०२ द्रव्यार्जनम्

अह्नो द्वितीय-भागेन कृष्णाराधन-तत्-परः।
द्रव्याण्य् आराधनार्थानि शास्त्रीयाणि समार्जयेत्॥
प्रभूतानि विशुद्धानि शुद्ध-देशोद्भवानि च।
अ-रौद्राण्य् अ-निषिद्धानि सङ्गृहीतानि वैष्णवैः॥
सुगन्धीनि मनो-ज्ञानि पुष्पाण्य् अभिमुखानि च।
वासांसि धन-धान्यानि चन्दनाद्य्-अनुलेपनम्॥
अन्यानि हविर्-अर्थानि तानि मूल-फलानि च।
सङ्क्षालितानि बहुशो देव-भोग्यानि यानिच॥
दधि-क्षीराज्य-मुख्यानि द्रव्याणि च विशेषतः।
उत्तमान् उपदंशांश् च मुद्ग-माषादि कान्य् अपि॥
ताम्बूलादीनि चान्यानि सर्वाण्य् आदाय सादरम्।
यथार्हं तानि संस्कृत्य प्रक्रमेतार्चनं ततः॥

प्रातर् उत्थाय चिन्वीयात् स्वारामात् स्वयम् एव हि।
पूजार्थम् अस्त्र-मन्त्रेण पुष्पादीन् यत्नतः पथि॥
यायाद् अरण्यम् अथ वा निर्बाधं हि तदार्जने।
अ-कण्टक-द्रुमोत्थाश् च कण्टकि-द्रुम-जा अपि॥
हृद्यास् सुगन्धाः कर्मण्याग्राह्यान् सर्वे सितादय।
उग्र-गन्धा ह्य् अ-कर्मण्यास् त्व् अ-प्रसिद्धास् तथैव च॥
चतुष्पथ-शिवावास-श्मशानावनि-मध्य-गाः। क्षता अशनि-पाताद्यैः क्रिमि-कीट-समावृता॥
वर्जनीयाः प्रयत्नेन पत्र-पुष्प-फलादयः।
अम्बुजानि सुगन्धीनि सित-रक्तानि कानिचित्॥
योक्तव्यानि पवित्राणि स्वयम् आराधने तु वै।
साङ्कुराणि च पत्राणि प्रभूतान्य् एवम् एव हि॥
विहितान्य् अर्चने नित्यं यथर्तु प्रभवानि च। न गृहे कर-वीरोत्थैः कुसुमैर् अर्चनं हितम्॥
विशेषतस् सकामस्य सिद्धि-भूति-युतस्य च

इत्य् आदि-शास्त्राणि पर्यालोच्य हेयोपादेय-विभागं विविच्य -

स्व-प्रयत्न-कृतं शस्तं मध्यमं वन्यम् उच्यते।
अधमस् तु क्रय-क्रीतं याचितस् त्व् अधमाधमम्

इत्य् उक्त-रीत्या, उत्तमादि-विभागम् अपि विविच्य, आराधनोपयुक्त-द्रव्यम् आर्जयेत्

[[72]]