०४ आन्तरोपादान-क्रमः

एवं, बाह्योपकरणवत्, अन्-अनन्तर-भावीज्यानर्हत्वापादकाष्टादश-चण्डाल-षड्-वृषल-सञ्ज्ञका ऽनात्म-गुण-तिरस्कारकतया इज्योपयोगित्वात्, परमात्म सम्प्रीणनेषु

अहिंसा प्रथमं पुष्पं पुष्पं इन्द्रिय-निग्रहः।
सर्व-भूत-दया-पुष्पं क्षमा पुष्पं विशेषतः।
ज्ञानं पुष्पं तपः पुष्पं ध्यानं पुष्पं तथैव च।
सत्यम् अष्ट-विधं पुष्पं विष्णोः प्रीति-करं भवेत्

इत्यादिना प्रधानतमतयोपदेशात्, ज्ञान-वृद्धि-हेतु-भूत-सदाचार्य-सेवा-सम्भाषणादिभिः, अमानित्वादि गुणानाम् आन्तराणां सम्पादनम् अप्य् उपादान-कोटौ निविशते - पूर्व-सिद्ध-बाह्योपकरणस्यापि पुंसः, आन्तरोपकरण-संवर्धक-वेदान्त-कालक्षेपस्याप्य् उपादान-रूपतया तत्-काले तेन काल-यापनं कुर्यात् - एकस्मिन् दिने विष्व्-अयनादि-निमित्त-वशेनानेकेज्या-प्रसक्तौ “अङ्ग-गुण-निरोधे च तादर्थ्यात्” इति न्यायेन, उपादान, अभिगमनादि-काल-सङ्कोचः कार्यः - तस्मात् समाराधनोपयुक्तं बाह्यम् आन्तरं चोपादद्यात् - इत्य् उपादान-निष्कर्षः -

अथ

भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया स्वकीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदं उपादानाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान् -

इति सात्त्विक-त्यागं कृत्वा -

द्राविडम्

अवकाश मिल्लातनमयङ्कलिल् कर्मङ्कलै च्चुरुक्क वेण्डियता यिरुन्ताल् प्रधानमान अङ्गियैच्चुरुक्कामल् अप्रधानमान अङ्गङ्गलैये सङ्कोचप्सडुत्त वेणु मेङ्किऱ न्यायत्ताले विष्वादिनिमित्तमाय् अनेक इज्यै नेरिडुम्पक्षत्तिल् अङ्गङ्गलान अभिगमनोपादान कालङ्गलैये शुरुक्क वेणुं -

[[75]]

कृतञ् च करिष्यामि भगवन् नित्येन भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन उपादानाख्येन भगवत्-कर्मणा भगवान् प्रीयतां वासुदेवः

इति उपादानं भगवति समर्पयेत् -