०१ माध्याह्निक-स्नान-विधिः

प्रातस् स्नानोक्त-प्रकारेण सङ्कल्प-पूर्वकं भगवच्-छास्त्रोक्त-स्नानं कृत्वा, वस्त्र-धारणं, मन्त्र-स्नानं, मानसिक-स्नानम्, ऊर्ध्व-पुण्ड्र-धारणं, देवर्षि-पितृ-तर्पणं च, पूर्ववत् कुर्यात्

[[76]]

अथवा

धर्म-शास्त्रोक्त-प्रकारेण मृत्तिका-गोमयादिकं गृहीत्वा नद्यादिकं गत्वा - सुप्रक्षालित-पाणि-पादः, तीरं संशोध्य, द्विर् आचम्य - त्रिः प्राणानायम्य - अञ्जलिं बद्ध्वा “अस्मद्-गुरुभ्यो नमः” इदि गुरु-परम्परा-स्मरण-पूर्वकं “श्रीमान्वेङ्कटनाथार्यः” इत्य् आरभ्य

अस्यां शुभ-तिथौ श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं कर्मण्यता-सिद्ध्य्-अर्थं, अस्मिन् तीर्थे, अस्यां नद्यां वा, माध्याह्निक-स्नानं करिष्ये

इति सङ्कल्प्य -

समस्त-जगद्-आधार-शङ्ख-चक्र-गदा-धर।
देहि देव ममानुज्ञां युष्मत्-तीर्थ-निषेवणे

इति साञ्जलि-बन्धं भगवन्तम् अनुज्ञाप्य - तीर्थाधि-दैवतं श्री-रङ्ग-नाथादिकम् अनुज्ञाप्य - दूर्वां,

अश्वक्रान्ते रथक्रान्ते विष्णु क्रान्ते वसुन्धरा। शिरसा धारिता देवि रक्षस्व माम्पदेपदे। उद्धृताऽसि वराहेण कृष्णेन शतबाहुना॥ भूमिर्धेनुर्धरणी लोकधारिणी, मृत्तिके हन मे पापं यन्मया दुष्कृतङ्कृतम्। त्वया हतेन पापेन जीवामि शरदश्शतम्। मृत्तिके देहि मे पुष्टिं त्वयि सर्वं प्रतिष्ठितम् [[TODO: परिष्कार्यम्]]

इति मृदं च गृहीत्वा - तीरं संशोध्य - संस्थाप्य - नाभि-दघ्न-जले सरसि स्नात्वा - मृदं गृहीत्वा “अश्व-क्रान्ते” इत्य् आदि-सप्त वाक्यान्य् उच्चार्य - आर्द्रामलक-मात्रया एकया मृदा शिर आलिप्य - नाभेर् उपरि द्वाभ्यां, अधस् तिसृभिः, षड्भिः पाद-द्वयं चालिप्य -

गन्धद्वारान्दुराधर्षान्नित्यपुष्टाङ्करीषिणीम्। ईश्वरीँ सर्वभूतानान्त्वामिहोपह्वये श्रियं [[TODO: परिष्कार्यम्]]

इति सर्वाङ्गे गोमयम् आलिप्य स्नात्वा -

[[77]]

“उदु॑त्त॒मं … … आयुः॒ प्रमो॑षीः”1 इति षड्-ऋचं वारुण-सूक्तं, “आपो॒वा इ॒दँ ……. भूर्भुव॒स्सुव॒राप॒ ॐ"2 इति यजुः, “आपो॒हिष्ठा ……. आपो॑ज॒नय॑थाचनः”3 इति तिस्रः, “हिरण्यवर्णाश्शुचयः ……. बलमोजोनिधत्त”4 इति चतस्रः, “पव॑मान॒स्सु व॒र्जन॑ ……. पुनातु”5 इत्य् अनुवाकं जपित्वा - प्रोक्ष्य - सूर्यम् प्रणवेन निरीक्ष्य - त्रिर् निमज्ज्य हिरण्य-शृङ्गम् इत्य् आद्यैः प्रातस् स्नानोक्त-प्रकारेण कृत्वा - प्रातः स्नानवत्, देवर्षि-पितृ-तर्पणं, वस्त्र-धारणं, मन्त्र-स्नानं, मानसिक-स्नानम्, ऊर्ध्व-पुण्ड्र-धारणं च कुर्यात् - वस्त्र-निष्पीडन-मात्रं माध्याह्निक-सन्ध्योपासनानन्तरं कुर्यात्।


  1. एते मन्त्राः सम्पूर्णतया धर्म-शास्त्रोक्त-प्रातस्-स्नान-प्रकरणे द्रष्टव्याः ↩︎

  2. एते मन्त्राः सम्पूर्णतया धर्म-शास्त्रोक्त-प्रातस्-स्नान-प्रकरणे द्रष्टव्याः ↩︎

  3. एते मन्त्राः सम्पूर्णतया धर्म-शास्त्रोक्त-प्रातस्-स्नान-प्रकरणे द्रष्टव्याः ↩︎

  4. एते मन्त्राः सम्पूर्णतया धर्म-शास्त्रोक्त-प्रातस्-स्नान-प्रकरणे द्रष्टव्याः ↩︎

  5. एते मन्त्राः सम्पूर्णतया धर्म-शास्त्रोक्त-प्रातस्-स्नान-प्रकरणे द्रष्टव्याः ↩︎