चतुर्-मुख-प्रसाद-विदित–सकल-वेद-तद्-उपबृह्मणार्थेन
स्व-योग-महिम–साक्षात्-कृत–परावर-तत्त्व–याथात्म्येन
वाल्मीकि-महर्षिणा लोकानुग्रहाय प्रणीतं
“वेदः प्राचेतसाद् आसीत्” इत्य्-आदिना सर्वाभ्युपगत-वेदापर-पर्याय-महिमानं,
“मध्याह्ने स्त्री-प्रसङ्गतः” इत्य् उक्त-रीत्या स्वाध्याय-काले,
अवश्य-पठनीयतया सङ्गृहीतं श्रीमद्-रामायणाख्यम् इतिहासं
शरणागति-सार-भूतं सार्थम् अनुसन्दधीत।
अर्थानुसन्धानाशक्तौ श्रीमद्-रामायण-ग्रन्थ-मूल-मात्र-पारायणं कुर्यात्।
तथा मनु-पराशर-व्यास-शुक-शौनकादि-परम-ऋषि-प्रणीत–
भगवत्-प्रीणन–स्व-चित्त-रञ्जकेतिहास-पुराण-परिशीलनं कुर्यात्।
उपबृह्माण-निरपेक्षाधिकारी वेद-भागम् एव चिन्तयेत्।
तत्रापि साक्षात् भगवत्-प्रतिपादक-भागम् एव चिन्तयेत्।
तथा वेदान्त-द्वय-व्याख्यान-सापेक्षाधिकारी व्याख्यानेन सह,
तन्-निरपेक्षाधिकारी-मूल-मन्त्रं च चिन्तयेत्।
श्रीमद्-भाष्य–भगवद्-गीता–तद्-भाष्य–
श्रीमद्-रहस्य-त्रय-सार–
स्व-योग-महिम–साक्षात्-कृत–
निगमान्त-श्रीमत्-पराङ्कुश-परमाचार्य-प्रणीत–द्रामिड-गाथा-सहस्र-संहिता–
तद्-व्याख्यान-परिशीलनं,
अन्-असूयुभ्यः, परावर-तत्व-निर्णयाभिलाषिभ्यः, वीत-रागेभ्यः, प्रश्रितेभ्यः स्व-शिष्येभ्यः
निगमान्त-तद्-व्याख्यान-प्रवचनादिकं कुर्यात्।
परिपूर्ण-ज्ञान-उपबृह्मण-निरपेक्षाधिकारी
भगवत्-प्राप्ति–तद्-उपाय-प्रतिपादक-द्वादशाक्षर–षड्-अक्षर–द्वय–मूल-मन्त्रादि-भगवन्-मन्त्र-जपं कुर्यात्।
तद्-अशक्तौ, सर्व-काल-कीर्तनीयानि भगवन्-नामानि सङ्कीर्तयेत्।
अन्-अध्याय-दिनेषु वेदाभ्यास-निषेधात्
स्मृतीतिहास-पुराण-पठन-मन्त्र-जपादिकं कुर्यात्।
आशौच-दिने तेषाम् अपि निषेधात्
भगवन्-नाम-कीर्तनं कुर्यात्।+++(5)+++
[[138]]
तद् एवं, यथाधिकारं, यथा-सम्भवं,
सम्भूय वा पृथग् वा
भगवत्-प्रीणन–स्व-चित्त-रञ्जक–यौगिक-ज्ञान-प्रदीप-स्नेहायमान–
वाचिक-पापोदय-प्रतिबन्धक–इतिहास-पुराण–भगवत्-स्तोत्र–
निगमान्त–द्वय–तद्-व्याख्यान-ग्रन्थ–श्रवण-मनन-प्रवचन–
सत्-संवाद–व्यापक-मन्त्र-जपादयः, अनुष्ठेयाः।