१६ देवर्षि-काण्डर्षि-तर्पण-विधिः

सङ्कल्पः

श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं, देवर्षि-काण्डर्षि-पितृ-तर्पणं करिष्ये

इति सङ्कल्प्य
देवान् ऋषीन् पितॄन् भगवद्-आत्मकान् ध्यात्वा

देव-तर्पणम्

प्राङ्-मुखः,

ॐ ब्रह्मादयो यो देवास् तान् देवांस् तर्पयामि
ॐ सर्वान् देवांस् तर्पयामि
ॐ सर्व-देव-गणांस् तर्पयामि
ॐ सर्व-देव-पत्नीस् तर्पयामि
ॐ सर्व-देव-गण-पत्नीस् तर्पयामि

इति देव-तीर्थेन विसृजेत् उदङ्-मुखो ऽङ्गुष्ठ-द्वय-सक्त-निवीती,

[[59]]

ऋषि-तर्पणम्

ॐ कृष्णद्वैपायनादयो ये ऋषयस् तान् ऋषींस् तर्पयामि
ॐ सर्वान् ऋषींस् तर्पयामि
ॐ सर्व-ऋषि-गणांस् तर्पयामि
ॐ सर्व-ऋषि-पत्नीस् तर्पयामि
ॐ सर्व-ऋषि-गण-पत्नीस् तर्पयामि
ॐ प्रजापतिं काण्ड-ऋषीन् तर्पयामि
ॐ सोमं काण्ड-ऋषीन् तर्पयामि
ॐ अग्निं काण्ड-ऋषीन् तर्पयामि
ॐ विश्वान् देवान् काण्ड-ऋषींस् तर्पयामि
ॐ सांहितीर् देवता उपनिषदस् तर्पयामि
ॐ याज्ञिकीर् देवता उपनिषदस् तर्पयामि
ॐ वारुणीर् देवता उपनिषदस् तर्पयामि
ॐ ब्रह्माणं स्वयम्-भुवस् तर्पयामि
ॐ सदसस्पतिस् तर्पयामि

इति ऋषि-तीर्थेन विसृजेत्

पितृ-तर्पणम्

दक्षिणा-मुखः प्राचीनावीती,

ॐ सोमः पितृमान्
यमो ऽङ्गिरस्वान्
अग्निः कव्य-वाहन इत्यादयो ये पितरस्
तान् पितॄंस् तर्पयामि
ॐ सर्वान् पितॄंस् तर्पयामि
ॐ सर्व-पितृ-गणांस् तर्वयामि
ॐ सर्व-पितृ-पत्नींस् तर्पयामि
ॐ सर्व-पितृ-गण-पत्नींस् तर्पयामि

इति पितृ-तीर्थेन, सन्तर्प्य

ऊर्जं॒ वह॑न्तीर् अ॒मृतं॑ घृ॒तं
पयः॑ की॒लालं॑ परि॒स्रु॑तम्।
स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ॥३४॥

इति जले, अञ्जलिना त्रिः प्रदक्षिणी-कृत्य दक्षिण-पार्श्व-तीरं संशोध्य
“तृप्य॑त॒, तृप्य॑त॒, तृप्य॑त” इति त्रिर् जलाञ्जलिं प्रक्षिप्य
तत्-तीरं पुनस् संशोधयेत्
उपवीती
आचामेत्