समित्-पुष्प-कुशादीनाम् अस्त्र-मन्त्रेणार्जनं कुर्यात् -
स्वारामात् स्वार्जितम् उत्तमम् - वन्यं मध्यमम् - क्रय-क्रीतम् अधमम् - प्रतिग्रह-लब्धे दातुर् एव फलम् - कर्तुः किञ्चिद् भवेन् न वा -
समिधः पावनाः पूज्याश् चर्म-युक्ताः परुट्-पराः।
युष्मान् हरामि होमार्थम् अस्मान् रक्षन्तु सर्वदा
इति समिध आहरेत् -
तुलसी ग्रहणे वर्ज्य-दिनानि; -
आर-वारे च शुक्रे च मन्व्-आदिषु युगादिषु।
नाहरेत् तुलसी-पत्रं मध्याह्नात् परतो ऽहनि।
सङ्क्रान्त्यां पक्षयोर् अन्ते द्वादश्यां निशि सन्ध्ययोः।
तुलसीं ये विचिन्वन्ति ते कृन्तन्ति हरेश् शिरः
इत्यादीनि -
तुलस्य्-अमृत-जन्मासि सदा त्वं केशव-प्रिये।
केशवार्थं लुनामि त्वां वरदा भव शोभने॥
मोक्षैक-हेतोर् धरणि-प्रसूते विष्णोस् समस्तस्य गुरोः प्रियेते।
आराधनार्थं पुरुषोत्तमस्य लुनामि पत्रं तुलसि क्षमस्व॥
प्रसीद मम देवेशि प्रसीद हरि-वल्लभे।
क्षीरोद-मथनोद्भूते तुलसि त्वं प्रसीद मे
इति मन्त्रैः, अ-निषिद्ध-दिनेषु साङ्कुरां चतुष्-पत्रां षट्-पत्रां वा तुलसीं गृह्णीयात् -
[[73]]
अ-शुद्ध-देशोद्भव–उग्र-गन्ध–अ-गन्ध–अ-प्रसिद्ध–चत्वर-श्मशानादि-स्थान-ग-अशनि-वाताहत–क्रिमि-कीट-समावृतानि, पत्र-पुष्प-फलादीनि, कृष्ण-पुष्पाणि कर-वीर-पुष्पं च वर्जयेत् - शुद्ध-देशोद्भव–अ-रौद्र–वैष्णव-सङ्गृहीत–हृद्य–सुगन्ध–सित-रक्तानि पुष्पाणि, कण्टकाकण्टकोद्भवानि पुष्पाणि च गृह्णीयात् -
कुशाहरण-विधिः -
शुचौ देशे शुचिर् भूत्वा स्थितः पूर्वोत्तरामुखः।
हुङ्कारेणैव मन्त्रेण कुशास् स्पृश्या द्विजोत्तमैः”
इत्य् उक्त-रीत्या “ॐ हुं" इति स्पृष्ट्वा -
विरिञ्चेन सहोत्पन्न-परमेष्ठि-निसर्ग-ज।
नुद-सर्वाणि पापानि दर्भ-स्वस्ति-करो मम (भव)
इति मन्त्रेण दर्भ-लवनं कुर्यात् -
एवं, आयुर्-बलम् इति मन्त्रेण दन्त-धावन–काष्ठ-पत्राणि सङ्गृह्णीयात् -
कुलटा-षण्ड-पतित-वैरिभ्यः काकिणीम् अपि।
उद्यताम् अपि गृह्णीयान् नापद्य् अपि कदाचन॥
तस्करात् कितवात् षण्डात् डम्भ-लोभ-मदान्वितात्।
मात्रा-वित्तं न गृह्णीयाद् अ-भक्ताद् अपचारतः
इत्य् आदि-भगवच्-छास्त्र-धर्म-शास्त्रादितः प्रतिग्रह-नियमस् सम्यग् अवलोकनीयः - आपद्-वशेनासत्-प्रतिग्रहे सम्भाविते ऽपि
दानं ददद्भिर् यैर् उक्तम् अच्युतः प्रीयताम् इति। प्रतिग्रहीतृभिश् चैव न ते मद्-विषयोपगाः
इति शौनकोपात्त-यम-वचन-रीत्या “अच्युतः प्रीयताम्” इति मन्त्रम् उच्चार्य, सद्-असत् प्रतिग्रहं कुर्यात् - बलादि-मन्त्र-निष्ठानां बलादि-मन्त्रैर् अपि प्रतिग्रहः कार्यः - तद् इह साक्षाद् वा परम्परया वासम् आराधनोपकरण-भूत-शास्त्रीय-समस्त-द्रव्योपायेषु स्व-शक्येषु ध्यानादि-विरोधि-काय-क्लेश-कर-बह्व्-आयास-रहितेषु न्यायतः प्रवर्तेत -
[[74]]