सङ्कल्पादि
मूल-मन्त्रेण पञ्च-विंशति-कृत्वः,
अभ्यस्तेन त्रिः प्राणानायम्य -
श्री-भगवद्-आज्ञया भगवत्-प्रीत्य्-अर्थं श्री-विष्णु-षड्-अक्षर-महा-मन्त्र-जपं करिष्ये
इति सङ्कल्प्य -
अस्य श्री-विष्णु-षड्-अक्षर-महा-मन्त्रस्य भगवान् ब्रह्मा ऋषिः, देवी गायत्री-च्छन्दः, विष्णुः परमात्मा देवता।
इति न्यस्य - “विष्णु-प्रीत्य्-अर्थे जपे विनियोगः” इत्य् उक्त्वा -
[[55]]
कर-न्यासः
षड्-अक्षर-मन्त्रेण कूर्परम् आरभ्य अङ्गुल्य्-अग्र-पर्यन्तं स्व-हस्तौ परस्परं त्रिः परामृश्य,
ततश् शुद्धयोर् हस्तयोर् मन्त्रस्य व्यापक-न्यासं कृत्वा -
“ॐ ॐ, अङ्गुष्ठाभ्यां नमः” इत्य् अङ्गुष्ठयोस् तर्जनीभ्यां,
“ॐ नमः, तर्जनीभ्यां नमः” इति तर्जन्योः, अङ्गुष्ठाभ्यां,
“ॐ विष्णवे, मध्यमाभ्यां नमः” इति मध्यमयोः, अङ्गुष्ठाभ्यां,
“ॐ ॐ, अनामिकाभ्यां नमः” इत्य् अनामिकयोः, अङ्गुष्ठाभ्यां,
“ॐ नमः, कनिष्ठिकाभ्यां नमः” इति कनिष्ठिकयोः, अङ्गुष्ठाभ्यां, न्यस्य,
“ॐ विष्णवे, कर-तल-कर-पृष्ठाभ्यां नमः" इति कर-तल-कर-पृष्ठयोः परामृशेत्।
इति कर-न्यासः षड्-अक्षर-मन्त्रेण प्राणिभ्यां शिरः-प्रभृति-पादान्तं वर्म-वेष्टनवत्-स्व-पार्श्वयोः स्पर्श-रूपं व्यापक-न्यासं कृत्वा
अङ्ग-न्यासः
“ॐ ॐ, ज्ञानाय हृदयाय नमः” इत्य् अङ्गुष्ठ-युक्त-तर्जन्या हृदये,
“ॐ नमः, ऐश्वर्याय शिरसे स्वाहा" इत्य् अन्-अङ्गुष्ठाभिर् अङ्गुलीभिर् मस्तके,
“ॐ विष्णवे, शक्त्यै शिखायै वौषट्” इत्य् अङ्गुष्ठ-नालेन अधो मुखेन मुष्टिना शिखा-मध्ये, न्यस्य
“ॐ ॐ, बलाय कवचाय हुम्” इति कण्ठादि-कट्य्-अन्तां तनुं पाणिभ्यां वर्मवत् स्पृष्ट्वा
“ॐ नमः, तेजसे नेत्राभ्यां वौषट्” इति तर्जनी-मध्यमाग्राभ्यां युगपन् नेत्र-द्वये न्यस्य
“ॐ विष्णवे, वीर्यायास्त्राय फट्” इति सास्त्रच्छोटेन साङ्गुष्ठ-तर्जन्य्-अग्रेण पूर्वाद्याश् चतुर्-दिशः पूर्वं, पश्चाद् अग्न्यादि-विदिशश् च बध्नीयात्
इत्य् अङ्ग-न्यासः
ध्यानादि
ध्यानम्॥
स शङ्ख-चक्रं स किरीट-कुण्डलं
स पीत-वस्त्रं सरसी रुहेक्षणम्।
विशाल-वक्ष-स्थल-शोभि कौस्तुभं नमामि विष्णुं शिरसा चतुर्-भुजम्॥
मेघ-श्यामं पीत-कौशेय-वासं
श्री-वत्-साङ्कं कौस्तुभोद्भासिताङ्गम्।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्व-लोकैक-नाथम्॥
इति ध्यात्वा
यथा-शक्ति षड्-अक्षर-मन्त्र जपङ्कुर्यात्
अष्टाक्षर-व्यतिरिक्त-मन्त्र-जपाः तदानीम् अवसरालाभे भोजनात् पूर्वं यदा कदाचित् कर्तुं युक्ताः।
[[56]]