भोग-समन्विते पुष्प-धूपैर् आमोदिते योग-पर्यङ्के श्री-भूमि-नीलाभिस् सह भगवन्तं शाययेत्।
नीराजनं कृत्वा
अर्ध्यं समर्प्य
चक्राद्यैर् अस्त्रैः वैनतेयेन च दशसु दिक्षु रक्षां ध्यात्वा
देव-गृहाद् वाम-पाद-विन्यास-पूर्वकं बहिर् गच्छेत्।

ततः, देवालयं गत्वा श्रियः पतिं विमान-स्थं पश्येत्।
तद्-अ-सन्भवे विमानं, गो-पुरं वा पश्येत्।

[[143]]