१७ वस्त्र-निष्पीडनादि

वस्त्र-निष्पीडन-क्रमः

… द्वादश्यां, पूर्णिमायां, दर्श-सङ्क्रान्त्योः, श्राद्ध-दिने च, वस्त्र-निष्पीडनं न कुर्यात्।
दर्श-सङ्क्रान्त्यादि-श्राद्ध-दिनेषु श्राद्धानन्तरं कुर्यात्।

… निवीती
स्नान-वस्त्रञ् चतुर्-गुणी कृत्य

ये के चास्मत्-कुले जाता अ-पुत्रा गोत्र-जा मृताः।
ते गृह्णन्तु मया दत्तं वस्त्र-निष्पीडनोदकम्॥

इति मन्त्रेण शुचौ देशे, अपसव्यं, निष्पीड्य
वाम-प्रकोष्ठे विन्यस्य
उपवीती
द्विर् आचम्य

मन्त्र-देवता-प्रेषणम्

हे आवाहित-तीर्थानि तद्-अर्थ-मन्त्राश् च ममात्मनि समागच्छत

इत्य् उक्त्वा अवाहित-तीर्थ-मन्त्रान् आह्वान-मुद्रया समाहरेत्।
जीव-पितृको वस्त्र-निष्पीडनं न कुर्यात्

[[60]]

सात्त्विक-त्यागः

भगवान् एव स्व-नियाम्य–स्व-रूप–स्थिति-प्रवृत्ति–स्व-शेषतैक-रसेन मया सक्वीयैश् चोपकरणैस् स्वाराधनैक-प्रयोजनाय परम-पुरुषस् सर्व-शेषी-स्व-शेष-भूतम् इदम् प्रातस् सन्ध्योपासनाख्यं कर्म स्वस्मै स्व-प्रीतये स्वयम् एव कारितवान्

कृतञ् च करिष्यामि भगवन्न् इत्य् एव भगवत्-प्रीत्य्-अर्थेन महा-विभूति-चातुरात्म्य-भगवद्-वासुदेव-पादारविन्दार्चनेन प्रातस् सन्ध्योपासनाख्येन भगवत्-कर्मणा भगवान् प्रीयतां वासुदेवः

इति प्रातस् सन्ध्या-वन्दनं भगवति समर्पयेत्।