सह भुक्तवद्भ्यः, भगवन्-निवेदितं ताम्बूलं दद्यात्। ततः स्वयं च चर्वेत्। एकं क्रमुकं, क्रमुक-त्रयं, अधिकं वा दद्यात् न क्रमुक-द्वयं। ताम्बूल-चर्वणदशायां नाग-वल्ली-दलम् आस्यान्तरे निधाय - अन्-अन्तरं, खण्डित-क्रमुकं च निधाय - अग्र-सिरा-मूलोभय-पार्श्वाग्र-वर्जं, स-शोधित-चूर्णं, क्षालित-नाग-वल्ली-पर्णं चर्वेत्। चूर्णं, नाग-वल्ली-दलस्य पृष्ठ एव घर्षेत् नान्तर्-भागे। चूर्णाधार-पर्णं, क्षीण-पर्णं, यमल-पर्णं च न भक्षयेत्। पर्ण-द्वयम् एकी-कृत्य च, न भक्षयेत्। एकादश्यां, पितृ-दिनेषु च ताम्बूलं वर्जयेत्।
भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदम् इज्याख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान् -
इति सात्त्विक-त्यागं कृत्वा -
कृतञ् च करिष्यामि भगवन् नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन इज्यया भगवत्-कर्मणा भगवान् प्रीयतां वासुदेव इतीज्यां भगवति समर्पयेत् -