द्विर् आचम्य - प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं, आधार-शक्त्य्-आदि-तर्पणं करिष्ये
इति सङ्कल्प्य -
ॐ आधार-शक्त्यै नमः ॐ प्रकृत्यै नमः ॐ अखिल-जगद्-आधाराय कूर्म-रूपिणे नारायणाय नमः ॐ अनन्ताय नागराजाय नमः ॐ भूं भूम्यै नमः ॐ श्री-वैकुण्ठाय दिव्य-लोकाय नमः ॐ श्री-वैकुण्ठाय दिव्य-जन-पदाय नमः ॐ श्री-वैकुण्ठाय दिव्य-नगराय नमः ॐ श्री-वैकुण्ठाय दिव्य-विमानाय नमः ॐ आनन्दमयाय दिव्य-मण्टप-रत्नाय नमः ॐ आस्तरण-रूपायानन्ताय नागराजाय नमः
अग्नेयादि-विदिक्षु
ॐ धर्माय पीठ-पादाय नमः ॐ ज्ञानाय पीठ-पादाय नमः ॐ वैराग्याय पीठ-पादाय नमः ॐ ऐश्वर्याय पीठ-पादाय नमः
प्राग्-आदि-दिक्षु
ॐ अ-धर्माय पीठ-गात्राय नमः ॐ अ-ज्ञानाय पीठ-गात्राय नमः ॐ अ-वैराग्याय पीठ-गात्राय नमः ॐ अ-नैश्वर्याय पीठ-गात्राय नमः ॐ एभिः परिच्छिन्न-तनवे पीठ-भृते सदात्मने ऽनन्ताय नागराजाय नमः
तद्-उपरि
ॐ अष्ट-दल-पद्माय नमः अष्टसु दलेषु प्राग्-आदि-क्रमेण प्रादक्षिण्येन ॐ विमलायै चामर-हस्तायै नमः ॐ उत्कर्षिण्यै चामर-हस्तायै नमः ॐ ज्ञानायै चामर-हस्तायै नमः ॐ क्रियायै चामर-हस्तायै नमः ॐ योगायै चामर-हस्तायै नमः ॐ प्रभ्व्यै[[??]] चामर-हस्तायै नमः ॐ सत्यायै चामर-हस्तायै नमः ॐ ईशानायै चामर-हस्तायै नमः
[[57]]
कर्णिका-पूर्व-भागे
ॐ अनुग्रहायै चामर-हस्तायै नमः ॐ जगत्-प्रकृतये दिव्य-योग-पीठाय नमः ॐ दिव्य-योग-पर्यङ्काय नमः ॐ सहस्र-फणा-मण्डितायानन्ताय नागराजाय नमः ॐ पाद-पीठात्मने ऽनन्ताय नागराजाय नमः ॐ सर्व-परिवाराणां पद्मासनेभ्यो नमः ॐ अन्-अन्त-गरुड-विष्वक्सेनानां सपीठक-पद्मासनेभ्यो नमः
योग-पीठस्य पश्चिमोत्तर-दिग्-भागे
ॐ अस्मद्-गुरुभ्यो नमः
कल्पिते नाग-भोगे
ॐ श्रीमते नारायणाय नमः
तस्य दक्षिणतः
ॐ श्रीं श्रियै नमः
वामतः
ॐ भूं भूम्यै नमः
तत्रैव
ॐ नीं नीलायै नमः ॐ सर्वाभ्यो भगवद्-दिव्य-महिषीभ्यो नमः ॐ किरीटाय मकुटाधिपतये नमः ॐ किरीट-मालायै आपीडात्मने नमः ॐ दक्षिण-कुण्डलाय मकरात्मने नमः ॐ वाम-कुण्डलाय मकरात्मने नमः ॐ वैजयन्त्यै वन-मालायै नमः ॐ श्रीमत्-तुलस्यै नमः ॐ श्री-वत्साय श्री-निवासाय नमः ॐ हाराय सर्वाभरणाधिपतये नमः ॐ कौस्तुभाय सर्व-रत्नाधिपतये नमः ॐ काञ्ची-गुणोज्वलाय दिव्य-पीताम्बराय नमः ॐ सर्वेभ्यो भगवद्-दिव्य-भूषणेभ्यो नमः
दक्षिणतः
ॐ सुदर्शनाय हेति-राजाय नमः ॐ नन्दकाय खड्गाधिपतये नमः ॐ पद्माय नमः
वामतः
ॐ पाञ्चजन्याय शङ्खाधिपतये नमः ॐ कौमोदक्यै गदाधिपत्नै नमः ॐ शार्ङ्गाय चापाधिपतये नमः ॐ सर्वेभ्यो भगवद्-दिव्यायुधेभ्यो नमः ॐ सर्वाभ्यो भगवत्-पादारविन्द-संवाहिनीभ्यो नमः
पृष्ठतः
ॐ अन्-अन्ताय नागराजाय नमः ॐ सर्वेभ्यो भगवत्-परिजनेभ्यो नमः
पुरतः
ॐ भगवत्-पादुकाभ्यां नमः ॐ सर्वेभ्यो भगवत्-परिच्छदेभ्यो नमः
[[58]]
अग्रतः
ॐ वं वैनतेयाय नमः
तस्य प्राग्-उत्तर-पार्श्वे
ॐ भगवते विश्वक्सेनाय नमः
तस्य प्राग्-आदि-चतुर्-दिक्षु
ॐ गं गजाननाय नमः ॐ जं जयत्सेनाय नमः ॐ हं हरि-वक्त्राय नमः ॐ कं काल-प्रकृति-संज्ञिकाय नमः ॐ सर्वेभ्यो भगवद्-विष्वक्सेन-परिजनेभ्यो नमः
प्राग्-द्वारादि-क्रमेण
ॐ चण्डाय द्वार-पालाय नमः ॐ प्रचण्डाय द्वार-पालाय नमः ॐ भद्राय द्वार-पालाय नमः ॐ सुभद्राय द्वार-पालाय नमः ॐ जयाय द्वार-पालाय नमः ॐ विजयाय द्वार-पालाय नमः ॐ धात्रे द्वार-पालाय नमः ॐ विधात्रे द्वार-पालाय नमः ॐ सर्वेभ्यो भगवद्-द्वार-पालेभ्यो नमः
प्राग्-आदि-क्रमेण
ॐ कुमुदाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः ॐ कुमुदाक्षाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः ॐ पुण्डरीकाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः ॐ वामनाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः ॐ शङ्कु-कर्णाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः ॐ सर्व-नेत्राय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः ॐ सुमुखाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः ॐ सुप्रतिष्ठाय गणाधिपतये स-वाहन-परिवार-प्रहरणाय नमः ॐ सर्वेभ्यो भगवत्-पारिषदेभ्यो नमः
इति सन्तर्प्य -