०३ भगवद्-आराधन-क्रमः

आजानु पादौ, आकूर्परं पाणी प्रक्षाल्य - स्वाचान्तः, तत् तत् क्षेत्राधीशं श्री-रङ्गनाथादिकं, भगवन्तं, मनसाभ्यर्च्य - पूजा-गृहाद् बहिर् दूरतो ऽवस्थाय - “चण्डादि-द्वार-पालेभ्यो नमः" - इति प्रणम्य - गन्धादिभिर् अभर्च्य - आत्म-प्रवेशनं याचित्वा - तैर् दत्तानुज्ञो द्वार-पार्श्वे ऽवस्थाय - अस्त्र-मन्त्रेणाभिमन्त्रितं, पुष्पं, दुष्ट-जन्तु-पलायनार्थं देव-गृहान्तः प्रास्य - देव-गृहं दक्षिण-पाद-विन्यास-पूर्वकं प्रविश्य -

कूर्मादीन् दिव्य-लोकस् तद्-अनु मणिमयं मण्टपस् तत्र शेषं
तस्मिन् धर्मादि-पीठं तद्-उपरि कमलं चामर-ग्राहिणीश् च।
विष्णुं देवीर् विभूषायुध-गण-मुर-गं पादुके वैनतेयं
सेनेशं द्वार-पालान् कुमुद-मुख-गणान् विष्णु-भक्तान् प्रपद्ये -॥
नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैक-भूमये।
नमो नमो ऽनन्त-महा-विभूतये नमो नमो ऽनन्त-दयैक-सिन्धवे॥
न धर्म-निष्ठो ऽस्मि न चात्म-वेदी
न भक्तिमांस् त्वच्-चरणार-विन्दे।
अकिञ्चनो ऽनन्य-गतिश् शरण्य-
त्वत्-पाद-मूलं शरणं प्रपद्ये॥
अपराध-सहस्र-भाजनं पतितं भीम-भवार्णवोदरे।
अ-गतिं शरणागतं हरे कृपया केवलम् आत्मसात् कुरु॥
अमर्यादः क्षुद्रश् चल-मतिर् असूया-प्रसव-भूः
कृत-घ्नो दुर्मानी-स्मर-परवशो वञ्चन-परः।
नृ-शंसः पापिष्ठः कथम् अहम् इतो दुःख-जल-धेर्
अपाराद् उत्तीर्णस् तव परिचरेयं चरणयोः

इत्यादिभिश् श्लोकैर् भगवन्तम् अष्टाङ्गेन प्रणम्य - प्रदक्षिणी-कृत्य - साक्षतानि पुष्पाणि प्रकीर्य - कर्पूरागरु-चन्दनैर् दूपयित्वा - ताल-त्रय-पूर्वकं, घण्टा-नादेन भगवन्तं प्रबोध्य - प्रणवेन अस्त्र-मन्त्रेण च कवाटोद्घाटनं कृत्वा - विघ्नेनाभिगमनाराधने प्रातर् अ-कृते “कौसल्या-सुप्रजा राम” इत्यादिभिस् सम्बोध्य - निश्शब्दे प्रदेशे “ॐ भूं भूम्यै नमः” इति भुवं सङ्गृह्य - मूल-मन्त्रेण दक्षिण-करेण “शोषयामि” - तेन मन्त्रेण “दाहयामि" तेनैव मन्त्रेण वाम-करेण “प्लावयामि” इति तस्य योग्यताम् आपाद्य - अस्त्र-मन्त्रेण रक्षां कृत्वा - सुरभि-मुद्रां प्रदर्श्य - दार्भं दारुमयं वा आत्मन आसनं देवस्य पुरस्ताद् दक्षिणतस् संस्तीर्य - सच्छोटेनास्त्र-मन्त्रेणाभिमन्त्र्य -

आसन-मन्त्रस्य पृथिव्या मेरु-पृष्ट ऋषिः सुतलं छन्दः - श्री-कूर्मो देवता

इति न्यस्य - “आसने विनियोगः” इत्य् उक्त्वा -

[[82]]

पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता।
त्वं च धारय मां देवि पवित्रं कुरु चासनम्

इति सामान्यतः प्राप्त-मन्त्रेण पद्मासन-स्वस्तिकासनादिष्व्-एकम् अवलम्ब्य - आसीनः, “अस्मद्-गुरुभ्यो नमः” इत्य् आदि-गुरु-परम्परया भगवन्तं शरणम् उपगम्य -

तम् एव प्राप्यत्वेन प्रापकत्वेनानिष्ट-निवर्तकत्वेन च यथावस्थित-स्व-रूप-रूप-गुण-विभूति-लीलोपकरण-विस्तारम् अनुसन्धाय करिष्यमाण-भगवद्-आराधन-पर्यन्तातिमात्र-प्रीति-जनकानुभव-जनकात्यर्थ-प्रिया-विरत-विशदतम-प्रत्यक्ष-रूपानुध्यानानुकूल-मनो-वृत्ति-सिध्य्-अर्थं, द्वयोच्चारण-पूर्वकं, “अखिल-हेय” इत्य् आदि अन्-अन्य-शरणस् त्वत्-पादारविन्द-युगलं शरणम् अहं प्रपद्ये

इत्य् अन्तं बृहद्-गद्यम् अनुसन्धाय - साङ्ग-प्रपदनम् अनुष्ठाय तद्-अशक्तौ न्यास-दशकं वानुसन्धाय - तत्-प्रकारः -

अहं मद्-रक्षण-भरो मद्-रक्षण फलं तथा।
न मम श्री-पतेर् एवेत्य् आत्मानं निक्षिपेद् बुधः॥
न्यस्याम्य् अकिञ्चनश् श्रीमन्न् अनुकूलो ऽन्य-वर्जितः।
विश्वास-प्रार्थना-पूर्वम् आत्म-रक्षाभरस् त्वयि॥
स्वामिन् स्-शेषं स्व-वशं स्व-भरत्वेन निर्भयम्।
स्व-दत्त-स्व-धिया स्वार्थं स्वस्मिन् न्यस्यसि मां स्वयम्॥
श्रीमन्न अभीष्ट-वरद त्वाम् अस्मिन् शरणं गतः।
एतद्-देहावसाने मां त्वत्-पादं प्रापय स्वयम्॥
त्वच् छेषत्वे स्थिर-धियस् त्वत्-प्रात्य्-एक-प्रयोजनम्।
निषिद्ध-काम्य-रहितं कुरु मां नित्य-किङ्करम्॥
देवी-भूषण हेत्य् आदि-जुष्टस्य भगवंस् तव।
नित्यं निरपराधेषु कैङ्कर्येषु नियुङ्क्ष्व माम्॥
मां मदीयं च निखिलं चेतनात्मकम्।
स्व-कैङ्कर्योपकरणम् वरद स्वीकुरु स्वयम्॥
त्वद्-एक-रक्ष्यस्य मम त्वम् एव करुणाकर।
न प्रवर्तय पापानि प्रवृत्तानि निवर्तय॥
अ-कृत्यानां च करणं कृत्यानां वर्जनं च मे।
क्षमस्व निखिलं देव प्रणतार्ति-हर-प्रभो॥ श्रीमन् नियत-पञ्चाङ्गं मद्-रक्षण-भरार्पणम्। अचीकरस् स्वयं स्वस्मिन्न् अतो ऽहम् इह निर्भरः॥
संसारावर्त-वेग-प्रशमन-शुभ-दृग्-देशिक-प्रेक्षितो ऽहं
सन्त्यक्तो ऽन्यैर् उपायैर् अनुचित-चरितेष्व् अद्य शन्ताभिसन्धिः।
निश्शङ्कस् तत्त्व-दृष्ट्या निरवधिक-दयं प्रार्थ्य संरक्षस् त्वां
न्यस्य त्वत्-पाद-पद्मे वरद-निज-भरन् निर्भरो निर्भयो ऽस्मि॥

इति।

[[83]]

तज्-जनित-भगवत्-प्रसादोप-बृंहित-मनो-वृत्तिस् तम् एव भगवन्तम् आत्मनस् स्वामित्वेनानुसन्धाय - अत्य् अर्थ-प्रियाविरत-विशदतम-प्रत्यक्ष-रूपानु-ध्यानेन ध्यायन्न् आसीत। ततस् तद्-अनुभव-जनिताति-मात्र-प्रीति-कारित-परिपूर्ण-कैङ्कर्य-रूप-पूजाम् आरभेत।

अष्टाविंशति-कृत्वो मनसा ऽवर्तितेन मूल-मन्त्रेण (धर्म-शास्त्रोक्तेन वा) त्रिः प्राणानायम्य -

कृतञ् च करिष्यामि भगवन् नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन भगवत्-कर्मणा भगवन्तं वासुदेवम् अर्चयिष्यामि

इति सङ्कल्प्य -

भगवतो बलेन भगवतो वीर्येण भगवतस् तेजसा भगवतः कर्मणा भगवतः कर्म करिष्यामि भगवतो वासुदेवस्य

इति बल-मन्त्रम् अनुसन्धाय -

भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तः करणैस् स्वकीय-कल्याणतम-द्रव्यमयान् औपचारिक-सांस्पर्शिकाभ्यवहारिकादि-समस्त-भोगान् अतिप्रभूतान् अतिप्रियतमान् अतिसमग्रान् अत्यन्त-भक्ति-कृतान् अखिल-परिजन-परिच्छदान्विताय स्वस्मै स्व-प्रीतये स्वयम् एव प्रतिपादयितुम् उपक्रमते

इत्य् अनुसन्धाय

[[84]]

भूत-शुद्धि-क्रमः

“ॐ लां नमः पराय सर्वात्मने नमः” इति पादयोर् न्यासं कुर्वन्

पृथिवीं गन्ध-तन्-मात्रे विलापयामि - गन्ध-तन्-मात्रम् अप्सु विलापयामि

इति चिन्तयेत्।

“ॐ वां नमः पराय निवृत्त्य्-आत्मने नमः” इति गुह्ये न्यासं कुर्वन् -

अपो रस-तन्-मात्रे विलापयामि - रस-तन्-मात्रस् तेजसि विलापयामि

इति चिन्तयेत्।

“ॐ रां नमः पराय विश्वात्मने नमः” इति हृदये न्यासं कुर्वन् -

तेजो-रूप-तन्-मात्रे विलापयामि - रूप-तन्-मात्रं वायौ विलावयामि

इति चिन्तयेत्।

“ॐ यां नमः पराय पुरुषात्मने नमः” इति नासाग्रे न्यासं कुर्वन् -

वायुं स्पर्श-तन्-मात्रे विलावयामि - स्पर्श-तन्-मात्रम् आकाशे विलापयामि

इति चिन्तयेत्,

1“ॐ षौं नमः पराय परमेष्ठ्य्-आत्मने नमः” इति मूर्ध्नि न्यासं कुर्वन्

आकाशं शब्द-तन्-मात्रे विलापयामि - शब्द-तन्-मात्रं घ्राण-रसन-चक्षुस्-त्वक्-छ्रोत्राणि ज्ञानेन्द्रियाणि, उपस्थ-पायु-पाद-पाणि-वाग्-रूप-कर्मेन्द्रियाणि मनश् चाहङ्कारे विलापयामि - अहङ्कारं महति विलापयामि - महन्तं प्रकृतौ विलापयामि - प्रकृतिस् तमसि विलापयामि - तमः परमात्मन्य् एकी-भावयामि

इति तत्त्वानां संहारं चिन्तयेत्।

[[85]]

ततश् च प्राणायामेनैकेन मूल-मन्त्रं दक्षिणेन पाणिना नाभि-देशे न्यस्य - मन्त्रोद्भूत-चण्ड-वाय्व्-आप्यायित-नाभि-देश-स्थ-वायुना शरीरम् अन्तर् बहिश् च सर्वं तत्व-क्रमेण “शोषयामि”2 इति विशोष्य - पुनर् अप्य् अष्टाविंशति-कृत्वो मनसा आवर्तितेन मूल-मन्त्रेण प्राणानायम्य - मूल-मन्त्रं दक्षिणेन पाणिना हृदये न्यस्य, मन्त्रोद्भूत-चक्राग्नि-ज्वालोप-बृंहित-जाठराग्निना तत्-तत्-समष्टि-प्रलीन-सर्व-तत्त्व-सर्व-किल्बिष-सर्वाज्ञान-तद्-वासनं स्व-देहान् तत्त्व-क्रमेण “दाहयामि”3 इति दग्ध्वा - दग्ध-तत्-तत्-समष्टि-प्रलीन-सर्व-तत्त्व-सर्व-किल्बिष-सर्वाज्ञान-तद्-वासनो भूत्वा भगवद्-दक्षिण-पादाङ्गुष्ठाद् अधस्तान् मूल-मन्त्रेण स्वात्मानं प्रवेशयेत् - अपरेण प्राणायामेन भगवत्-प्रसादेन भगवत्-किङ्करता-योग्यताम् आपाद्य - तस्माद् आदाय - तद्-वाम-पादाङ्गुष्ठाद् अधस्तान् मूल-मन्त्रेण स्वात्मानं विन्यस्य - भगवद्-वाम-पादाङ्गुष्ठ-नख-शीतांशु-मण्डल-गलद्-दिव्यामृत-धारया ऽऽत्मानम् अभिषिच्य, भगवत्-प्रसादेन तद्-अमृतमयं सर्व-कैङ्कर्य-मनो-हरं सर्व-कैङ्कर्य-योग्यं शरीरम् उत्पन्नं ध्यात्वा - तस्मिन् शरीरे पञ्चोपनिषन्-मन्त्रान् सृष्टि-क्रमेण न्यस्येत् - तत्-प्रकारः -

“ॐ षौं नमः पराय परमेष्ठ्य्-आत्मने नमः” इति मूर्ध्नि न्यासं कुर्वन्

परमात्मनः तम उत्पादयामि - तमसः प्रकृतिम् उत्पादयामि - प्रकृतेर् महान्तम् उत्पादयामि - महतोऽहङ्कारम् उत्पादयामि - अहङ्काराद् घ्राण-रसन-चक्षुस्-त्वक्-छोत्राणि ज्ञानेन्द्रयाणि, उपस्थ-पायु-पाद-पाणि-वाग्-रूप-कर्मेन्द्रियाणि मनश् शब्द-तन्-मात्रं[[??]] चोत्पादयामि - शब्द-तन्-मात्राद् आकाशम् उत्पादयामि

इति चिन्तयेत् -

[[86]]

“ॐ यां नमः पराय पुरुषात्मने नमः” इति नासाग्रे न्यासं कुर्वन्

आकाशात् स्पर्श-तन्-मात्रम् उत्पादयामि - स्पर्श-तन्-मात्राद् वायुम् उत्पादयामि

इति चिन्तयेत् -

“ॐ रां नमः पराय विश्वात्मने नमः” इति हृदये न्यासं कुर्वन्

वायो रूप-तन्-मात्रम् उत्पादयामि - रूप-तन्-मात्रात् तेज उत्पादयामि

इति चिन्तयेत् -

“ॐ वां नमः पराय निवृत्य्-आत्मने नमः” इति गुह्ये न्यासं कुर्वन्

तेजसो रस-तन्-मात्रम् उत्पादयामि - रस-तन्-मत्राद् अप उत्पादयामि

इति चिन्तयेत् -

“ॐ लां नमः पराय सर्वात्मने नमः” इति पादयोर् न्यासं कुर्वन्

अद्भ्यो गन्ध-तन्-मात्रम् उत्पादयामि - गन्ध-तन्-मत्रात् पृथिवीम् उत्पादयामि

इति चिन्तयेत् -

एवं भूतं परिशुद्ध-देहं ध्यात्वा पुनर् अपि प्राणायामेनैकेन भगवद्-वाम-पादाङ्गुष्ठ-विनिस्सृतामृत-धारया आत्मानम् अभिषिच्य - कृत-लाञ्छनो धृतोर्ध्व-पुण्ड्रः।

अस्य श्रीमद्-अष्टाक्षर-महा-मन्त्रस्य अन्तर् यामि नारायण ऋषिः (बदरिकाश्रम-वासी-श्रीमन्-नारायण ऋषिर् वा) देवी गायत्री-च्छन्दः, परमात्मा श्रीमन्-नारायणो देवता

इति न्यस्येत् - अञ्जलिं बध्वा -

अं बीजं - आय शक्तिः - मं कीलकं - ह्री कवचं - ऐम् अस्त्रं - बुद्धिस् तत्वं - शुक्लादिर् वर्णः - उदात्तादिस् स्वरः - श्री-वैकुण्ठः क्षेत्रं - जीव-परमात्मनोस् स्व-स्वामि-भावस् सम्बन्धः - श्री-भगवद्-आराधनार्थे विनियोगः

इत्य् उक्त्वा - मूल-मन्त्रेण पूर्ववत् हस्त-शुद्धिं कृत्वा व्यापक-न्यासं कराङ्गुलीषु हृदयाद्य्-अङ्गेषु चाक्षर-न्यासं च कुर्यात्, तद्-अशक्तौ तु पद-न्यासं कुर्यात्। तत्-प्रकारः -

[[87]]

“ॐ ॐ अङ्गुष्ठाभ्यां नमः” इति अङ्गुष्ठयोस् तर्जनीभ्यां न्यस्य - “ॐ नमः तर्जनीभ्यां नमः” इति तर्जन्योर् अङ्गुष्टाभ्यां न्यस्य - “ॐ नारायणाय मध्यमाभ्यां नमः” इति मध्यमयोर् अङ्गुष्ठाभ्यां न्यस्य - “ॐ ॐ अनामिकाभ्यां नमः” इति अनामिकयोर् अङ्गुष्ठाभ्यां न्यस्य - “ॐ नारायणाय कर-तल-कर-पृष्ठाभ्यां नमः” इति कर-तल-कर-पृष्ठयोः परामृश्य - इति कर-न्यासः -

“ॐ ॐ ज्ञानाय हृदयाय नमः” इति अङ्गुष्ठ-युक्त-तर्जन्या हृदये न्यस्य - “ॐ नमः ऐश्वर्याय शिरसे स्वाहा” इति अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् मस्तके न्यस्य - “ॐ नारायणाय शक्त्यै शिखायै वौषट्” इति अङ्गुष्ठ-नालेन अधो मुखेन मुष्टिना शिखा-मध्ये न्यस्य - “ॐ ॐ बलाय कवचाय हुम्” इति कण्ठादि-कट्य्-अन्तान्तं पाणिभ्यां वर्मवत् स्पृष्ट्वा - “ॐ नमः तेजसे नेत्राभ्यां वौषट्” इति तर्जनी-मध्यमाग्राभ्यां युगपन् नेत्र-द्वये न्यस्य - “ॐ नारायणाय वीर्यायास्त्राय फट्” इति सास्त्रच्छोटेन साङ्गुष्ट-तर्जन्य्-अग्रेण पूर्वाद्याश् चतुर्-दिशः पूर्वं पश्चाद् अग्न्यादि-विदिशश् च बध्नीयात् - इत्य् अङ्ग-न्यासः -

[[88]]

ततो यागम् आरभेत -

भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तः करणैस् स्वकीय-कल्याणतम-द्रव्यमयान् औपचारिक-सांस्पर्शिकाभ्यवहारिकादि-समस्त-भोगान् अतिप्रभूतान् अतिप्रियतमान् अतिसमग्रान् अत्यन्त-भक्ति-कृतान् अखिल-परिजन-परिच्छदान्विताय स्वस्मै स्व-प्रीतये स्वयम् एव कारयति

इति पूर्ववद् ध्यात्वा - हृदय-कमलम् अधो मुखम् ऊर्ध्व-मुखम् उन्नमय्य - बाह्यतो वक्ष्यमाणाधार-शक्त्य्-आदि-कल्पन-क्रमेण योग-पीठान्तं कल्पयित्वा - पर्यङ्कं नाग-राजं च कल्पयित्वा - तस्य पीठस्य दक्षिण-पार्श्वतस् स्वात्मानम् आसीनं विचिन्त्य - तत्-पीठस्योपरि “सव्यं पादं” इति श्लोक-रीत्या वक्ष्यमाण-क्रमेण स-परिवारं भगवन्तं विचिन्त्य - ध्यात्वा -

सौपर्णे स्थालि-वर्ये मणि-गण-खचिते गो-घृताक्तान् सुपक्वान्
भक्षान् भोज्यांश् च लेह्यान् परमम् अपि हविश् चूष्यम् अन्नं निधाय।
नानाशाकैर् उपेतं सुदधि-मधु-घृत-क्षीर-पानीय-युक्तं
ताम्बूलं चात्म-यागे प्रतिदिवसम् अहं मानसं कल्पयामि

इति श्लोकोक्त-रीत्या मानसैर् अतिमानुषैस् सांस्पर्शिकौपपचारिकाभ्यवहारिकैर् भोगैर् अभ्यर्च्य - भगवन्तं प्रणम्य - प्रसाद्य -

भगवन् पुण्डरीकाक्ष
हृद्-यागन्तु मया कृतम् ।
आत्मसात् कुरु देवेश
बाह्यैस् त्वां सम्यगर्चये ॥
विभो सकल-लोकेश
प्रणतार्तिहराच्युत ।
त्वां भक्त्या पूजयाम्य् अद्य
भोगैर् अर्घ्यादिभिः क्रमात् ॥

इति बाह्य-यागं भगवते निवेद्य - तद्-अनुज्ञातः, चण्डादि-द्वारपालान् गन्धादिभिर् अभ्यर्च्य - सम्भारान् सम्भृत्य - आत्मनो वाम-पार्श्वे जल-भाजने तोयम् उत्पूर्य - गन्ध-पुष्प-युतं कृत्वा - मूल-मन्त्रेण सप्त-कृत्वोभिमन्त्र्य - मूल-मन्त्रेण विशोष्य, दग्ध्वा - दिव्यामृतमयं तोयम् उत्पाद्य - अस्त्र-मन्त्रेण रक्षां कृत्वा - सुरभि-मुद्रां प्रदर्श्य - अन्यानि पूजा-द्रव्याण्य् आत्मनो दक्षिण-पार्श्वे निधाय - मूल-मन्त्रेण शोषण-दाहन-प्लावनैर् योग्यताम् आपाद्य - पुरतस् स्वास्त्रीर्णे पीठे देव-प्राची-क्रमेण आग्नेयादि-कोणेषु, क्रमेण अर्घ्य-पाद्य-आचमनीय-स्नानीय-पात्राणि, मध्ये शुद्धोदक-पात्रं4 च निधाय - मूल-मन्त्रेणास्त्र-मन्त्रेण वा प्रक्षाल्य - शोषण-दाहन-प्लावनानि कृत्वा - संस्कृत-तोयेन तानि पूरयित्वा -

[[89]]

अर्घ्य-पात्रे - सिद्धार्थं - अक्षतान् - कुशाग्रं - तिलं - यवं - गन्धं - फलं - पुष्पम् -

पाद्य-पात्रे - दूर्वां - विष्णु-पर्णींं - श्यामाकं - पद्मं - अक्षतान् - तिलं -

आचमनीय-पात्रे - एलां - लवङ्गं - तक्कोलं - जातीं - कर्पूरं - चन्दनं - लामज्जं - पुष्पाणि -

स्नानीय-पात्रे - गन्धं - सर्वौषधीः4 - रत्नं - फलं - बीजं - कुशं - तिलं - अक्षतान् - दधि - क्षीरं - घृतं - रजनीं - च निक्षिपेत्।

द्रव्यालाभे तुलसीं वा निक्षिपेत् - अर्घ्यादि-पात्राणि पाणिना मूल-मन्त्रेणाभिमन्त्र्य - “ॐ नमो भगवते अर्घ्यं परिकल्पयामि” इत्य् अर्घ्यं परिकल्पयेत् - “ॐ नमो भगवते पाद्यं परिकल्पयामि” इति पाद्यं परिकल्पयेत् - “ॐ नमो भगवते आचमनीयं परिकल्पयामि” इति आचमनीयं परिकल्पयेत् - “ॐ नमो भगवते स्नानीयं परिकल्पयामि” इति स्नानीयं परिकल्पयेत् - “ॐ नमो भगवते शुद्धोदकं परिकल्पयामि” इति शुद्धोदकं परिकल्पयेत् - ततो ऽर्घ्य-पात्र-जलम् उद्धरिण्या ऽऽदाय - मूल-मन्त्रेणाभिमन्त्र्य याग-भूमिं सर्वाणि याग-द्रव्याण्य् आत्मानं च प्रत्येकं प्रोक्ष्य - आसनं परिकल्पयेत् - तत्-प्रकारः -

[[90]]

आधार-शक्त्य्-आदि-पीठ-कल्पनम्।

“ॐ आधार-शक्त्यै नमः” इति यथा-स्थानं उपर्य् उपरि ध्यात्वा - प्रणम्य, “ॐ प्रकृत्यै नमः” इति यथा-स्थानं उपर्य् उपरि ध्यात्वा - प्रणम्य, “ॐ अखिल-जगद्-आधाराय कूर्म-रूपिणे नारयणाय नमः” इति यथा-स्थानं उपर्य् उपरि ध्यात्वा - प्रणम्य, “ॐ अन्-अन्ताय नाग-राजाय नमः” इति यथा-स्थानं उपर्य् उपरि ध्यात्वा - प्रणम्य, “ॐ भूं भूम्यै नमः” इति यथा-स्थानं उपर्य् उपरि ध्यात्वा - प्रणम्य, “ॐ श्री-वैकुण्ठाय दिव्य-लोकाय नमः” इति श्री-वैकुण्ठ-दिव्य-लोकं ध्यात्वा - प्रणय्य, “ॐ श्री-वैकुण्ठाय दिव्य-जन-पदाय नमः” इति दिव्य-जन-पदं ध्यात्वा - प्रणम्य, “ॐ श्री-वैकुण्ठाय दिव्य-नगराय नमः” इति दिव्य-नगरं ध्यात्वा - प्रणम्य, “ॐ श्री-वैकुण्ठाय दिव्य-विमानाय नमः” इति दिव्य-विमानं ध्यात्वा, प्रणम्य “ॐ आनन्दमयाय दिव्य-मण्टप-रत्नाय नमः” इति मण्टप-रत्नं ध्यात्वा प्रणम्य, “ॐ आस्तरण-रूपायानन्ताय नाग-राजाय नमः” इति आस्तरणं ध्यात्वा प्रणम्य,

“ॐ धर्माय पीठ-पादाय नमः” इत्य् आग्नेय्यां पीठ-पादान् विन्यस्य, ध्यात्वा, प्रणम्य, “ॐ ज्ञानाय पीठ-पादाय नमः” इति नैर्ऋत्यां पीठ-पादान् विन्यस्य, ध्यात्वा, प्रणम्य, “ॐ वैरग्याय पीठ-पादाय नमः” इति वायव्यां पीठ-पादान् विन्यस्य, ध्यात्वा, प्रणम्य, “ॐ ऐश्वर्याय पीठ-पादाय नमः” इत्य् ऐशान्यां पीठ-पादान् विन्यस्य, ध्यात्वा, प्रणम्य,

“ॐ अ-धर्माय पीठ-गात्राय नमः” इति प्राच्यां पीठ-गात्राणि न्यस्य - ध्यात्वा - प्रणम्य,
“ॐ अ-ज्ञानाय पीठ-गात्राय नमः” इति दक्षिणस्यां पीठ-गात्राणि न्यस्य - ध्यात्वा - प्रणम्य, “ॐ अ-वैराग्याय पीठ-गात्राय नमः” इति प्रतीच्यां पीठ-गात्राणि न्यस्य - ध्यात्वा - प्रणम्य, ॐ अन्-ऐश्वर्याय पीठ-गात्राय नमः इत्य् उत्तरस्यां पीठ-गात्राणि न्यस्य - ध्यात्वा - प्रणम्य,
“ॐ एभिः परिच्चिन्न-तनवे पीठ-भृते सदा ऽत्मने ऽन्-अन्ताय नाग-राजाय नमः” इति सदात्मकं सर्व-कार्योन्मुखं विभुम् अन्-अन्तं विन्यस्य ध्यात्वा प्रणम्य,

[[91]]

तद्-उपरि,

“ॐ अष्ट-दल-पद्माय नमः” इति अष्ट-दल-पद्मं विन्यस्य

तस्य अष्टुसु दलेषु,

“ॐ विमलायै चामर-हस्तायै नमः” - इति पूर्व-दले विमलाद्या हरेर् मुखं वीक्षमाणाः,करेणैकेन चामराणि दधतीस् स्वलङ्कृताः, इतरैक-हस्तेन शिरो-निहितेन नमस्यन्तीर् अष्टौ ध्यात्वा - प्रणम्य - गन्धादिभिर् अभ्यर्च्य,

“ॐ उत्कर्षिण्यै नमः चामर-हस्तायै नमः” - इति आग्नेय-दले विमलाद्या हरेर् मुखं वीक्षमाणाः,करेणैकेन चामराणि दधतीस् स्वलङ्कृताः, इतरैक-हस्तेन शिरो-निहितेन नमस्यन्तीर् अष्टौ ध्यात्वा - प्रणम्य - गन्धादिभिर् अभ्यर्च्य,

“ॐ ज्ञानायै चामर-हस्तायै नमः” - इति दक्षिण-दले विमलाद्या हरेर् मुखं वीक्षमाणाः,करेणैकेन चामराणि दधतीस् स्वलङ्कृताः, इतरैक-हस्तेन शिरो-निहितेन नमस्यन्तीर् अष्टौ ध्यात्वा - प्रणम्य - गन्धादिभिर् अभ्यर्च्य,

“ॐ क्रियायै चामर-हस्तायै नमः” - इति नैर्ऋत-दले विमलाद्या हरेर् मुखं वीक्षमाणाः,करेणैकेन चामराणि दधतीस् स्वलङ्कृताः, इतरैक-हस्तेन शिरो-निहितेन नमस्यन्तीर् अष्टौ ध्यात्वा - प्रणम्य - गन्धादिभिर् अभ्यर्च्य,

“ॐ योगायै चामर-हस्तायै नमः” - इति पश्चिम-दले विमलाद्या हरेर् मुखं वीक्षमाणाः,करेणैकेन चामराणि दधतीस् स्वलङ्कृताः, इतरैक-हस्तेन शिरो-निहितेन नमस्यन्तीर् अष्टौ ध्यात्वा - प्रणम्य - गन्धादिभिर् अभ्यर्च्य,

“ॐ प्रभ्व्यै चामर-हस्तायै नमः” - इति वायव्य-दले विमलाद्या हरेर् मुखं वीक्षमाणाः,करेणैकेन चामराणि दधतीस् स्वलङ्कृताः, इतरैक-हस्तेन शिरो-निहितेन नमस्यन्तीर् अष्टौ ध्यात्वा - प्रणम्य - गन्धादिभिर् अभ्यर्च्य,

“ॐ सत्यायै चामर-हस्तायै नमः” - इति उत्तर-दले विमलाद्या हरेर् मुखं वीक्षमाणाः,करेणैकेन चामराणि दधतीस् स्वलङ्कृताः, इतरैक-हस्तेन शिरो-निहितेन नमस्यन्तीर् अष्टौ ध्यात्वा - प्रणम्य - गन्धादिभिर् अभ्यर्च्य,

“ॐ ईशानायै चामर-हस्तायै नमः” - इति ऐशान-दले विमलाद्या हरेर् मुखं वीक्षमाणाः,करेणैकेन चामराणि दधतीस् स्वलङ्कृताः, इतरैक-हस्तेन शिरो-निहितेन नमस्यन्तीर् अष्टौ ध्यात्वा - प्रणम्य - गन्धादिभिर् अभ्यर्च्य,

कर्णिका-पूर्व-भागे

“ॐ अनुग्रहायै चामर-हस्तायै नमः” इति पूर्वोक्त-रूपाम् अनुग्रहं चामर-हस्तां विन्यस्य - ध्यात्वा - प्रणम्य।

“ॐ जगत्-प्रकृतये दिव्य-योग-पीठाय नमः” इति जगत्-प्रकृति-भूतम् आधार-शक्त्य्-आद्य्-अखिल-देवतामयम् अद्भुतं योग-पीठं विन्यस्य - प्रणम्य अभ्यर्च्य,

“ॐ दिव्य-योग-पर्यङ्काय नमः” इति दिव्य-योग-पर्यङ्कं विन्यस्य,

[[92]]

“ॐ सहस्र-फणा मण्डितायाऽन्-अन्ताय नाग-राजाय नमः” इति मध्ये कुण्डली-कृत-विग्रहं रजताद्रि-निभं उन्मिषत्-पद्म-पत्रारुपेक्षणं शैत्य-सौगन्ध्य-सौकुमार्य- मार्दवादि-गुणाकरं वितानम् इव फणामणि-सहस्रं वितत्यासीनम् अन्-अन्तं नाग-राजं विन्यस्य - ध्यात्वा अभ्यर्च्य,

“ॐ पाद-पीठात्मने ऽन्-अन्ताय नाग-राजाय नमः” इति पुरतः पाद-पीठं विन्यस्य, पुरतः पार्श्वतः पश्चाद् अपि सर्वतः,

“ॐ सर्व-परिवाराणां पद्मासनेभ्यो नमः” इति पद्मासनानि विन्यस्य योग-पीठस्य पश्चात् पुरतः प्राग्-उत्तरे च क्रमेण,

“ॐ अन्-अन्त-गरुड-विष्वक्सेनानां स-पीठक-पद्मासनेभ्यो नमः” इति सपीठक-पद्मासनानि विन्यस्य - सर्वत्र पुष्पाक्षतान् विकीर्य - धूपैर् धूपयित्वा -

योग-पीठस्य पश्चिमोत्तर-दिग्-भागे समीपतः,

“ॐ अस्मद्-गुरुभ्यो नमः” इति रहस्य-त्रय-गायत्री-प्रदातॄन्, तद्-अर्थोपदेष्टॄन्, इज्या-प्रयोग-शिक्षकान्, भर-समर्पण-कर्तॄंश् च, सर्वान् गुरून्, तदीयान्, गुरूंश् च, ध्यात्वा - प्रणम्य, गन्धाद्यैर् अभ्यर्च्य - अभिवाद्य - प्रसाद्य

गुरवस् तदीय-गुरवो दिशन्तु मम साध्व् अनुग्रहम्। युष्मद्-उपजनित-शक्तिम् अतिरहं हरिम् अर्चयामि गतभीः प्रसीदत

इति प्रणम्य - अनुज्ञाप्य - भगवद्-यागम् आरभेत् -

[[93]]

“ॐ श्रीमते नारायणाय नमः” इति कल्पिते नाग-भोगे समासीनं , भगवन्तं नारायणं पुण्डरीक-दलामलायतेक्षणं, किरीट-मकुट-हार-केयूर-कटकादि-सर्व-भूषणैर् भूषितम्, आकुञ्चित-दक्षिण-पादं, प्रसारित-वाम-पादं, दक्षिण-जानु-न्यस्त-प्रसारित-दक्षिण-भुजं, नाग-भोगे विन्यस्त वाम-भुजम्, ऊर्ध्व-भुज-द्वयेन शङ्ख-चक्र-धरं, सर्वेषां सृष्टि-स्थिति-प्रलय-हेतु-भूतं, अञ्जनाभं, “विराजमान”5 “चकासतम्”, “उदग्र” “प्रबुद्ध” “स्फुरत्” “अपूर्व” “अचिन्त्य” परम-सत्व-पञ्च-शक्तिमय-विग्रहं, पञ्चोपनिषन् मन्त्रैः ध्यात्वा -

“भगवन् समाराधनाभिमुखो भव” इति प्रार्थ्य - मूल-मन्त्रेण दण्डवत् प्रणाम्योत्थाय -

ब्रह्मद्यास् सकला देवा यन् न स्मर्तुम् अपीश्वराः।
स एष भगवान् अद्य मम प्रत्यक्षतां गतः॥
स्वागतं भगवन् अद्य मां तारयितुम् आगत।
धन्योस्म्य् अनुगृहीतो ऽस्मि कृतार्थो ऽस्मि कृपा-निधे॥

इति स्वागतं निवेद्य -

सान्निध्यं कुरु देवेश सर्वदा सर्व-काम-द।
द्रव्य-मन्त्र-क्रिया-भक्ति-श्रद्धा-हानिं सह प्रभो॥

इति सान्निध्ययाचमनं कुर्यात् -

[[94]]

अथ दशाह्वान-सत्-क्रिया-प्रकारः6,

१. मुन्त्र-योगः - तिष्ठन् उद्धरिण्यार्घ्य-जलम् आदाय - तत्र पुष्प-द्वयं निक्षिप्य - उद-स्थं कृत्वा[[?]] 7 धारण-विधारणे कृत्वा मूल-मन्त्र-चतुर्-आवृत्ति-पूर्वकम् आवाह्य भगवद्-विग्रह-चिन्तनम्।

२. समाह्वानम् -

ॐ परम-धामावस्थित, मद्-अनुग्रहाभि योगोद्यतावतार, एह्य् एह्य् अभिमत-सिद्धि-द, मन्त्र-शरीर ॐ नमो नमः -

ॐ षौं नमः पराय परमेष्ठ्य्-आत्मने वासुदेवाय नमः

इति स्वाभिमत-दिव्य-देशाद् भगवद्-उद्योग-ध्यानम् -

ॐ यां नमः पराय पुरुषात्मने सङ्कर्षणाय नमः

इति कर-स्थ-पात्र-जले भगवतः प्रवेश-ध्यानं च।

३. कर-पुष्पोप-दर्शनम् -

ॐ रां नमः पराय विश्वात्मने प्रद्युम्नाय नमः

इति पात्रं भगवन्-मुखे दर्शयित्वा - पुरतो निधाय - एकं पुष्पं स-जलं स-तेजो हस्तेनादाय - देवस्य मुखे दर्शनम्।

४. बिम्बोपवेशनम् -

आवाहयामि लक्ष्मीशं परमात्मानम् अ-व्ययम्।
आतिष्ठताम् इमां मूर्तिं मद्-अनुग्रह-काम्यया।
श्रिया सार्धं जगन्-नाथो देवो नारायणः प्रभुः॥

इति ध्यात्वा -

ॐ वां नमः पराय निवृत्य्-आत्मने अनिरुद्धाय नमः

इति मन्त्रेण8 शिरः प्रभृति पादान्तं पुष्प-जलाभ्याम् भगवन्तम् अभिषिच्य - बिम्बे प्रवेश-ध्यानम् -

[[95]]

५. योग-विग्रह-चिन्तनम् - अन्यत् पुष्पम् आदाय “ॐ लां नमः पराय सर्वात्मने नारायणाय नमः” इति ब्रह्म-रन्ध्रं पिधाय - शेषं प्रतिग्रह-पात्रे निरस्य - मूल-मन्त्रेण भगवद्-विग्रह-ध्यानम् - भगवतः शिरः प्रभृति पादान्तं पञ्चोपनिषन्-मन्त्राणां सृष्टि-क्रमेण न्यासः - तत्-प्रकारः -

9“ॐ षौं नमः पराय परमेष्ठ्य्-आत्मने नमः” इति भगवन्-मूर्ध्नि, “ॐ यां नमः पराय पुरुषात्मने नमः” इति नासाग्रे, “ॐ रां नमः पराय विश्वात्मने नमः” इति हृदये, “ॐ वां नमः पराय निवृत्त्य्-आत्मने नमः” इति गुह्ये, “ॐ लां नमः पराय सर्वात्मने नमः” इति पादयोः, न्यासः

मूल-मन्त्रस्य भगवच्-छिरः प्रभृति पादान्तम् अवकुण्ठन-रूपो व्यापक-न्यासः - मूल-मन्त्राक्षराणां सृष्टि-न्यासः - तत्-प्रकारः —

“ॐ ॐ” इति मध्यमाङ्गुल्या भगवन्-मूर्ध्नि, “ॐ नम्” इति तर्जन्या मध्यमाङ्गुल्या च नेत्रयोः, “ॐ मोम्” इति साङ्गुष्ठानामिकया मुख-मध्ये घ्राणस्य पुरतः, “ॐ नाम्” इति साङ्गुष्ठ-तर्जन्य्-अग्रेण हृदये, “ॐ राम्” इति दक्षिणाङ्गुष्ठेन कनिष्ठिकया च नाभौ, “ॐ यम्” इत्य् अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् गुह्ये, “ॐ णाम्” इत्य् अन्-अङ्गुष्ठाभिर् अङ्गुलिभिर् जान्वोः, “ॐ यम्” इति साङ्गुष्ठाभिर् अङ्गुलीभिः पादयोः - न्यस्य -

[[96]]

ततः, नाभ्य्-आदि-हृदय-पर्यन्तं स्थिति-न्यासश् च - तत्-प्रकारः -

“ॐ ॐ” इति दक्षिणाङ्गुष्ठेन कनिष्ठिकया च नाभौ, “ॐ10 नम्” इत्य् अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् गुह्ये, “ॐ मोम्” इत्य् अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् जान्वोः, “ॐ नाम्” इति साङ्गुष्ठाभिर् अङ्गुलीभिः पादयोः, “ॐ राम्” इति मध्यमाङ्गुल्या शिरसि, “ॐ यम्” इति तर्जन्या मध्यमाङ्गुल्या च नेत्रयोः, “ॐ णाम्” इति साङ्गुष्ठानामिकया मुख-मध्ये घ्राणस्य पुरतः, “ॐ यम्” इति साङ्गुष्ठ-तर्जन्य्-अग्रेण हृदये, न्यस्येत्

६. प्रणामः - “मूल-मन्त्रेण” प्रणामः।

७.समुत्थानम् - मूल-मन्त्रेण उत्थानम्।

८.स्वागतम् -

ब्रह्माद्यास् सकला देवा यन् न स्मर्तुम् अपीश्वराः।
स एष भगवान् अद्य मम प्रत्यक्षतां गतः॥
स्वागतं भगवन् अद्य मां तारयितुम् आगतः। धन्योस्म्य् अनुगृहीतो ऽस्मि, कृतार्थो ऽस्मि कृपा-निधे॥

इति मन्त्रेण भगवत्-स्वागत-प्रश्नः।

९. पुष्पम् - मूल-मन्त्रेण भगवत्-पादारविन्दयोः पुष्प-समर्पणम्।

१०. सान्निध्ययाचमनम् - उद्धरिण्या ऽर्घ्य-जलम् आदाय - तत्र पुष्पं निक्षिप्य - “ॐ ॐ ज्ञानाय हृदयाय नमः भगवन् सन्निधत्स्वेह विग्रहे” इति भगवन्-मूर्ध्नि पुष्पेण जलं प्रदाय - शेषं प्रतिग्रह-पात्रे निरस्य - पुनर् उद्धरिण्या ऽर्घ्य-जलम् आदाय - अन्यत् पुष्पं निक्षिप्य - “ॐ नां बलाय कवचाय हुम् भगवन् सन्निधत्स्वेह विग्रहे” इति भगवन्-मूर्ध्नि पुष्पेण जलं प्रदाय - शेषं प्रतिग्रह-पात्रे निरस्य - पुनर् उद्धरिण्या ऽर्घ्य-जलम् आदाय - तत्र पुष्पं निक्षिप्य -

[[97]]

ॐ यं तेजसे नेत्राभ्यां वौषट् भगवन् यावद् आराधन-परिसमप्तिसन्निधत्स्वेह विग्रहे

इति भगवन्-मूर्ध्नि पुष्पेण अर्घ्य-जलं प्रदाय - शेषं प्रतिग्रह-पात्रे निरस्य -

सान्निध्यं कुरु देवेश सर्वदा सर्व-काम-द।
द्रव्य-मन्त्र-क्रिया-भक्ति-श्रद्धा-हानिं सह प्रभो॥

इति पूर्वोक्तार्घ्य-त्रय-पुरस्-सरं सान्निध्यस्य याचनम्,

इति दशाह्वान-सत्-क्रिया-प्रकारः,

अथ पूर्वोत्ताधार-शक्त्य्-आदि-पीठ-परिकल्पन-शेषः -

भगवद्-दक्षिणतः।

“ॐ श्रीं श्रियै नमः” इति गो-रोचन-वर्णां, भगवन्-नारायणेत्यादि-गद्योक्त-गुण-सम्पन्नां, श्रियम् आवाह्य - प्रणम्य

“ॐ भूं भूम्यै नमः” इति श्यामां, भूमिम्, आचम्य - प्रणम्य

तत्रैव।

“ॐ नीं नीलायै नमः” इति हरित-वर्णां, नीला, आचम्य - प्रणम्य

“ॐ सर्वाभ्यो भगवद्-दिव्य-महिषीभ्यो नमः” इति सर्वा भगवद्-दिव्य-महिषीस् समन्ततः प्रणमेत्

अथ भगवद्-वक्षसि दक्षिण-भागम् आरभ्य क्रमेण तत्-तन्-मन्त्रेण श्री-भूमि-नीलानां न्यासः - दक्षिण-तद्-इतर-हस्तेषु पद्म-चक्र-गादा-शङ्खानां प्रणवादिनम् ओं तन्-न्यासः, एवं किरीट-श्री-वत्स-कौस्तुभ-वन-मालानां शिरो-वक्षो-दक्षिण-भाग-मध्योभय-पार्श्वेषु न्यासः - तेषां चतुर्-उपचारैर् अर्चनम्। चक्र-मुद्रा मूल-मुद्रा च

श्री भूम्य्-आदि-बिम्बे विद्यमाने दशाह्वान-सत्क्रियां कुर्यात् - तत्-प्रकारः -

१. मन्त्र-योगः - उद्धरिण्या ऽर्घ्य-जलम् आदाय तत्र पुष्प-द्वयं निक्षिप्य उर-स्थं कृत्वा धारण-विधारणे कृत्वा “ॐ श्रीं श्रियै नमः”

इति श्री-मन्त्र-चतुर्-आवृत्ति-पूर्वकम् आवाह्य श्री-विग्रह-चिन्तनम्।

[[98]]

२. समाह्वानम् -

“ॐ परम-धामावस्थिते, मद्-अनुग्रहाभियोगोद्यतावतारे, एह्य् एह्य् अभिमत-सिद्धि-दे, मन्त्र-शरीरे, ॐ नमो नमः - ॐ षौं नमः”

इति श्रिय उद्योग-ध्यानम् - “ॐ यां नमः” इति कर-स्थ-पात्र-जले श्रियः प्रवेश-ध्यानं च।

३. कर-पुष्पोपदर्शनम् - “ॐ रां नमः” इति पात्रं श्री-मुखे दर्शयित्वा - पुरतो निधाय - एकं पुष्पं स-जलं स-तेजो हस्तेनादाय - श्रियो मुखे दर्शनम्।

४. बिम्बोपवेशनम् - “ॐ वां नमः” इति मन्त्रेण श्री-मन्त्रेण च शिरः प्रभृति पादान्तं पुष्प-जलाभ्याम् अभिषिच्य - बिम्बे प्रवेश-ध्यानम् -

५. योग-विग्रह-चिन्तनम् - अन्यत् पुष्पम् आदाय “ॐ लां नमः इति ब्रह्म-रन्ध्रं पिधाय - शेषं प्रतिग्रह-पात्रे निरस्य - श्री-मन्त्रेण विग्रह-ध्यानम्। ततः शिरः प्रभृति पादान्तं पञ्चोपनिषदां सृष्टि-न्यासं कुर्यात् -

तत्-प्रकारः

“ॐ षौं नमः” इति मूर्ध्नि, “ॐ यां नमः” इति नासाग्रे, “ॐ रां नमः” इति हृदये, “ॐ वां नमः” इति गुह्ये, “ॐ लां नमः” इति पादयोः - न्यस्येत्।

“ॐ श्रीं श्रियै नमः” इति श्री-मन्त्रेण व्यापक-न्यासं कृत्वा - “ॐ श्रां ज्ञानाय हृदयाय नमः” इत्य् अङ्गुष्ठ-युक्त-तर्जन्या हृदये,

[[99]]

“ॐ श्रीम् ऐश्वर्याय शिरसे स्वाहा” इत्य् अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् मस्तके, “ॐ श्रूं शक्त्यै शिखायै वौषट्” इत्य् अङ्गुष्ठ-नालेन मुष्टिना अधो मुखेन, शिखा-मध्ये, “ॐ श्रैं बलाय कवचाय हुम्” इति कण्ठादि-कट्य्-अन्तां तनुं पाणिभ्यां वर्मवत् स्पृष्ट्वा - “ॐ श्रौं तेजसे नेत्राभ्यां वौषट्” इति तर्जन्या मध्यमाङ्गुल्या च युगपन् नेत्र-द्वये, न्यस्य - “ॐ श्रः वीर्यायास्त्राय फट्” इति सास्त्रच्छोटेन साङ्गुष्ठ-तर्जन्य्-अग्रेण पूर्वाद्याश् चतुर्-दिशः पूर्वं पश्चाद् अग्न्याद्या विदिशश् च बध्नीयात् -

इति षड्-अङ्ग-न्यासं कुर्यात्।

६. प्रणामः - “श्री-मन्त्रेण” प्रणामः। ७. समुत्थानम् - “श्री-मन्त्रेण” उत्थानम्। ८. स्वागतम् - “श्री-मन्त्रेण” स्वागत-प्रश्नः। ९. पुष्पम् - “श्री-मन्त्रेण” पुष्प-प्रदानम्। १०. सान्निध्य-याचनम् - उद्धरिण्या ऽर्घ्य-जलम् आदाय - तत्र पुष्पं निक्षिप्य -

ॐ ॐ ज्ञानाय हृदयाय नमः भगवति श्रीस् सन्निधत्स्वेह विग्रहे

इति श्री-मूर्ध्नि पुष्पेण जलं प्रदाय - शेषं प्रतिग्रह-पात्रे निरस्य - पुनर् उद्धरिण्या ऽर्घ्य-जलम् आदाय - अन्यत् पुष्पं निक्षिप्य -

ॐ नां बलाय कवचाय हुम्, भगवति श्रीस् सन्निधत्स्वेह विग्रहे

इति श्री-मूर्ध्नि पुष्पेण जलं प्रदाय - शेषं प्रतिग्रह-पात्रे निरस्य - पुनर् उद्धरिण्या ऽर्घ्य-जलम् आदाय तत्र पुष्पं निक्षिप्य

ॐ यं तेजसे नेत्राभ्यां वौषट् भगवति श्रीः, यावद् आराधन-परिसमाप्ति-सन्निधत्स्वेह विग्रहे

इति श्री-मूर्ध्नि पुष्पेण जलं प्रदाय - शेषं प्रतिग्रह-पात्रे निरस्य - एवम् अर्घ्य-त्रय-पुरस्-सरं सान्निध्यस्य याचमनम्

[[100]]

एवं भूमि-नीलयोर् अपि मन्त्र-प्रयोगादि-सान्निध्य-याचन-पर्यन्तं तत्-तन्-मन्त्रेण कुर्यात् -

साल-ग्राम-शिलायां तु, आवाहनं विना,11 सान्निध्य-याचन-मात्रं कुर्यात् -

अथ पूर्वोक्ताधार-शक्त्य्-आदि-पीठ-कल्पन-शेषः -

ॐ किरीटाय मकुटाधि-पतये नमः

इति, भगवतः पश्चिम-पार्श्वे, चतुर्-बाहुं, चतुर्-वक्त्रं , कृताञ्जलि-पुटं, मूर्ध्नि भगवत्-किरीटं धारयन्तं, किरीटाख्यं, दिव्य-पुरुषं प्रणम्य।

ॐ किरीट-मालायै, आपीडत्मने नमः

इति स्व-मौलिना देवापीडं बिभ्रतं, आपीडात्मानं, दिव्य-पुरुषं, भगवतः पुरतो ध्यात्वा - प्रणम्य,

ॐ दक्षिण-कुण्डलाय मकरात्मने नमः

इति भगवतो दक्षिण-वाम-पार्श्वयोः यथा-क्रमं स्व-मौलिना भगवच्-छ्रवण-भूषणं दधतं मकर-कुण्डलाख्यं सूरि-द्वयं प्रणम्य।

ॐ वाम-कुण्डलाय मकरात्मने नमः

इति भगवतो दक्षिण-वाम-पार्श्वयोः यथा-क्रमं स्व-मौलिना भगवच्-छ्रवण-भूषणं दधतं मकर-कुण्डलाख्यं सूरि-द्वयं प्रणम्य।

ॐ वैं वैजयन्त्यै वन-मालायै नमः

इति पञ्च-वर्णां, मृदु-तनुं, पञ्च-भूत-धार-भूतां भूत-मालाख्यां,मूर्ति-मतीं श्रियम् इव स्थितां भगवतः पुरतः प्रणम्य।

[[101]]

ॐ श्रीमत्-तुलस्यै नमः

इति पुरतो वैजयन्ती-पार्श्वे

श्यामां कमल-सत्राक्षीं गोविन्द-चरण-प्रियां प्रियाम्।
प्रियां श्रियम् इवानन्यां हरेर् नित्य-विभूषणं

प्रणम्य।

ॐ श्री-वत्साय श्री-निवासाय नमः

इति पुरतः,प्रधान-तत्त्वाधार-भूतं, हेम-प्रभं, श्री-वत्सं प्रणम्य।

ॐ हराय सर्पाभरणाधिपतये नमः

इति हारात्मानं पुरतः प्रणम्य

ॐ कौस्तुभाय सर्व-रत्नाधिपतये नमः

इति पुरतो जीव-तत्वाधार-भूतं, भास्वर-ववुषं, कौस्तुभात्मानं प्रणम्य,

ॐ काञ्ची-गुणोज्वलाय दिव्य-पीताम्बराय नमः

इति पुरतः पीताम्बरं प्रणम्य।

ॐ सर्वेभ्यो भगवद्-दिव्य-भूषणेभ्यो नमः

इति

तत्-तद्-अङ्ग-समुत्थानि तेजांसीव परात्मनः।
सुसारणि सुगन्धीनि सुकुमाराकृतीनि च।
मनो-नयन-हारीणि देवस्यापि निजैर् गुणैः।
स्वैर् एव धार्यमाणानि रूपैर् बहु-विधैश् शुभैः।
यथा-रूपं यथा-स्थानं यथा-वर्णं यथा-क्रमम्।
प्रणम्य चिन्तयेद् भक्त्या स्वैर् मन्त्रैः पुरतो हरेः।

इत्य् आदि-क्रमेण भगवतः पुरत एव नूपुरादीनि सर्वाणि भूषणानि ध्यात्वा - प्रणम्य।

[[102]]

ॐ सुदर्शनाय हेति-राजाय नमः

इति सुदर्शनात्मानं, रक्त-वर्णं, रक्त-नेत्रं, द्वि-भुजं, कृताञ्जलि-पुटं, भगवन्तम् आलोकयन्तं, तद्-दर्शनानन्द-बृंहित-मुखं, मूर्ध्नि भगवच्-चक्रं धारयन्तं मनस् तत्वाधि-दैवतं प्रणम्य।

ॐ नन्दकाय खड्गाधिपतये नमः

इति तत्रैव, ज्ञान-तत्वाधि-दैवतं, मूर्ध्नि भगवत्-खड्गं धारयन्तं, दिव्य-पुरुषं प्रणम्य।

ॐ पद्माय नमः

इति तत्रैव, शिरसि पद्मं धारयन्तं, शैत्य-सौगन्ध्य-सौन्दर्य-मार्दवादि-गुणं, लीला-पद्मं, ध्यात्वा - प्रणम्य।

ॐ पाञ्चजन्याय शङ्खाधिपतये नमः

इति, वामतः, शङ्खात्मानं, सित-वर्णं, रक्त-नेत्रं, द्वि-भुजं, कृताञ्जलि-पुटं, शङ्ख-नाद-बृंहित-मुखं, मूर्ध्नि भगवच्-छङ्खं धारयन्तं, प्रणम्य।

ॐ कौमोदक्यै गदाधिपत्न्यै नमः

इति तत्रैव गदां, देवीं , महत्-तत्वाधि-दैवतं, भगवद्-गदां शिरसा दधतीं प्रणम्य।

ॐ शार्ङ्गाय चापधिपतये नमः

इति तत्रैव त्रि-णतं, शिरसा भगवद्-धनुर् धारयन्तं,तत्-तत्-आकृति-शर-तूणीर-द्वय-समेतं, शार्ङ्गात्मानं, प्रणम्य।

ॐ सर्वेभ्यो भगवद्-दिव्यायुधेभ्यो नमः

इति सर्वाणि भगवद्-आयुधानि, स्व-शिरो-धृत-स्व-स्व-रूपायुधानि, प्रणम्य।

ॐ सर्वाभ्यो भगवत्-पादारविन्द-संवाहिनेभ्यो नमः

इति भगवत्-पादारविन्दं वाहिनीस् समन्ततः प्रणम्य।

[[103]]

ॐ अन्-अन्ताय नाग-राजाय नमः

इति पृष्ठतः, अन्-अन्तं नाग-राजं, चतुर्-बाहुं, हल-मुसल-धरं, कृताञ्जलि-पुटं, फणामणि-सहस्र-मण्डितोत्तमाङ्गं वारुणी-कान्तिभ्यां पत्नीभ्यां समेतं भगवन्तम् आलोकयन्तं, तद्-दर्शनानन्द-बृंहित-सर्वाङ्गं, ध्यात्वा प्रणम्य।

ॐ सर्वेभ्यो भगवत्-परिजनेभ्यो नमः

इति अन्-उक्तान् अ-सङ्ख्येयान् , भगवत्-परिजनान्, सर्वतः प्रणम्य।

ॐ भगवत्-पादुकाभ्यां नमः

इति पुरतः,पादुके प्रणम्य।

ॐ सर्वेभ्यो भगवत्-परिच्छदेभ्यो नमः

इति सर्वान्, परिच्छदान् सर्वतः प्रणम्य।

ॐ वैं वैनतेयाय नमः

इति अग्रतः, वैनतेयं, समासीनं, द्वि-भुजं, कृताञ्जलि-पुटं, भगवन्तम् आलोकयन्तं, रुद्रा-सुकीर्तिभ्यां समेतं, ध्यात्वा, प्रणम्य।

ॐ भगवते विष्वक्सेनाय नमः

इति भगवतः प्राग्-उत्तरे दक्षिणा-मुखं, चतुर्-भुजं, कृताञ्जलि-पुटं,शङ्ख-चक्र-धरं, नील-मेघ-निभं, सूत्रवत्या पत्न्या समेतं, ध्यात्वा - प्रणम्य।

ॐ गं गजाननाय नमः

इति विष्वक्सेन-परिजनान्, तस्य समन्ततः प्रणम्य।

ॐ जं जयत्सेनाय नमः

इति विष्वक्सेन-परिजनान्, तस्य समन्ततः प्रणम्य।

ॐ हं हरि-वक्त्राय नमः

इति विष्वक्सेन-परिजनान्, तस्य समन्ततः प्रणम्य।

ॐ कं काल-प्रकृति-सञ्जकाय नमः

इति विष्वक्सेन-परिजनान्, तस्य समन्ततः प्रणम्य।

ॐ सर्वेभ्यो भगवद्-विष्वक्सेन-परिजनेभ्यो नमः

इति विष्वक्सेन-परिजनान्, तस्य समन्ततः प्रणम्य।

[[104]]

ॐ चण्डाय द्वार-पालाय नमः

इति पूर्व-द्वार-पार्श्वयोः शङ्ख-चक्र-गदा-ऽऽज्ञा-मुद्रा-धर-चतुर्-हस्तौ, चण्ड-प्रचण्डौ प्रणम्य।

ॐ प्रचण्डाय द्वार-पालाय नमः

इति पूर्व-द्वार-पार्श्वयोः शङ्ख-चक्र-गदा-ऽऽज्ञा-मुद्रा-धर-चतुर्-हस्तौ, चण्ड-प्रचण्डौ प्रणम्य।

ॐ भद्राय द्वार-पालाय नमः

इति दक्षिण-द्वार-पार्श्वयोः पूर्वोक्त-लक्षणौ भद्र-सुभद्रौ प्रणम्य।

ॐ सुभद्राय द्वार-पालाय नमः

इति दक्षिण-द्वार-पार्श्वयोः पूर्वोक्त-लक्षणौ भद्र-सुभद्रौ प्रणम्य।

ॐ जयाय द्वार-पालाय नमः

इति पश्चिम-द्वार-पार्श्वयोः पूर्वोक्त-लक्षणौ जय-विजयौ प्रणम्य।

ॐ विजयाय द्वार-पालाय नमः

इति पश्चिम-द्वार-पार्श्वयोः पूर्वोक्त-लक्षणौ जय-विजयौ प्रणम्य।

ॐ धात्रे द्वार-पालाय नमः

इति उत्तर-द्वार-पार्श्वयोः पूर्वोक्त-लक्षणौ धातृ-विधातारौ, प्रणय्य।

ॐ विधात्रे द्वार-राय नमः

इति उत्तर-द्वार-पार्श्वयोः पूर्वोक्त-लक्षणौ धातृ-विधातारौ, प्रणय्य।

ॐ सर्वेभ्यो भगवद्-द्वार-पालेभ्यो नमः

इति सर्वान् द्वार-पालान् सर्वतः प्रणम्य।

ॐ कुमुदाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः,

इति पूर्वस्याम्, कुमुदादि-गणाधिपतीन्, चतुर्-बाहून्, शङ्ख-चक्र-गदा-धरान्,स-वाहन-परिवार-प्रहरणान्, ध्यात्वा - प्रणम्य

ॐ कुमुदाक्षाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः,

इति आग्नेय्याम्, कुमुदादि-गणाधिपतीन्, चतुर्-बाहून्, शङ्ख-चक्र-गदा-धरान्,स-वाहन-परिवार-प्रहरणान्, ध्यात्वा - प्रणम्य

ॐ पुण्डरीकाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः,

इति दक्षिणस्याम्, कुमुदादि-गणाधिपतीन्, चतुर्-बाहून्, शङ्ख-चक्र-गदा-धरान्,स-वाहन-परिवार-प्रहरणान्, ध्यात्वा - प्रणम्य

ॐ वामनाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः,

इति नैर्ऋत्याम्, कुमुदादि-गणाधिपतीन्, चतुर्-बाहून्, शङ्ख-चक्र-गदा-धरान्,स-वाहन-परिवार-प्रहरणान्, ध्यात्वा - प्रणम्य

ॐ शङ्कु-कर्णाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः,

इति पश्चिमस्याम्, कुमुदादि-गणाधिपतीन्, चतुर्-बाहून्, शङ्ख-चक्र-गदा-धरान्,स-वाहन-परिवार-प्रहरणान्, ध्यात्वा - प्रणम्य

ॐ सर्व-नेत्राय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः,

इति वायव्याम्, कुमुदादि-गणाधिपतीन्, चतुर्-बाहून्, शङ्ख-चक्र-गदा-धरान्,स-वाहन-परिवार-प्रहरणान्, ध्यात्वा - प्रणम्य

ॐ सुमुखाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः,

इति उत्तरस्याम्, कुमुदादि-गणाधिपतीन्, चतुर्-बाहून्, शङ्ख-चक्र-गदा-धरान्,स-वाहन-परिवार-प्रहरणान्, ध्यात्वा - प्रणम्य

ॐ सुप्रतिष्ठिताय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः,

इति ऐशान्यां, च कुमुदादि-गणाधिपतीन्, चतुर्-बाहून्, शङ्ख-चक्र-गदा-धरान्,स-वाहन-परिवार-प्रहरणान्, ध्यात्वा - प्रणम्य

ॐ सर्वेभ्यो भगवत्-पारिषदेभ्यो नमः

इति पूर्वोक्त-लक्षणान् सर्वान्, पारिषदान्, नमस् ततः प्रणम्य,गन्धाद्यैर् अभ्यर्चयेत्।

[[105]]

पूजायाम् आवाहन-स्थानानि12 - क्षीरार्णवादित्य-मण्डल-हृदयानि; मधुरायोध्यादि-दिव्यावतार-स्थानानि; अन्यानि पौराणिकानि; श्री-रङ्गादीनि यथा-रुचि।

एवं भगवन्तं नारायणं, देवी-भूषणायुध-परिजन-परिच्छद-द्वार-पाल-पारिषदैस् सेव्यमानं, स्वाधीन-त्रि-विध-चेतनाचेतन-स्व-रूप-स्थिति-प्रवृत्ति-भेदं, क्लेश-कर्माद्य्–अ-शेष–दोषा-संस्पृष्टं, स्वाभाविकान् अवधिकातिशय-ज्ञान-बलैश्वर्य-वीर्य-शक्ति-तेजः-प्रभृत्य्-असङ्ख्येय-कल्याण-गुण-गणौघ-महार्णवं, ध्यात्वा - प्रणम्य - मूल-मन्त्रेण स्वात्मानं भगवते निवेद्य - प्रणम्य - अनुज्ञाप्य - पूजाम् आरभेत।

इज्या-कालस् तृतीयोयम् अह्नोंशस् समुपागतः।
सम्भृताश् चैव सम्भाराः कल्पितान्य् आसनानि च।
स्नानाद्य्-अर्थानि देवेश तवेच्छा वर्तते यदि।
अवलोकन-दानेन तत् सर्वं स-फलं कुरु।
तद्-अर्थं सह देवीभ्यां सानुगैस् सचिवैस् सह।
मद्-अनुग्रहाय कृपया ह्य् अत्रागन्तुं त्वम् अर्हसि

इति विज्ञाप्य - मन्त्रासनम् आनीय - गन्धदिभिर् अभ्यर्च्य - मूल-मन्त्रेण पादुके प्रदाय - तत्रोपविष्टे भगवति, उद्धरिण्या पूर्व-स्थापिताद् अर्घ्य-पात्राद् अर्घ्य-जलम् आदाय, पाणिभ्यां घ्राण-समम् उद्धृत्य। तिष्ठन् अवनताननस् सन् “भगवन् मत्-पूजां प्रतिगृह्णीष्व” इति प्रार्थयन्, भगवन्-मुखे दर्शयित्वा - घण्टा-नाद-पूर्वकं, भगवद्-दक्षिण-हस्ते किञ्चित् प्रदाय - शेषम् अर्घ्य-प्रतिग्रह-पात्रे प्रक्षिपेत् -

[[106]]

हस्त-शाटिकां प्रदाय - स्व-हस्तौ प्रक्षाल्य - पादयोः पुष्पाणि दत्त्वा - ततस् स्व-हस्त-द्वयं प्रसार्य -

अ-कृत्रिम–प्रेम-रस–निर्भरैस् स्व-कराम्बुजैः। शुद्धस् स्व-भाव-सुभगैस् सुख-स्पर्शैस् सुगन्धिभिः।
संवाह्यमानम् अनिशं शेष-शेषाशनादिभिः।
असत्यस्यातिनीचस्य भक्ति-हीनस्य दुर्मतेः।
ममापि करयोर् अद्य स्वयैव कृपया हरे।
निधेहि चरण-द्वन्द्वं त्वाम् अस्मि शरणं गतः

इति सम्प्रार्थ्य - पाद्य-पात्राज् जलम् आदाय मूल-मन्त्रोच्चारण-पूर्वकं “भगवन्न् इदं पाद्यं प्रतिगृह्णीष्व” इति

प्रार्थयन्न् अवनताननः भगवत्-पादयोः किञ्चित् प्रदाय - मनसा पादौ प्रक्षाल्य - शेषं पाद्य-प्रतिग्रह-पात्रे प्रक्षिपेत्। एवं द्विः पादौ वस्त्रेण सम्मृज्य - गन्ध-पुष्पाणि दत्त्वा - आचमनीय पात्राद् आचमनीयम् आदाय - मूल-मन्त्रोच्चारण-पूर्वकम्, “आचमनीयं प्रतिगृह्णीष्व” इति प्रार्थयन् घण्टा-नाद-पूर्णकं, भगवद्-दक्षिण-हस्ते किञ्चिद् दत्त्वा - आचामन्तं भगवन्तं ध्यात्वा - शेषम् आचमन-प्रतिग्रह-पत्रे प्रक्षिपेत्। एवं त्रिः। ततो गन्ध-पुष्प-धूप-दीपाचमन-मुख-वास-ताम्बूलादीनि13 दत्त्वात्वा - प्रणम्य -

आत्मात्मीयं सर्वं, भगवन्, नित्यकिङ्करत्वाय स्वीकुरु

इति भगवते निवेदयेत्। अर्घ्यादि-स्नानान्त-व्यति-रिक्तानाम् उपचाराणां मुख्य-द्रव्यालाभे सर्वार्थतो येनैव दानम्। मूल-मन्त्रेणैव सर्वोपचारान् प्रदर्शनादि-पूर्वकं समर्पयेत्। 14

[[107]]

ततः, स्नानासनम् आनीय - गन्धादिभिर् अभ्यर्च्य - प्रणम्य -

स्नान-कालस् त्व् अयं प्राप्तस् तवेच्छा वर्तते यदि।
अभ्यञ्जयित्वा देवेश सुस्नानं कर्तुम् अर्हसि।
स्फुटी-कृतं मया देव इदं स्नान-परे त्वयि।
स-पाद-पीठं परमम् इदं स्नानासनं महत्।
आसादयाशु स्नानार्थं मद्-अनुग्रह-काम्यया॥

इति विज्ञाप्य - मूल-मन्त्रेण पादुके प्रदाय - तत्रोपविष्टे भगवति, माल्य-वस्त्र-भूषणान्य् अपनीय, विष्वक्सेनाय दत्त्वात्वा - स्नान-शाटिकां प्रदाय - पाद्य, आचमन, पाद-पीठ-प्रदान, दन्त-काष्ठ, जिह्वा-निर्लेखन, गण्डूष15, मुख-प्रक्षालन, हस्त-पक्षालन, आचमन, आदर्श-प्रदर्शन, हस्त-प्रक्षालन, मुख-वास, ताम्बूल, तैलाभ्यञ्जन, उद्वर्तन, आमलक-तोय, प्रक्षालन-तोय, कङ्कत,प्लोत-देह-शोधन-शाटिका-प्रदान, हरिद्रा-लेपन, प्रक्षालन, वस्त्रोत्तरीय-यज्ञोपवीत, पाद्य, आचमन, पवित्र-प्रदान, गन्ध, पुष्प, धूप, दीप, आचमनानि दत्त्वात्वा - नृत्त-गीत-वाद्यादि-सर्वमङ्गलैस् सह, पुरुष-सूक्तेन मूल-मन्त्रेण च भगवन्तं - स्नानीय-तोयेनाभिषिच्य - नीराजन, आचमन, देह-शोधन-प्लोत-वस्त्रोत्तरीय, पाद्य, आचमन, कूर्च-प्रसारणानि समर्पयेत्।

ततः, अलङ्कारासनम् आनीय - गन्धादिभिर् अभ्यर्च्य - प्रणम्य -

सम्पन्नं देव-सद्-वस्त्र-भूषा-स्रक्-चन्दनादिकम्। अलङ्कारासनम् भद्रम् अधितिष्ठ-तृतीयकम्

इति विज्ञाप्य - मूल-मन्त्रेण पादुके प्रदाय - तत्रोपविष्टे, पञ्च-पात्र-स्थ-तोयान्य् अ-शेषाणि परिहृत्य - स्नानीय-वर्जम् अर्घ्यादीनि पूर्ववत् कल्पयित्वा - अर्घ्य-पाद्याचमनीयानि दत्त्वात्वा - गन्ध, पाद-सम्मर्दन-वस्त्रोत्तरीय-भूषणोपवीताचमनीयानि दत्त्वा, पुष्प-प्रदानालङ्काराञ्जनोर्ध्व-पुण्ड्रादर्श-प्रदर्शनाचमनानि समर्प्य -

[[108]]

घण्टा-नाद-पूर्वकं, धूपं दीपं तत आचमनं च दद्यात् - ध्वजच्-छत्र-चामर-वाहन-शङ्ख-चिह्न-काहली-भेर्यादि-स-कल-वाद्य-नृत्त्-गीतादिभिर् अभ्यर्चयेत्। एवं श्री-भूमि-नीलानाम् अपि ततः16 अन्-अन्त-गरुड-विष्वक्सेन-हेति-राजादीनां, पराङ्कुशाद्य्-आचार्याणां स्नानासनाद्य्-अलङ्कारासनान्तोपचारान् प्रत्येकं प्रत्येकं समर्पयेत् - अथवा गन्ध, पुष्प, धूप-दीपाचमनीयान्य् एव दद्यात् - अथ मन्त्रैः भगवतः पुष्पाणि समर्पयेत् - तत्-प्रकारः।

हरिः ॐ, अग्निमीळेपुरोहितं यज्ञस्य देवमृत्विजम्, होतारं रत्नधातमम्, हरिः ॐ - [[TODO: परिष्कार्यम्]]

हरिः ॐ, इषोत्वोर्जेत्वा वायवस्थोपायवस्थ देवोवस्साविता प्रार्पयतु श्रेष्ठतमाय कर्मणे, हरिः ॐ - [[TODO: परिष्कार्यम्]]

हरिः ॐ, अग्न अयाहि वीतये गृणानो हव्य दातये, निहोतासथ्सि बर्हिषि, हरिः ॐ - [[TODO: परिष्कार्यम्]]

हरि ॐ, शन्नो देवीरभिष्टय आपो भवन्तु पीतये शंयोरभिस्रवन्तु नः हरिः ॐ - [[TODO: परिष्कार्यम्]]

ओमित्यग्रे व्याहरेत्, नम इति पश्चात्, नारायणायेत्युपरिष्टात्, ओमित्येकाक्षरं,नम इति द्वे अक्षरे नारायणायेति पञ्चाक्षराणि, एतद्वै नारायणस्याष्टाक्षरं पदं, योह वै नारायणस्याष्टाक्षरं पदमध्येति,अनपब्रवस्सर्वमायुरेति, विन्दते प्राजापत्यं रायस्पोषं गौपत्यम्,ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति, य एवं वेद, इत्युपनिषत् हरिः ॐ [[TODO: परिष्कार्यम्]]

[[109]]

अथ कर्माण्य् आचाराद्यानि गृह्यन्ते, उदग्-अयन-पूर्व-पक्षाहाः पुण्याहेषु कार्याणि, यज्ञोपवीतिना, प्रदक्षिणम्।

इच्छामो हि महा-बाहुं रघु-वीरं महा-बलम्।
गजेन महता यान्तं रामं छत्रावृतासनम्॥

तं दृष्ट्वा शत्रु-हन्तारं महर्षीणां सुखावहम्।
बभूव हृष्टा वै देही भर्तारं परिषस्वजे॥

धर्म-क्षेत्रे कुरु-क्षेत्रे समवेता युयुत्सवः।
मामाकाः पाण्डवाश् चैव किम् अकुर्वत सञ्जय॥

एष नारायणश् श्रीमान् क्षीरार्णव-निकेतनः।
नाग-पर्यङ्कम् उत्सृज्य ह्य् आगतो मधुरां पुरीम्॥

पराशरं मुनि-वरं कृत-पौर्वाह्णिक-क्रियम्।
मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च॥

नमामि सर्व-लोकानां जननीम् अब्धि-सम्भवाम्।
श्रियम् उन्निद्र-पद्माक्षीं विष्णु-वक्षः-स्थले स्थिताम्।

तासाम् आविर् अभूच् छौरिः स्मयमान-मुखाम्बुजः।
पीताम्बर-धरस् स्रग्वी साक्षान्-मन्मथ-मन्मथः।

वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्-पतिः। आस्ते विष्णुर् अचिन्यात्मा भक्तैर् भागवतैस् सह॥

द्राविडम्

शेन्ऱाल् कुडै यामिरुन्दाल् शिङाशनमां, निन्ऱाल् मरवडियां नीळ् कडलुळ्,एन्ऱुं पुणैयाम्मणि विळक्कां पूंपट्टांपुल्गुं अणैयां, तीरुमाऱ् करवु

कदा पुनश् शङ्ख-रथाङ्ग-कल्पक-
ध्वजारविन्दाङ्कुश-वज्र-लाञ्छनम्।
त्रिविक्रम-त्वच्-छरणाम्बुज-द्वयं
मदीय-मूर्धानम् अलङ्करिष्यति॥

अखिल-भुवन-जन्म-स्थेम-भङ्गादि-लीले
विनत विविध-भूत-प्रातरक्षैक-दिक्षे। श्रुति-शिरसि विदीप्ते ब्रह्मणि श्रीनिवासे
भवतु मम परस्मिन् शेमुषी भक्ति-रूपा॥

स्वस्ति हस्ति-गिरि-हस्त-शेखरस्
सन्तनोतु मयि सन्ततं हरिः।
निस्समाभ्यधिकम् अभ्यधत्त यं
देवम् औपनिषदी सरस्वती।

मणि-वर इव शौरेर् नित्य-हृद्यो ऽपि जीवः
कलुष-मतिर् अविन्दन् किङ्करत्वाधिराज्यम्। विधि-परिणति-भेदाद् वीक्षितस् तेन काले
गुरु-परिषद्-उपज्ञं प्राप्य गोपायति स्वम्॥

कल्याणानाम् अ-विकल-निधिः कापि कारुण्य-सीमा-
नित्या-मोदा-निगमन-वचसा मौलि-मन्दार-माला।
सम्पद्-दिव्या-मधु-विजयिनस् सन्निधत्तां सदा मे
सैषा देवी सकल-भुवन-प्रार्थना-काम-धेनुः॥

[[110]]

उपवीतिनम् ऊर्ध्व-पुण्ड्रवन्तं त्रि-जगत्-पुण्य-फलं त्रि-दण्ड-हस्तम्।
शरणागत-सार्थ-वाहम् ईडे शिखया शेखरिणं पतिं यतीनाम्

भाद्र-पद-मास-गत-विष्णु-विमल-ऋक्षे
वेङ्कट-महीध्र-पति-तीर्थ-दिन-भूते।
प्रादुर् अभवज् जगति दैत्य-रिपु-घण्टा-
हस्त-कवि-तार्किक-मृगेन्द्र-गुरु-मूर्त्या

इत्यादिभिः मूल-मन्त्रेण प्रत्यक्षरं च पुष्पं प्रदाय - द्वादशाक्षरेण, विष्णु-गायत्र्या, पञ्चोपनिषन्-मन्त्रैः, पुरुष-सूक्त-ऋग्भिः, अन्यैश् च भगवन्-मन्त्रैः पुष्पं प्रदाय - देव्य् आदि-पारिषदान्तं, तत्-तन्-मन्त्रेण पुष्पं प्रदाय - प्रणम्य - प्रतिदिशं प्रदक्षिण-प्रणाम-पूर्वकं भगवते पुष्पाञ्जलिं दत्त्वा - पुरतः प्रणम्य - श्रुति17-सुखैस् स्तोत्रैस् स्तुत्वा - स्वात्मानं नित्य-किङ्करत्वेन निवेद्य - तथैव ध्यात्वा - यथा-शक्ति-मूल-मन्त्रं जपित्वा - सर्व-भोग-प्रपूरणीं शालि-तण्डुल-निर्मितां मात्रां ध्यात्वा -

भोगापवर्ग-फलदान् भुङ्क्ष्व भोगान् जगद्-गुरो।
सताम् अप्य् असताम् एषाम् अस्तु ते परिपूर्णता

इति प्रार्थ्य - मुख-वास-ताम्बूलादीनि प्रदाय - अर्घ्यं दत्त्वा - भोज्यासनम् आनीय - अभ्यर्च्य प्रणम्य -

प्राप्यन्तु प्रापणे काले पतत्य् आनीत एष ते।
मृष्ट-मेध्य-स्थिरान्नानि भक्ष्य-भोज्यान्य् अन्-एकशः।
सम्पन्नानि जगन्-नाथ भोज्यासनम् उपाश्रय

इति विज्ञाप्य - पादुके प्रदाय - तत्रोपविष्टे भगवति पाद्याचमनार्हणीयानि18 दत्त्वा - गुडं, माक्षिकं, सर्पिः, दधि, क्षीरं19

चेति पात्रे निक्षिप्य - शोषणादिभिर् विशोध्य - अर्घ्य-जलेन प्रोक्ष्य, अवनत-शिराहर्षोत्फुल्ल-नयनो हृष्ट-मानसो भूत्वा, प्रदाय आचमनीयं दद्यात्।

[[111]]

यद्-द्रव्यं भगवते दीयते तत्-सर्वं शोषणादिभिर् विशोध्य अर्घ्य-जलेन सम्प्रोक्ष्यास्त-मन्त्रेण रक्षां कृत्वा, दद्यात्, ततश् च गां सुवर्णं रत्नानि च दद्यात्, ततः, सुसंस्कृतान्नम् आज्याढ्यं दधि-क्षीर-मधूनि च, फल-मूल-व्यञ्जनानि, मोदकांश् च, अन्यानि लोके प्रियतमानि, शास्त्राविरुद्धानि, आत्मनश् चेष्टानि सम्भृत्य शोषणादिभिर् विशोध्य - आर्घ्य-जलेन प्रोक्ष्य - अस्त्र-मन्त्रेण रक्षां कृत्वा सुरभि-मुद्रां प्रदर्श्य देवस्य पुरतो निधाय कृताञ्जलिस् स-भयस् तिष्ठन्,

अ-सत्यम् अ-शुचिं नीचम् अपराधैक-भाजनम्।
अल्प-शक्तिम् अ-चैतन्यम् अनर्हं त्वत् क्रियास्व् अपि।
माम् अन्-आदृत्य दुर्बुद्धिं स्वयैव कृपया विभो।
अतिप्रभूतम् अत्यन्त-भक्ति-स्नेहोपपादितम्।
शुद्धं सर्व-गुणोपेतं सर्व-दोष-विवर्जितम्।
स्वानुरूपं विशेषेण स्व-देव्योस् सदृशं गुणैः।
त्वम् एवेदं हविः कृत्वा स्वीकुरुष्व सुरेश्वर।
पायसान्नं गुडान्नं च मुद्गान्नं शुद्धम् ओदनम्। दधि-क्षिराज्य-सम्मिश्रं नानापूप-फलान्वितम्।
यतीन्द्र-यामुनेयाद्यैः पराङ्कुश-मुखैर् अपि।
निवेद्यमानं नैवेद्यं स्वीकुरुष्व सुरेश्वर॥

इति सम्प्रार्थ्य

अति प्रभूतम् अति प्रियतमं अति समग्रम् अत्यन्त-भक्ति-कृतम् इदं स्वीकुरु

इति प्रणाम-पूर्वकम् अत्यन्त-साध्व्-अविनयावनतः परिषेचनोपस्तरणार्थं देवस्य दक्षिण-हस्ते, अर्घणाम्बु दत्त्वा घण्टा-नाद-पुरस्सरं ग्रास-मुद्रया20 हविर्-आदिकं मूल-मन्त्रेण निवेदयेत्। मध्ये मध्ये पानीयं च समर्पयेत्

[[112]]

ततश् चानुपान-तर्पणे21 प्रदाय - सर्वार्थ-तोये स-हस्त-प्रक्षालन, गण्डूष, मुख-प्रक्षालनानि समर्प्य - ततः पाद्यम् आचमनीयं च समर्प्य - प्लोत-वस्त्रेण मुख-शोधनं, हस्त-शोधनं, पाद-शोधनं कृत्वा गन्ध-पुष्प-मुख-वास-ताम्बूलानि दत्त्वा प्रणमेत्।

देव्य्-आदीनाम् अपि हविर् निवेदन-पक्षे भगवन्-निवेदिताद् अन्यद् धविर् निवेदयेत्। पुनर् मन्त्रासनं कूर्चेन मार्जयित्वा - गन्धादिभिर् अभ्यर्च्य - प्रणम्य - अनुज्ञाप्य -

मन्त्रासनम् इदं तुभ्यं मया दत्तम् अन्-उत्तमम्।
कूर्चेन शोधितं विष्णो पुनर् आसादय प्रभो॥

इति विज्ञाप्य मूल-मन्त्रेण पादुके प्रदाय - तत्रोपविष्टे भगवति पाद्याचमने दत्त्वा - माल्य-भूषणादीन्य् अपनीय - सेनेशाय दत्त्वा - पाद्याचमन-गन्ध-पुष्प-धूप-दीपाचमनापूप-फलाचमन-मुख-वास-ताम्बूलादिभिर् अभ्यर्च्य - प्रदक्षणी-कृत्य प्रणम्य -

पर्यङ्कासनम् अभ्यर्च्य प्रणम्य -

भगवन् पुण्डरीकाक्ष-करुणामृत-वारिधे। आसादय मया दत्तं पर्यङ्कासनम् उत्तमम्॥

इति प्रार्थ्य - मूल-मन्त्रेण पादुके प्रदाय - तत्रोपविष्टे भगवति, पाद्याचमने दत्त्वा माल्य-भूषण-वस्त्राणि विसृज्य - विष्वक्सेनाय दत्त्वा - सुख-शयनोचितं सुख-स्पर्शं वासस् तद्-उचितानि भूषणानि, उपवीतं च प्रदाय - आचमनं दत्त्वा - गन्ध-पुष्प-धूप-दीप-मुख-वास-ताम्बूलादिभिर् अभ्यर्च्ययेत्।

[[113]]

चरणम्पवित्रं विततम्पुराणम्, येन पूतस्तरति दुष्कृतानि, तेन पवित्रेण शुद्धेन पूताः, अतिपाप्मनमरातिन्तरेम, लोकस्यद्वारमर्चिमत्पवित्रम्, ज्योतिष्मद्भ्राजमानमहस्वत्, अमृतस्य धारा बहुधा दोहमानम्, चरणन्नोलोके सुधितान्दधातु। [[TODO: परिष्कार्यम्]]

तद्विष्णोः, परमम्पदं सदा पश्यन्ति सूरयः, दिवीव चक्षुराततम्, तद्विप्रासो विपन्यवोजागृवां सस्समिन्धते, विष्णोर्यत्परमं पदम् [[TODO: परिष्कार्यम्]]

पर्याप्त्या अनन्तरायाय सर्वस्तोमोति रात्र उत्तममहर्भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वमेव तेनाप्नोति सर्वञ्जयति [[TODO: परिष्कार्यम्]]

इति नृत्त-गीत-वाद्यादिभिस् सह नीराजनं समर्प्य -

द्राविडम्

शित्तं शीरुकालेवन्दु नैच्छेवित्तु, उपात्तामरै यडिये पोत्तुं पोरुले केळाय, पेत्तं मेय्त्तुण्णुं कुलत्तिलोपि ऱन्दु, सिकुत्तेव लेङ्गलै क्कोल्लामलोपोगादु, इत्तैप्परै कोल्वानन्नुकाण् गोविन्दा, एत्तैक्कुमेल्ल् पिऱविक्कुं, उदन्नोडुत्तोमे या वो मुनक्के नामाट् चे ये वों मत्तैनन् कामङ्गल् मात्तेलोरेम्बावाय्

द्राविडम्

वङ्गक्कडल् कडैन्द मादननैक्केशवनै, तिङ्गळ्तिरुमुगत्तु चेयिलै यार् शेन्रि ऱैञ्जि, अङ्गप्पऱैकोण्डवात्तै अणिपुदु वै, वैङ्गमलत्तण्डेरियल् पट्टर् पिरान्कोदैशोन्न, शङ्गतममिल् मालै मुप्पदुं तप्पामे, इङ्गिप्परिशुरै प्पारी रिरण्डु माल्वरैगोळ्, शेङ्गणो तिरुमुगत्तु च्चेल्वत्तिरुमालाल्, एङ्गुंतिरुवरुल् वेत्तिन् बुरुव रेम्बावाय्

[[114]]

द्राविडम्

पल्लाण्डु पल्लाण्डु पल्लायिरत्ताण्डु, पल्कोडिनूऱायिरं मल्लाण्डतिण्डोळ् मणिवण्णा वुन् शेव्वडि शेव्वितिरुक्काप्पु -

अडियोमोडुं निन्नोडुं पिरिविन्ऱियायिरं पल्लाण्डु, वडिवाय् निन् वलमार्बिनिल् वाल् गिन्ऱमङ्गैयुम्पल्लाण्डु, वडिवार् शोदिवलत्तुऱैयुं शुडरालेयुं पल्लाण्डु, पड्डै बोर्बुक्कु मुलिङ्गुमप्पाञ्जशन्नियमुं पल्लाण्डे -

सर्व-देश-दशा-कालेष्व् अ-व्याहत-पराक्रमा।
रामानुजार्य दिव्याज्ञा वर्धताम् अभिवर्धताम्।
रामानुजार्य दिव्याज्ञा प्रतिवासरम् उज्वला।
दिग्-अन्त-व्यापिनी-भूयात् सा हि लोक-हितैषिणी।
श्रीमन् श्री-रङ्ग-श्रियम् अन्-उपद्रवाम् अनुदिनं संवर्धय।
श्रीमन् श्री-रङ्ग-श्रियम् अन्-उपद्रवाम् अनुदिनं संवर्धय।
नमो रामानुजार्याय वेदान्तार्थ-प्रदायिने ।
आत्रेय-पद्म-नाभार्य सुताय गुण-शालिने।
रामानुज-दया-पात्रं ज्ञान-वैराग्य-भूषणम्।
श्रीमद्-वेङ्कट-नाथार्यं वन्दे वेदान्त-देशिकम्।

द्राविडम्

वाऱियि रामानुशप्पिल्लान् मातक वाल् वालुं, अणिनिकमान्तगुरु, वाल्लियवन् माऱन् मऱैयु मिरामानुशन् पाषियमुं तेरुंबडियुरैक्कुं शिर -

वञ्जप्पलशमयं माय्क वन्दोन् वाल्लिये, मन्नु पुगल् प्पूदूरान् मनमुकप्पोन् वाल्लिये कञ्ज त्तिरुमङ्गै यु कक्क वन्दोन् वाल्लिये, कलियनुरै कुडिकोण्ड करुत्तुडै योन् वाल्लिये, शेञ्जोल् त्तमिल् मऱैगल् तेलिन्दुरैप्पोन् वाल्लिये, तिरुमलै माल् तिरुमणियाय् शिऱक्क वन्दोन् वाल्लिये, तञ्जप्परकदियै त्तन्दरुल्वोन् वाल्लिये, शेन्दमिल् तूप्पल् तिरुवेङ्गडवन् वाल्लिये”

[[115]]

द्राविडम्

नानिलमुंतान् वाल्लिनान् मरैगल् तां वाल्लि, नूनकरिल् माऱन् मऱैवालि, जानियर् गल् शेन्नियणि शेर्, तूप्पुल् वेदान्त देशिकने इन्न मोरु नूत्ताण्डिरुम्॥ -

वाल्लियणि तूप्पुल् परुनिकमान्ता शीरियन्, वालैयवन्पादारविन्दमलर्, वालै यवन् कोदिलात्ताल् मलरैक्कोण्डाडिक्कोण्डिरुक्कुं, तीथिलानल्लोर् तिरल्

श्रीमान् वेङ्कटनाचार्यः
कविताविककेसरी।
वेदान्ताचार्यवयो मे
सनिधत्तां सदा इदि ॥

श्रीमल्-लक्ष्मण-योगीन्द्र-
सिद्धान्त-विजय-ध्वजम्।
विश्वामित्र-कुलोद्भूतं
वरदायम् अहं भजे ॥ सर्वतन्त्र-स्वतन्त्राय
सिंहाय कवि-वादिनाम्।
वेदान्ताचार्य-वर्याय
वेङ्कटेशाय मङ्गलम् ॥
नभस्य-मासि श्रोणायाम्
अवतीर्णाय सूरये।
विश्वामित्रान्वयायास्तु
वेङ्कटेशाय मङ्गलम् ॥
पिता यस्यानन्त-सूरिः
पुण्डरीकाक्ष-यज्वनः।
पौत्रो यस् तनयस् तोतार्-
अम्बायास् तस्य मङ्गलम् ॥
वेङ्कटेशावतारोऽयं
तद्-घण्टांशो ऽथवा भवेत्।
यतीन्द्रांशोऽथवेत्येवं
वितर्क्यायास्तु मङ्गलम्॥
श्री-भाष्य-कारः पन्थानम्
आत्मना दर्शितं पुनः।
उद्धर्तुम् आगतो नूनम्
इत्य् उक्तायास्तु मङ्गलम् ॥ यो बाल्ये वरदार्यस्य
प्राचार्यस्य परां दयाम् ।
अवाप्य वृद्धिं गमितस्
तस्मै योग्याय मङ्गलम् ॥
रामानुजार्याद् आत्रेयान्
मातुलात् सकलाः कलाः।
अवाप विंशत्यब्दे यस्
तस्मै प्राज्ञाय मङ्गलम्॥
श्रुत-प्रकाशिका भूमौ
येनादौ परिरक्षिता।
प्रवर्तिता च पात्रेषु
तस्मै श्रेष्ठाय मङ्गलम्॥

[[116]]

सांस्कृतीभिर् द्रामिडीभिर्
बह्वीभिः कृतिभिर् जनान्।
यस् समुज्जीवयाम् आस
तस्मै सेव्याय मङ्गलम् ॥
यः ख्याति-लाभ-पूजासु
विमुखो वैष्णवे जने।
क्रयणीय-दशां प्राप्तस्
तस्मै भव्याय मङ्गलम् ॥
यस्माद् एव मया सर्व-
शास्त्रम् अग्राहि नान्यतः।
तस्मै वेङ्कट-नाथाय
मम नाथाय मङ्गलम् ॥
पित्रे ब्रह्मोपदेष्ट्रे मे
गुरवे दैवताय च।
प्राप्याय प्रापकायास्तु
वेङ्कटेशाय मङ्गलम् ॥
यः कृतं वरदार्येण
वेदान्ताचार्य-मङ्गलम्।
आशास्ते ऽनुदिनं सोऽपि
भवेन् मङ्गल-भाजनम्॥
भाद्र-पद-मास-गत-विष्णु-विमलर्क्षे
वेङ्कट-महीध्र-पति–तीर्थ-दिन-भूते ।
प्रादुर् अभवज् जगति दैत्य-रिपु-घण्टा
हन्त कवितार्किक-मृगेन्द्र-गुरु–मूर्त्या ॥
स-शंख-चक्र-लांछनस् सद्-ऊर्ध्व-पुण्ड्र-मण्डितः
सकण्ठ-लग्न-सत्-तुलस्य्-अनर्घ-पद्म-मालिकः ।
सितान्तरीय-सूत्तरीय-यज्ञ-सूत्र-शोभितः
ममाविर् अस्तु मानसे गुरुस् स वेङ्कटेश्वरः ॥
अनन्त-सूरि-सूनवे ऽभिनन्द्यमान-वैभवात्
दिगन्त-वादि-हंस-जैत्र-काल-मेघ-देशिकात् ।
उपात्त-सर्व-शासनाय हन्त वर्ष-विंशतौ
पुनः-पुनर्-नमस्क्रिया ऽस्तु वेङ्कटेश-सूरये ॥
कलये सततं करुणाजलधिं
करुणाविषयं कमलाधिपतेः।
कलिवैरिशठारिवचोरसिकं
कवितार्किककेसरिसूरिगुरुम् ॥
कवि-तार्किक-कलभ-व्रज-कबली-कृति-सिंहं
कमला-पति-करुणा-रस-परिवर्धित-बोधम्।
यति-नायक-पद-पङ्कज-युगली-परतन्त्रं
भज मानस-बुध-वेङ्कट-पति-देशिक-मनिशम्॥
गुरौ वादि-हंसाम्बुदाचार्य-शिष्ये
जनाः भक्ति-हीनाः यतीन्द्राप्रियास् स्युः ।
यतीन्द्राप्रियाः विष्णु-कारुण्य-दूराः
कुतो मुक्ति-वार्ता हि तादृग्-विधानाम् ॥
वेदे सञ्जात-खेदे, मुनि-जन-वचने प्राप्त-नित्या-वमाने
संकीर्णे सर्ववर्णे, सति तद्-अनुगुणे निष्प्रमाणे पुराणे ।
मायावादे समोदे, कलि-कलुष-वशाच् छून्य-वादेऽविवादे
धर्मत्राणाय योऽभूत् स जयति भगवान् विष्णु-घण्टावतारः ॥
आशा-मतङ्गज-गणान् अ-विषह्य-वेगान्
पादे यति-क्षिति-भृतः प्रसभन् निरुद्धन्।
कार्यः कथाऽऽहव कुतूहलिभिः परेषां
कर्णे स एष कवि-तार्किक-सिहं-नादः॥
कवितार्किक-सिंहाय
कल्याण-गुण-शालिने।
श्रीमते वेङ्कटेशाय
वेदान्त-गुरवे नमः॥
कवि-तार्किक-सिहांय कल्याण-गुण-शालिने।
श्रीमते वेङ्कटेशाय वेदान्त-गुरवे नमः

इत्यादिभिः श्रुति-सुखैस् स्तोत्रैस् स्तुत्वा

[[117]]

भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेनानेनात्मना स्वकीयैश् च देहेन्द्रियान्तः-करणैस् स्वकीय-कल्याणतम-द्रव्यमयान् औपचारिक-सांसृर्शिकाभ्यवहारिकादि-समस्त-भोगान् अतिप्रभुतान् अतिप्रियतमान् अतिसमग्रान् अत्यन्त-भक्ति-कृतान् अखिल-परिजन-परिच्छदान्विताय स्वस्मै स्व-प्रीतये स्वयम् एव प्रतिपादितान्

इत्य् अनुसन्धाय।

भगवन् विष्वक्सेनाराधनाय माम् अनुजानीहि

इति भगवन्तम् अनुज्ञाप्य भगवन्-निवेदिताद् धविश् शेषात् विष्वक्सेनाय किञ्चिद् उद्धृत्य निक्षिप्य - अन्यत् सर्वं त्रेधा विभज्य - आत्मार्थम् एकम् अवस्थाप्य - एकं कारिभ्यो दत्त्वा - एकं स्वाचार्य-वैष्णवेभ्यो निवेदयेत् - भगवद्-यागावशिष्टैर् जलैर् विष्वकेसेनम् अभ्यर्च्य - पूर्वोधृतं हविश् च दत्त्वा तद्-अर्चनं परिसमाप्य - तद्-अन्नं तत्-परिचारकेभ्यो निवेद्य जले प्रक्षिपेत् - यद् वा तद्-अनुचरो भूत्वा स्वयं भुञ्जीत।

मनो-बुद्ध्य्-अभिमानेन सह न्यस्य धरातले।
कूर्मवच् चतुरः पादान् शिरस् तत्रैव पञ्चमम्॥
प्रदक्षिण-समेतेन ह्य् एवं भूतेन सर्वदा।
अष्टाङ्गेन प्रणामेन ह्य् उपविश्याग्रतो विभोः॥

इत्य् उक्ताष्टाङ्गेन प्रणम्य - इज्या-मध्ये सम्भावित-बुद्धि-पूर्वापचाराङ्ग-वैकल्यादि-परिहरार्थं शरणम् उपगच्छेत्22

[[118]]

ततो ऽर्घ्य-जलं प्रदाय

अनुयागादिकं चाथ चिकीर्षन्न् आन्हिकं विधिम्।
दत्तानुज्ञः परेणापि गमनायात्मनो बहिः।
निर्गन्तु-कामो निक्षिप्य देवं दौवारिकादिषु।
स-भययत् सानुतापश् च चण्डादीन् द्वार-पालकान्।
कुमुदादीं गणेशांश् च चक्रादीन्य् आयुधान्य् अपि।
गरुडं च विशेषेण शेषं शेषासनस् तथा।
प्रणम्य धारयेद् देवं स-स्नेहादर-साध्वसम्।
निक्षिपन् जीवनम् इव न्यस्यन् इव महा-निधिम्।
निधित्सन्न् इव चक्षुस् स्वम् अर्पयन् इव कल्पकम्।

द्राविडम्

उऱकलु ऱकलुऱकलोण् शुडराले देशं गे, अऱवेऱिनान्तकवाळेयलिकीय शार्ङ्गमेतण्डे, इऱवुपडामलिरुन्दवेण् ममलोकपालीर् काळ्, पऱवै यरैयावुऱकल् वळ्ळियऱै कुऱिक्काण् मिन्॥

सर्वे भवन्तस् स-गणास् सन्नद्धास् सर्व-दिक्ष्व् अपि।
सावधानाश् च तिष्ठन्तु निक्षिपामि भवत्स्व् अहम्।
मम नाथं मम गुरुम् इतरं मातरं च मे ।
हरिं श्रियं भुवं चापितान् पालयत सर्वतः।
यथा-निक्षिप्त-रूपं मे सन्दर्शयत सर्वदा।
भवतश् शरणं लब्ध्वा प्रजामि गत-साध्वसः।

इति विज्ञाप्य पुरतः, प्रार्थयेत हरिं गिरा,

ननु देवत्वम् एवैकस् स्थावर-चरं जगत्।
ब्रहादि-स्थावरान्तं च परिपासि बिभर्षि च।
संहरिष्यसि चाप्य् अन्ते रूपैस् तैस् तैर् यथेप्सितैः।
केन त्वं पाल्यसे देव केन वा त्वं विहस्यसे।
अतस् त्वम् एव त्वां देव्यौ चण्डादीन् पालकान् अपि।
मां च मामकम् अप्य् एतत् सर्वं गृहम् अशेषतः। पालयित्वा स्व-सङ्कल्प-मात्रेण मधुसूदन।
त्वां मया त्वयि निक्षिप्तं विश्वं तेनार्थिकल्पकम्।
आगताय यथा-कालं सर्वं मे दातुम् अर्हसि

इति विज्ञाप्य - कवाटं बध्नीयात् ततो जितन्ता-स्तोत्रानुसंधानं कुर्यात्।

धनुर्-मासे तु ब्राह्म-मुहूर्ते भगवद्-आराधनं कुर्यात्। तद्-अनन्तरम् एव सन्ध्या-वन्दनं कुर्यात्।


  1. एते पञ्चैव पञ्चोपनिषन्-मन्त्राः एतेषु अन्ते नमश् शब्दं केचिन् न पठन्ति। ↩︎

  2. “पृथिवीं शोषयामि - गन्ध-तन्-मात्रं शोषयामि” इत्य् आरभ्य क्रमेण “तमश् शोषयामि” इति पर्यन्तं शोषणं ध्यात्वा - ↩︎

  3. पूर्ववत् - ↩︎

  4. एतेषां पात्राणां प्रतिदिनं विनिमयो यथा न स्यात् तथा परिकल्पयेत्। ↩︎ ↩︎

  5. विराजमानेत्यादि-स्तोत्र-रत्न-श्लोक-प्रतीक-ग्रहणं तद्-अर्थानुसन्धानार्थम्। ↩︎

  6. दशाह्वान-सत्-क्रिया-विशेषः गृहार्चायां नास्ति। ↩︎

  7. वाम-हस्त-तले स-जलाया उद्धरिण्या न्यासः धारणम् - दक्षिण-पाणीनाच्छादनम् विधारणम्, ↩︎

  8. ?? ↩︎

  9. पूर्वोक्त-क्रमेण वासुदेवादि-पद-घटितान् एव पञ्चोपनिषन्-मन्त्रान् केचित् न्यस्यन्ति। ↩︎

  10. स्थितस्य देवस्य स्थिति-न्यासः - उपविष्टस्य सृष्टि-न्यासः - शयानस्य संहार-न्यासः - आवाहन-काले सृष्टि-स्थिति-न्यासौ - विसर्जन-काले संहार-न्यासः। ↩︎

  11. आभिमुख्य-प्रार्थनम् ↩︎

  12. आलयेषु तु मूल-बीम्बे साल-ग्राम-शिलावत् सान्निध्य-याचन-मात्रम् - उत्सवादि-बिम्बानां मूल-बिम्बात् - श्र्य्-आदीनां देवीनां श्री-वत्साच् चावाहनम्। ↩︎

  13. कर्पूर-कुङ्कुम-गुग्गुलु-मातुलुङ्गादि-वासना-द्रव्य-समुदायः। ↩︎

  14. एकैकोपचार-समर्पण-काले तत्-तत्-पदार्थ-नामोच्चारण-पूर्वकं, तत्-तत्-पदार्थम्, “इदम् अवलोकय देव” इति प्रदर्शयेत् - “इदं प्रतिगृह्णीष्व भगवन्” इति दद्यात् - “देव देव दत्त-भोगानुबन्धनस् सर्वान् अपराधान् क्षमस्व” इति क्षापणं कुर्यात् - “अनेन भगवान् प्रीयतां वासुदेवः” प्रीणयेत्। ↩︎

  15. गण्डूषास् त्रयोदश। ↩︎

  16. बिम्बे सति प्रत्येकं कुर्यात्। ↩︎

  17. दिव्य प्रबन्दादिभिः। ↩︎

  18. अर्हणं = शीतलोदक-संयुक्त-मेला-कर्पूर-संयुतम्।
    मन्दोष्णं वासना-युक्तं अर्हणाम्बु-समीरितम्॥ ↩︎

  19. अयम् एव मधु-पर्कः। ↩︎

  20. मध्यमानामिका मध्यम-पर्वणोर् अङ्गुष्ट-योगो ग्रास-मुद्रा। ↩︎

  21. अनुपानम् = जम्बीर-समिश्र-तक्रादीनि - तर्पणम् =

    अ-पक्वैर् अतिपक्वैश् च सुपक्वैर् जल-पक्वकैः।
    पानीयैर् इक्षु-कर्पूरैर् नारिकेल-फलाम्बुभिः।
    एतैर् अपि समायुक्तं तर्पणं समुदाहृतम्॥

     ↩︎
  22. सत्य-ज्ञानानन्तानन्दामल-स्व-रूप, श्रियः पते वत्सल, स्वामिन् सुशील-सुलभ-सर्व-ज्ञ-सर्व-शक्ते परम-कारुणिक-कृत-ज्ञ-स्थिर-परिपूर्ण-परमोदार-शुद्ध-सत्वमय-दिव्य-मङ्गल-विग्रहोपेत-श्रीमन्-नारायण अत्यन्ताकिञ्चनो ऽहमितस् त्वद्-आनुकूल्यम् एव करिष्ये त्वत्-प्रातिकूल्यं न करिष्ये मम च, इज्या-मध्ये सम्भावित-बुद्धि-पूर्वकापचाराङ्ग-वैकल्यादि-परिहार-रूप-रक्षायास् त्वां विना कल्प-कोटि-सहस्रेणापि साधनं नास्ति - त्वम् एवोपायान्तर-स्थाने स्थित्वा, एतद्-रक्षां करिष्यसीति सुदृढम् अध्यवस्यामि त्वम् एवैतद्-रक्षां कुरु - देहेन्द्रियादि-विलक्षणो ऽहं मदीयत्वे नाभिमतं च वस्तु-सर्व-स्वामिने श्रीमते नारायणाय तुभ्यम् एव न मम - एतद्-रक्षा-भर-उक्त-गुण-विशिष्टाय तुभ्यम् एव न मम एतद्-रक्षा-फलम् अपि तुभ्यम् एव न मम इति शरणागति-प्रकारः। ↩︎