२१ अभिगमनाराधन-क्रमः

प्रबोधनम्

सृक्-चन्दन-वासो-भूषण-ताम्बूलाद्य्-अलङ्कृतस्
सुप्रक्षालित-पाणि-पादो याग-गृहं प्रविश्य
दूरात् प्रणम्य
द्वार-पालान् प्रणम्यानुज्ञाप्य
समीपं गत्वा

कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते।
उत्तिष्ठ नर-शार्दूल कर्तव्यं दैवम् आह्निकम्॥
वीर-सौम्य-विबुध्यस्व कौसल्याऽऽनन्द-वर्धन।
जगद् धि सर्वं स्वपिति त्वयि सुप्ते नराधिप॥
यामिन्य् अपैति यदु-नाथ विमुञ्च निद्राम्
उन्मेषम् ऋच्छति तवोन्मिशितेन विश्वम्।
जातस् स्वयं खलु जगद् धितम् एव कर्तुं
धर्म-प्रवर्तन-धिया धरणी-तले ऽस्मिन्॥
सुखाय सुप्रातम् इदं तवास्तु जगत्-पते जागृहि नन्द-सूनो । अम्भोजम् अन्तश्-शय-मञ्जु-तारा- रोलम्बम् उन्मीलतु लोचनं ते ॥

इत्यादिभिर् भगवन्तं प्रबोध्य

अर्चनम्, शरणागतिः

पत्र-पुष्प-फलादिभिर् देश-कालानुगुण्येनार्चयित्वा
अष्टाङ्गेन प्रणम्य
भक्ति-भारावनमितस् सन् द्वयम् उच्चार्य
तद्-अर्थ-विवरण-रूपम् मित-गद्यम् अनुसन्धाय -

सत्य-ज्ञानानन्तानन्दामल-स्व-रूप, वत्सल-स्वामिन् सुशील-सुलभ-सर्वज्ञ-सर्व-शक्ते परम-कारुणिक–कृत-ज्ञ–स्थिर-परिपूर्ण-परमोदार-शुद्ध-सत्वमय-दिव्य-मङ्गल-विग्रहोपेत-श्रीमन्-नारायण, अत्यन्ताकिञ्चनो ऽहमितस् त्वद्-आनुकूल्यम् एव करिष्ये, त्वत्-प्रातिकूल्यं न करिष्ये, मम च, एतत्-क्षणोत्तर-कालीन-सायम् अभिगमन-पर्यन्तं कैङ्कर्योत्पादन-रूप-रक्षायां त्वां विना कल्प-कोटि-सहस्रेणापि साधनं नास्ति, त्वम् एवोपायान्तर-स्थाने स्थित्वा निरुक्त-कैङ्कर्योत्पादन-रूप-रक्षां, एतत्-कैङ्कर्याराध्यताभ्युपगम-द्वारेण करिष्यसि इति सुदृढं, अध्यवस्यामि त्वम् एवैतद् रक्षां कुरु, देहेन्द्रियादि-विलक्षणो ऽहं मदीयत्वेनाभिमतं च वस्तु सर्व-स्वामिने श्रीमते नारायणाय तुभ्यम् एव न मम, निरुक्त-कैङ्कर्योत्पादन-रूप-रक्षा-भर-उक्त-गुण-विशिष्टाय तुभ्यम् एव न मम,एतद् रक्षा-फलम् अपि तादृशाय तुभ्यम् एव न मम

[[70]]

इति प्रपदनं कुर्यात्।

ततः, दर्पणादि-मङ्गल-द्रव्य-वीक्षणम्।

अनुकल्पः

… साङ्ग-प्रपदन-रूपाभिगमनाशक्तौ स्व-गुरोः पादारविन्दे स्व-भरन् न्यस्येत्।
तस्याप्य् अ-सम्भवे करण-त्रयैकरूप्येण
जप-ध्यान-अर्चन-स्तोत्र-कथन-सङ्कीर्तन–
प्रणामाञ्जलि-बन्धादिकं स्व-शक्यं कुर्यात्।
सूतकाशौचाद्य्–अ-प्रायत्य-काले ऽपि मनसाभिगमनं, भाषा-प्रबन्ध-स्तोत्रादिकं,
दूरतो ऽवस्थाय प्रणामाञ्जलि-बन्धादिकं, कार्यम् एव।

गोग्रासादि

… ततः,

सौरभेयास् सर्व-हिताः
पवित्राः पुण्य-राशयः।
प्रतिगृह्णन्तु मे ग्रासं
गावस् त्रैलोक्य-मातरः

इति मन्त्रेण परगवे ग्रास-मुष्टि-प्रदानं कुर्यात्।
ततः, गुरूणां वृद्धानां चाभिवादनं गुरूपासनम्।
वेदाध्ययन–तद्-धारण–तद्-अर्थ-विचारण–वेदाङ्गावेक्षणादिकं प्रथम-यामे कुर्यात्।

सात्त्विक-त्यागः

भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया सक्वीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी स्व-शेष-भूतम् इदम् अभिगमनाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान्

इति सात्त्विक-त्यागं कृत्वा -

कृतञ् च करिष्यामि भगवन्न् इत्य् एव भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चतुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन अभिगमनेन भगवत्-कर्मणा भगवान् प्रीयतां वासुदेवः

इत्य् अभिगमनं भगवति समर्पयेत्।

[[71]]