०५ भोजन-क्रमः

पादौ प्रक्षाल्य - द्विर् आचम्य - प्रणवेन गो-मय-जलेन भुक्ति-पात्रस्यान्यूनातिरिक्तं चतुर्-अश्र-मण्डलं कृत्वा - तत्र, जम्बू-पनस-काञ्ची-नालिकेर-पलाश1-कदली-उहिना[[??]]-पिशाचोदुम्बर-पद्म2-आम्र-पत्राणाम्, अन्यतमं शोधितं पात्रं निधाय - पान-पात्रं दक्षिण-पार्श्वे निधाय - प्राङ्-मुखत्वादि-नियम-युक्तः, आयन-अजिन-व्यतिरिक्ते आसने उपविशन् पादाभ्यां कराभ्याम् आस्येन च पञ्चभिर् आर्द्रः, वर्तुल-दर्भ-पवित्रम् अनामिकायां धृत्वा - पत्न्य्-आदिभिर् दर्व्य्-आदिना परिविष्टम् अन्नं, आज्य-सिक्तं, दृष्ट्वा - प्राञ्जलिः “अस्माकं नित्यम् अस्त्व् एतत्” इत्य् उक्त्वा - हस्तेन, अन्नं, पाद्येन शुद्ध-जलेन वा

[[130]]

व्याहृतिभिः प्रोक्ष्य - शोषणादिभिर् विशोध्य - व्याहृतिभिः मूल-मन्त्रेण अन्यैश् च पावन-मन्त्रैर् अभिमन्त्र्य - अन्तर्यामिणे निवेद्य - पर-गृहे चेत् स्वार्चायै प्रथमं निवेद्य - ततोन्तर्यामिणे निवेद्य - प्रणव-व्याहृतिभिः हस्तेन अन्नम् अन्-उल्लङ्घयन् पात्रे जलं पातयन् प्रथम-परिषेचनं कृत्वा - भार्यादि-दत्तेन, अर्घ्य-जलेन “स॒त्यन्त्व॒र्तेन॒ परि॑षिञ्चा॒मि”3 इति द्वितीय-परिषेचनं कृत्वा - कुक्कुटासन-संस्थितः, पादाभ्यां पादेन वा भूमिं स्पृष्ट्वा, वाम-हस्ताङ्गुष्ठ-तर्जनी-मध्यमाभिः वाम-भागे पात्रं स्पृष्ट्वा - अन्नस्य दक्षिण-भागे पर-दत्तेन पाद्येन “अ॒मृ॒तो॒प॒स्तर॑णमसि” इति मन्त्रेण निश्शब्दम् आपोशनं कुर्यात्। आपोशनार्थं जले पूरिते पुनर् न पूरयेत्। साङ्गुष्ठ-मध्यमानामिकाभ्यां, अमलक-प्रमाणम् अन्नं प्राग्-आदि-चतुर्-दिक्षु मध्ये च गृहीत्वा -

ॐ प्राणाय स्वाहा - ॐ अपानाय स्वाहा - ॐ व्यानाय स्वाहा - ॐ उदानाय स्वाहा - ॐ समानाय स्वाहा [[TODO: परिष्कार्यम्]]

इति क्रमेण पञ्च-प्राणाहुतीर् हुत्वा - मनसा “प्राणायेदं न मम” इत्यादि, उद्देश्य-त्यागं तदा तदा कृत्वा - दन्त-स्पर्श-वर्जं, पृथक् पृथङ् निगीर्य “ब्रह्म॑णिम आ॒त्मामृ॑त॒त्वाय॑” इति उच्चार्य ततो वाम-हस्तं प्रक्षालयेत्। तावत् पर्यन्तं काष्ठवन्-मौनी स्यात् - अन्-अन्तरं, भार्या ऽन्यो वा शास्त्राविरुद्धानि4 भगवन्-निवेदितानि आत्मनश् चेष्टानि परिवेषेत्। अन्नोपदंशाद् या नयनार्थां निषेधार्थां वा वाचं वदेत्।

[[131]]

अतिथीन् प्रसाद्य तद्-अनुज्ञातो भुञ्जीत। सह भुञ्जानान् वाचोपचरेत् - तद्-अर्थे वाचं विसृजेत् - नान्यार्थं, यदि कामाद् विसृजेत् तदा “भूर् भुवस् सुरर् ओम्” इति जपित्वा शेषं भुञ्जीत - वक्त्र-निस्सृतं भुक्त-शिष्टं, कबल-शेषं, न पुनर् भुञ्जीत - पात्रे च न मिश्रयेत्। अपूप-शाक-मूल-फलादीन् हस्तेनैव अपच्छिद्य भक्षयेत् - न तु दन्तैः। प्रत्यक्ष-लवणं वर्जयेत् - तैल-पक्वम् अ-पक्वं वा दर्व्या न दद्यात्। अन्न-व्यञ्जन-पानीय-दधि-क्षीर-घृतानि हस्तेन न दद्यात् - दद्याच् चेत् पर्णादिकम् अन्तरे कृत्वा दद्यात्। ओदन-व्यञ्जनादिषु दोषोक्तीर् न वदेत्। देव-सदने, तमसि, अन्-आवृत-स्थले, हर्म्ये, भूमौ, शून्य-गृहे च, न भुञ्जीत।

१. जाति-दुष्टम् -

द्राविडम्

वेङ्गायं - वेल्लेय् प्पूण्डु - उल्लि - मुल्लाङ्गि - वेण् कत्तारि - शुरैक्काय् - मुरुङ्गै - तानि काट्टुक्करणै - अम्मणन्दाल् - शिऱंकाञ्जोरि - शिवन्दअकत्ति - कुम्मट्टि - पनंपलं - मूङ्गिल् कुरुत्तु - तेतांकोट्टै - आलै - अत्ति - कोन्नै - पीर्कङ्गाय् - शणक्कीरै - शिऱंकीरै - पेय्प्पिडल् - कोट्टिक्कि - लिंगु - मण्णुप्प - पुण्णाक्कु - शिवंद पेरुङ्कायं - काडि - कोवै - नाय्क्कुडै - अरशु - कुरिञ्जि - शिल् लवरै, गञ्जा - कम्बु - शोलं - वरकु - कुसुम्बै - केल् वरकु - एल्लु, उलुन्दु, इवैतविर कृष्णधान्यङ्गल् - किलिञ्जल् शुण्णाम्बु, मुदलानवैकल्,

२. क्रिया-दुष्टम् -

द्राविडम्

ऋतुस्नानदिनत्तिल् स्त्रीयाले तोडप्पट्टदुं, पञ्चसंस्कारमिल्लादवर् कलाले पक्वमानदुमान अन्नं - कैयालेको अप्पप्पट्ट तयिर् - वायाले ऊदप्पट्टदुं अन्यर् कैयिनाल् कलैक्क प्पट्टदुं वस्त्रत्तिनाल् वडिक्कट्टप्पडाददुमान बलं - पुनःपाकं पण्णिन अन्नं - विक्रयिक्कप्पट्ट अन्नं - शुट्टउप्पु - मोर् तविर सारं एडुक्कप्पट्टु निस्सारमान पदार्थङ्गल् - रात्रियिल् दीपमिल्लामल् निला अग्नि इवैगलुडैय वेलिच्चत्तिल् भुजिक्कप्पट्ट अन्नं - भोजनमध्यत्तिल् परिमाऱप्पट्टवेय् - नखत्तालेकीण्डवै - पिता महाचार्यन् मूत्ततमयन् भर्ता इवर् कलुडैय एच्चिल् तविर मल् अवर् कलाल् एच्चिल् पण्णप्पट्ट पदार्थङ्गल् - काय् च्चिन इलनीर् मुदलानवैकल्

[[132]]

रात्रौ, अहनि वा द्विर् न भुञ्जीत - अपर-रात्रे, अर्ध-रात्रे, आह्नो मध्य-भागे वा न भुञ्जीत।

३. काल-दुष्टम् -

द्राविडम्

मून्ऱुवरुषत्तुक्कु मेल्पट्टु पलिशान धान्यङ्गल् - ओरुमा सत्तुक्कु मेल्पट्टु पलिशान अरिशि, वेल् हिलै, ओरुपक्षत्तुक्कु मेल्पट्टुपलिशाननेय् एण्णेय्, पयत्तम्परुप्प - ओरुपक्षत्तुकु मेल्पट्टु उपयोगप्पट्ट मण् पात्रङ्गलिले पक्वमान पदार्थङ्गल् - ओरुनालैक्कु मेल्पट्टु वैत्तजलं - ओरुरात्रिक्कु मेल्पट्टुवैत्त पक्वमानपदार्थंङ्गल् - (अडियिल् शोल्लप्पट्ट पदार्थङ्गलुकु पर्युषितत्व दोषमिल्लै - पाल् - उप्पु - पाक्कु - मञ्जल् - वत्तल् - वडां - नऱुत्त अरिशि - तुवरै - पयर् मुदलानवै - शुण्णम्बु मिलकु - ऊऱु काय्कल् - इञ्जि - वेल्लप्पाकु - मावोडु शेर्कप्पट्ट तयिर् - अवल् - क्षीरान्नं - पोरि - जलत्तिल् शेर्कप्पट्ट अन्नं - एण्णेय् नेय् तयिर् इवैगलिल् एदिनोडेयावदु कूडिन अन्नं - पल्लिंगल् - तिरट्टुप्पाल् - मरुन्दु - पुनः पाकम्पण्णिन शाकंगल् -) अकालत्तिल् उण्डु पण्णप्पट्टफलङ्गल् - प्रथमैतिथियिल् पूशनिक्काय् - द्वितीयै तिथियिल् कत्तारिक्काय् - अष्टमीतिथियिल् तेङ्गाय् - दशमीतिथियिल् पुडलंगाय् - एकादशितिथियिल् अवरैक्काय् - त्रयोदशितिथियिल् एल्लु - चतुर्दशितिथियिल् पुलि - सप्तमि, नायिल् मुक्किलमै, इन्ददिनङ्गलिल् नेल्लिक्काय् - पकलिल् पाल्, विलांपल्लिं, पोरि - रात्रियिल् एल्लुकलन्द पदार्थङ्गल्, तयिर्, मावु, तेन्, वल्लेण्णेय्, इंजि - पितृदिनङ्गलिल् कल्याणपूशिनिक्काय्, कत्तारिक्काय्, पच्चैमिलकाय्, पाडलङ्काय्, कोत्तमल्लि, पेरुङ्कायं,एलुमिच्चंपल्लिं, एरुमैप्पाल्, तुवरम्परुप्पु कडुकु, कडलै, कारामणि, कोल्लु, वेल्लवरैक्काय्, अरिक्कीरै - द्वादशि पारणैयिल् पुलि, कडुकु, उलुन्दु, पयल् एम्परुप्पु, नल्लेण्णेय् - कत्तारिक्काय्, वालैयैच्चेर्न्द ऐन्दुवकै - मदलानवैकल्।

४. संसर्ग-दुष्टम् -

द्राविडम्

उप्पोडुकूडिन नेय्, पाल् - नूल्, पुल्लु, ई, मयिर्, नखं, इवैकलिल् येदायिनुं कलन्द अन्नं - (आपत्कालत्तिल् इंद अन्नत्तै भुजिक्क वेण्डियिरुन्दाल् अदिल् पिण्डमात्रम् एडुत्तुवैत्तु विट्टु, मन् अन्नत्तै तीर्थत्तिनाल् प्रोक्षित्तु शाम्बलैयावदु मण्णैयावदु पोट्टु स्वीकरि क्कलां) सन्यासिकलुडैय भिक्षापात्रत्तिल् पट्ट अन्नं सन्यासिकलाल् कोडुक्कपट्ट अन्नं - तेङ्गाय् शेर् त्तपाल् - पुलिशेर् त्त पयिल् एम्परुप्पु - अवरै - कोत्तवरै - पुडल् - मुदलियवै।

[[133]]

तिष्ठन्न् आसनारूढ-पादः, अ-कृताचमनः, एक-वस्त्र-धरः, प्रावृत-मस्तकः, अन्यं स्पृशन्, चण्डाल-रजस्वला-शूद्रादि-शब्दं शृण्वन्, पङ्क्ति-दूषकैस् सह च, न भुञ्जीत, पाणौ, अञ्जलौ, पर्ण-पृष्ठे, मृत्-पात्रे, वस्त्रे च न भुञ्जीत। एक-पङ्क्तौ भुञ्जानेषु भोजनाद् विरम्य नोत्तिष्ठेत् - आपदि यद्य् उत्तिष्ठेत्, तदा, अग्नि-भस्म-स्तम्भ-सलिल-दर्भ-द्वार-निम्न-भूमिष्व् अन्यतमेन पङ्क्ति-भेदः कार्यः तैलेक्षु-यन्त्र-पतित-शूद्र-रजस्वला-मुसलानां यावत् कालं शब्दश् श्रूयते तावत् कालं न भुञ्जीत।

५. आश्रय-दुष्टम् -

द्राविडम्

वेण् गल पात्रत्तिल् वैक्कप्पट्ट इल् नीर् - ताम्रपात्रत्तिल् वैक्कपट्ट तेन्, नेय्, पाल् - इरुम्बु पात्रत्तिनाल् परिमाऱप्पट्ट पदार्थङ्गल् - इरुंबुपात्रत्तिल् वैक्कप्पट्ट जलं - कन्ऱुपिऱन्द पत्तु नाल् कलुक्कुल् पट्ट पशुविन् पाल् - मोर् कलन्द पाल् - शिवैप्पशुविन् पाल् - कन्ऱुशेत्तपशुविन् पाल् - वेऱपशुविन् कन्ऱिनाल् कऱक्कप्पट्टपाल् - रेट्टैक्कन्ऱुपोट्ट पशुविन् पाल् - शङ्खपात्र त्तिल् जलं - मुतलियवै।

६. निमित्त-दुष्टम् -

द्राविडम्

ब्राह्मणर् कलाल् विक्रयिक्क प्पट्ट पाल् तयिर्, मोर्, - नाय्, काक्कै, कोल्लि, एलि, पूनै, कीरिप्पिल्लै इवै मदला नदुकलाल् तोडप्पट्ट अन्नं, व्यञ्जनं - मनुष्याल्, पशुक्कल्, इवैकलाल् मोरप्पट्ट अन्नं - पाद प्रक्षालनं पण्णिन शेषजलं - कालालेतोडप्पट्ट दुंताण्ड पट्टदुमान अन्नं - सत्रत्तिल् पोडपट्ट अन्नं - तण्णीर् पंदल् जलं - वेऱुत्तुक्कोण्डु पोडप्पट्ट अन्नं - तलैवाशलै विट्टु वेऱेवल्लियाय् कोण्डवरप्पट्ट अन्नं - कान्दिप्पोन अन्नं - नालुतरं कलैयप्पडाद अरिशियुं पयल् एंपरुप्पुं - नालुतरम् अलम्बप्पडाद शाकङ्गलुं फलं गलुं - नामरूपङ्गलाले अऱियप्पडाद पदार्थङ्गल् - तनक्कोन्ऱु प्रत्येकमाय् पाकं शेय्यप्पट्ट पदार्थङ्गल् - भूमियिल् विल्लादमल्लै नीर् - मुतलियवै।

[[134]]

भार्यादिभिश् च कलहं, पुत्रादीनां च भर्त्सनं, तेषाम् उच्छिष्ट-दानं च वर्जयेत्, पायस-दधि-क्षीर-अम्बु-सर्पींषि अन्यानि च निश्शब्दं पिबेत्। पात्र-स्थं पानीयं पीत-शेषं भूमौ किञ्चिन् निस्राव्य पिबेत्, दधि-क्षीर-आज्य-सलिल-सक्तु-पायस-व्यतिरिक्तं सर्वं स-शेषम् अश्नीयात्। भोजने दीप-नाशश् चेत् तदा सूर्यं स्मरन् हस्ताभ्यां पात्रं स्पृशन्, आदीप-दर्शनं नाद्यात्। पुनर् दीपम् उद्दिप्य पात्र-स्थम् एवान्नम् अद्यात्। “श्री-गोविन्दाय नमः” इति प्रतिकबलं गोविन्दम् अनुस्मरेत्। ततो वर्तुल-पवित्र-वेष्टनं विप्रस्य अनामिकायां धृत्वा अन्य-दत्तेन पाद्य-तीर्थेन “अ॒मृ॒ता॒पि॒धा॒नम॑सि” इति स-शेषम् उत्तरापोशनं कुर्यात्। शेषं

रौरवे ऽपुण्य-निलये पद्मार्बुद-निवासिनाम्।
अर्थिनाम् उदकं दत्तम् अ-क्षय्यम् उपतिष्ठतु

इति मन्त्रेण भोजन-पात्रस्य वामुतो देव-तीर्थेन भुवि निस्राव्य - विप्रं सितं दर्भं चतुर्-अश्र-मण्डल एव प्रक्षिपेत् - न बहिः, न भोजन-पात्रे वा। हस्तं प्रक्षाल्य वा, निर्लेह्य वा उत्तरापोशनं न गृह्णीयात्। उत्तरापोशनात् पश्चात् भोजन-पात्रं न स्पृशेत्। उत्थाय - बहिर् निर्गत्य, आसीनः, वाम-पार्श्वे त्रीन् गण्डूषान् कृत्वा माषादि-चूर्णैर् मृद्भिर् वा हस्तं प्रक्षाल्य - पुनश् च त्रयोदश-गंडूषान् दन्त-शोधनं च कुर्यात्। गंडूष-काले तर्जन्या दन्त-शोधनं न कुर्यात् - तत्-तोयं च न पिबेत्। मृद्-घर्षणादिभिः, हस्त-प्रक्षालनं कृत्वा - ततो मुख-प्रक्षालनं कृत्वा - पादौ प्रक्षाल्य द्विर् आचामेत्। (आचमनात् पूर्वं श्व-शूद्रादीन् न निरीक्षेत्।)

ततः,

प्राणानाङ्ग्रन्थिरसि रुद्रोमा॑विशा॒न्तक॒स्तेनान्नेना॑प्याय॒स्व

इति हृदयम् आलभ्य -

अङ्गुष्ठ-मात्रः पुरुषो ऽङ्गुष्ठं च॑ समा॒श्रितः। ईशस् सर्वस्य जगतः प्रभुः प्रीणाति॑विश्व॒भुक्

इति दक्षिण-पादाङ्गुष्ठे ऊर्ध्व-दक्षिण-हस्तेन जलं निस्राव्य -

[[135]]

श्रद्धायाम्प्राणे निविश्यामृतँ हुतम्प्राणमन्नेनाप्यायस्व - आपाने निविश्यामृतँ हुतमपानमन्नेनाप्यायस्व - व्याने निविश्यामृतँ हुतं व्यानमन्नेनाप्यायस्व - उदाने निविश्यामृतँ हुतमुदानमन्नेनाप्यायस्व - समाने निविश्यामृतँ हुतँ समानमन्नेनाप्यायस्व - ब्रह्मणिम आत्मा ऽमृतत्वाय" [[TODO: परिष्कार्यम्]]

इति हुतम् अभिमन्त्र्य - सूर्यम् अभिवीक्षेत - रात्रौ दीपम् अवलोकयेत्।

उदु॒त्यञ्जा॒तवे॑दसन्दे॒वं व॑हन्ति के॒तवः॑, दृ॒शेविश्वा॑य॒ सूर्य॑म्

इत्य् आदित्यम् उपतिष्ठेत। ततः,

विष्णुर् अत्ता तथैवान्नं परिणामश् च वै सदा। सत्येन तेन मे भुक्तं जीर्यत्व् अन्नम् इदं ततः [था]

इत्य् उच्चार्य, उदरं परिमृज्य - “ॐ” इति ब्रह्मणि स्वात्मानं योजयेत्।

कृष्णाष्टमी, कृष्ण-चतुर्दशी तिथिषु, एक-वारम् एव भोजनं कुर्यात्। पूर्णिमायाम् अमावास्यायां, सङ्क्रमणे, श्राद्ध-दिने, निमन्त्रण-दिने च रात्रौ भोजनं न कुर्यात् - ग्रस्तास्त-गे चन्द्रे, ग्रहणात् पूर्वस्यां रात्रौ परस्मिन्न् अहनि च न भुञ्जीत - ग्रस्तास्त-गे सूर्ये, तद्-अहो-रात्रं न भुञ्जीत। चन्द्र-सूर्यौ दृष्ट्वा स्नात्वैव भुञ्जीत। चन्द्र-ग्रस्तोदये, तस्मिन् अह्नि, सूर्य-ग्रस्तोदये पूर्वस्यां रात्रौ भोजनं न कुर्यात्। सूर्य-ग्रहणे ग्रहण-यामात् पूर्वं याम-चतुष्टयं, चन्द्र-ग्रहणे याम-त्रयं, पूर्ण-चन्द्र-ग्रहणे याम-चतुष्टयं च न भुञ्जीत। बाल-वृद्धातुराणाम् एक-याम-वर्जनम् अलं - भुक्त्वा आर्द्र-पादो न गृहाद् बहिर् व्रजेत्।

[[136]]


  1. वल्लि-पलाश-पत्र-भिन्नम्। ↩︎

  2. स्थल-पद्म-पत्र-भिन्नम्। ↩︎

  3. रात्रि-भोजन-काले “ऋ॒तन्त्वा॑स॒त्येन॒ परि॑षिञ्चा॒मि” इति वदेत्। ↩︎

  4. शास्त्रविरुद्धमान भोजनपदार्थङ्गल् आऱविधङ्गल् - अवैयानन - ↩︎