जपित्वा आचम्य सात्विक-त्यागं कुर्यात्।
प्रदोष-रात्रौ अष्टाक्षरं नैव जपेत्।
प्रदोष–अन्-अध्याय-रात्रिषु आपदि च, गायत्री-जपस्य सङ्कोचः कार्यः।
तत्-प्रकारस् त्व् इत्थं - प्रतिपत्-पौर्णमासी-अमावास्या-रात्रिषु, षट्-त्रिंशत्-सङ्ख्यया; चतुर्थि-अष्टमी-चतुर्दशी-रात्रिषु, चतुः-पञ्चाशत् सङ्ख्यया; सप्तमी-रात्रौ,सप्त-त्रिंशत्-सङ्ख्यया; विष्व्-अयन-त्रयोदशी-रात्रिषु अष्टाविंशति-सङ्ख्यया, गायत्री-जपं कुर्यात्।
महा-प्रदोषाख्ये त्रयोदशी-प्रदोषे,
दिवसस्याष्टम-भागम् आरभ्य, अर्ध-रात्र-पर्यन्तं
गायत्री-जप–सायम्-औपासन–वैश्वदेव–
सायम्-अभिगमन–भगवद्-आराधन-व्यतिरिक्त-दशायां,
आत्मनो हितम् अ-चिन्तयन्,
काष्ठवन् मौनं कुर्यात्।
श्राद्ध-भोजन-रात्रौ, आशौच-दिने, आपदि च
दश-सङ्ख्यया1 गायत्री-जपं कुर्यात्।
विमान-स्थं देवं प्रदोषे, स्व-गृहार्चाम् अर्ध-रात्रे,
न पश्येन् न प्रणमेत्।
प्रदोषे ऽपि नृ-सिंहस् सेव्य एव -
आस्थान-मण्टपे वीथ्यां तु सर्वदा पश्येत् प्रणमेच् च।
[[142]]
-
गायत्री-जपः कदाचिद् अपि दश-न्यूनो न कार्यः। ↩︎