०३ कार्यान्तरम्

तद्-अन्-अन्तरं, बन्धु-जन-कार्यं, आत्म-कार्यं, गृह-क्षेत्रादि-चिन्तनं च कुर्यात्।
आत्म-पोष्य-रक्षणार्थं यावन्ति धनानि सम्पादनीयानि
बह्व्-आयास-वर्जं शास्त्राविरुद्ध-मार्गेण
यदृच्छा-प्राप्तानि तावन्ति धनान्य् एव लब्ध्वा सन्तुष्येत्।