+०४ इज्या-प्रकरणम्

कृतञ् च करिष्यामि भगवन् नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन इज्यया भगवत्-कर्मणा भगवन्तं वासुदेवम् अर्चयिष्यामि

इति सङ्कल्प्य

भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि भगवतो वासुदेवस्य

इति बल-मन्त्रम् अनुसन्धाय -

भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदम्, इज्याख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारयति -

इत्य् अनुसन्धाय -